Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 620
________________ - स्थितिबन्ध वृद्धिहानिसत्पदोपपत्ति०] वृद्धयधिकारे सत्पदद्वारम् "वड़िओ संख्येयभागा-ऽसंख्येयभाग-संख्येयगुणा--ऽसंख्येयगुण---भेदनिष्पन्नाचतुः प्रकाराः हाणीओ" ति 'वृद्धयः- पूर्वसमयाऽपेक्षयाऽधिक स्थितिबन्धलक्षणाः, 'हानय:'- पूर्वसमयापेक्षया हीनस्थितिबन्धलक्षणा: “त्थि” त्ति अकारस्य दर्शनात् 'सन्ति' विद्यन्ते । चतुर्विधा वृद्धयश्चतुर्विधा हानयश्च सत्य एव, न पुनरेकेन्द्रियादिकतिपय मार्गणासु यथा संख्येयभागादिवृद्धिहानयो वियदिन्दीवरवदसत्यो वक्ष्यन्ते तथाऽत्रैौघचिन्तायामपीति भाव: । तत्रासंख्यभागस्थितिबन्धवृद्धिहानी प्रत्येकं पदनिक्षेपाधिकारोक्तैकैकसमयात्मकजघन्यवृद्धिहान्यनुसारेणाऽन्यथा वा समर्याद्वसमयादिवृद्धिहानिप्रभृति पल्योपमासंख्येय भागान्त बुद्धिहान्यनुसारेण प्रसिद्धे । संख्येयभागस्थितिबन्धवद्विस्तु पल्योपमसंख्येयभागादिनाऽधिकं स्थितिबन्धं कुर्वतामेकेन्द्रियवर्जजीवानां स्वस्थाने लभ्यते, अत्रैकेन्द्रियाणां वर्जनं तेषां स्ववन्धप्रायोग्यजघन्यस्थितिबन्धात् स्ववन्धप्रायोग्योत्कृष्टस्थितिबन्धोऽपि पल्योपमासंख्येयभागेनाधिकः सन्नसंख्येयभागाधिकैव वृद्धिः सम्भवति, न पुनस्तदधिकेति । संख्येयभागहानिः पुनश्चतुरिन्द्रियादितश्च्युत्वा त्रीन्द्रियादितयोत्पद्यमानानां जीवानां परस्थाने, स्वस्थाने च पल्योपम संख्येयभागादिना हीनस्थितिबन्धं कुर्वतामेकेन्द्रियवर्जजीवानां प्रसिद्धयति । संख्येयगुणवृद्धिहानिविषयेऽपि तथैव, नवरं चतुरिन्द्रियादिभ्योऽसंज्ञिपञ्चेन्द्रियादितयोत्पद्यमानानां परस्थाने वृद्धिः, संज्ञिपञ्चेन्द्रियादिभ्यो यथोत्तरमसंज्ञिपञ्चेन्द्रियाद्ये केन्द्रियपर्यन्तेषूत्पद्यमानानां परस्थाने हानि:, स्वस्थाने तु संज्ञिपञ्चेन्द्रियाणामेव ते उभेऽपि प्रसिद्ध यतः । सप्तानामसंख्येयगुणस्थितिबन्धवृद्धिहानी तु श्रेणिसत्कस्थितिबन्धानपेक्ष्य प्रसिद्धयतः । तत्राप्यसंख्ययेयगुणवृद्धिः प्रपतत उपशमकस्यानिवृत्तिकरणगुणस्थानकभाविस्थितिबन्धानपेक्ष्य, न पुनः सूक्ष्म सम्परायगुणस्थान भाविस्थितिबन्धानपेक्ष्यापि, तत्र तस्य नव्यनव्यस्थितिबन्धानां पूर्वपूर्वस्थितिबन्धापेक्षया संख्येयभागाधिकानामेव भावात् । एवम संख्ये गुणहानिविषयेऽपि बोद्धव्यं, नवरं श्रेणिमारोहत उपशमकस्य क्षपकस्य वाऽनिवृत्तिकरणगुणस्थान भाविस्थितिबन्धानपेक्ष्यैव न पुनः पूर्ववत् सूक्ष्मसम्परायगुणस्थान भाविस्थितिबन्धानपेक्ष्य । इदमुक्तं भवति - उपशमश्रेणिमारोहतो यस्य कस्यापि महात्मनो यथोत्तरस्थितिबन्धेषु हीन-हीनतरादिस्थितिर्वध्यते, तत्राप्यनिवृत्तिकरणगुणस्थानके वर्तमानस्य तस्य येषां कर्मणां यस्मिन् स्थितिबन्धे पल्योपमासंख्येयभागमात्रा स्थितिर्बध्यते, तेषां कर्मणां ततः प्रभृति यथोत्तरमसंख्येयगुणहीनक्रमेण स्थितिबन्धाः प्रवर्तन्ते; एवमपि तावद्भवति यावन्नपुंसक वेद - स्त्रीवेदोपशमनादनन्तरं सप्तनोकषायोपशमनाद्वाया मध्ये नामगोत्रयोस्ततो वेदनीयस्यापि प्रथमः संख्ये वार्षिकः स्थितिबन्धो जायते । तदानीं च सर्वेषामेत्र संख्येयवार्षिक एवं स्थितिबन्धः ततः प्रभृति ये तेषामुत्तरोत्तरस्थितिबन्धा भवन्ति, ते न प्राग्वदसंख्येयगुणहीनक्रमेण किन्तु संख्येयगुणहीनक्रमेणैव । उक्त च कर्मप्रकृत्युपशमनाकरणवृत्तौ - 'स्त्रीवेदे उपशान्ते ततः शेषान् सप्तनोकषायान् उपशमयितुमारभते । तेषां चैवं पूर्वोक्तेन प्रकारेणोपशम्यमानानामुपशमनाद्धायाः संख्ये यतमे भागे गते सति “द्वयोः” नामगोत्रयोः संख्ये वार्षिकः स्थितिबन्धो Jain Education International [ ५४७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762