Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 395
________________ कचिद्रसमपुरमा लन हेमकुम्भबान निबदमैथुनाता, पून उपमितीदरम्परा, तथाहि-पश्य चम्पकवीथिकां निरूपय मृद्वीकामण्डपान् विलोकय कुब्जकवनगहनानि निरीक्षस्व कुन्दपादपसन्दोहं निभालय च. ४-प्र. रक्ताशोकतरुस्तोमं साक्षात्कुरू, बकुलविटपिगहनानि, यद्येतेषामेकमपि विलसदुद्दामकामिनीवृन्दपरिकरितमहेश्वरनागरकलोकविरचितापा 18 नकविरहितमुपलभ्येत भवता ततो मामकीनवचनेऽन्यत्रापि न सम्प्रत्ययो विधेयः प्रतारकत्वान्द्रेणेति, प्रकर्षणोक्तं ननु कोऽत्र सन्देहः?, ॥३९१॥ दृश्यन्ते प्रायेणैवात्र प्रदेशे स्थितैर्य एते मामेनोद्घाटिता वनविभागा इति, किंच-न केवलमेते काननाभोगाः सर्वेऽपि विविधमधुपानमत्तोत्तालकलितललितमलोल्लासमिलितबहललोककलकलाकुलाः, किं तर्हि ?, कचिद्रसन्नूपुरमेखलागुणैनितम्बबिम्बातुलभारमन्थरैः ॥ तरुप्रसूनोच्चयवाञ्छयाऽऽगतैः, सभर्तृकै न्ति विलासिनीजनैः ॥ १॥ कचित्तु तैरेव विघट्टिताः स्तनैर्महेभकुम्भस्थलविभ्रमैरिमे । विभान्ति दोलापरिवर्तिभिः कृताः, सकामकम्पा इव माम! शाखिनः ॥ २ ॥ कचिल्लसद्रासनिबद्धकौतुकाः, कचिद्रहःस्थाननिबद्धमैथुनाः । इमे कचिन्मुग्धविलासिनीमुखैर्न पाषण्डादधिका न शोभया ॥ ३॥ विमर्शेनाभिहितं-साधु भद्र ! साधु सुन्दरं विलोकितं भवता, नूनमेवंविधा एव सर्वेऽपीमे काननाभोगाः, अत एव मयाऽभिहितं यथाऽवसरे भवतो भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽस्मिन्नेव वसन्तकाले नगरस्यास्य सौन्दर्यसारमुपलभ्यते, तदेते विलोकिता भद्र! भवता तावद्वहिर्वनाभोगाः साम्प्रतं प्रविशावो नगरं विलोकयाव-| स्तदीयश्रियं येन तब कौतुकमनोरथः परिपूर्णो भवति, प्रकर्षणोक्तं-अतिदर्शनीयमिदं बहिर्लोकविलसितं रमणीयतरोऽयं प्रदेशः पथि श्रान्तश्चाहं अतः प्रसादं करोतु मे मामः तिष्ठतु तावदत्रैव क्षणमेकं स्तोकवेलायां नगरे प्रवेक्ष्याव इति, विमर्शेनाभिहितं—एवं भ-5 वतु॥ ततो यावदेष जल्पस्तयोः संपद्यते तावत् किं संवृत्तम् ?, स्थघणघणरावगर्जितः, करिसङ्घातमहाभ्रविभ्रमः । निशितास्त्रवितानवैद्युतश्चलशुक्लाश्वमहाबलाहकः॥ १ ॥ निपतन्मदवारिसुन्दरः, प्रमदभरोडुरलोकसेवितः । जनिताखिलसुन्दरीमनोबृहदुन्माथकरूपधारकः लोलाक्षनृपागमः ॥३९१॥ JainEducational For Private sPersonal use Only nelibrary

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474