Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 650
________________ ध्रु वाध्र वपदैः करणयोजनया लब्धभङ्गाः ] वृद्धयधिकारे भङ्गविचयद्वारम् [ ५७७ कृत्वा भङ्गा (६५६१) एकषष्टयभ्यधिकपञ्चशतोत्तरपट्सहस्राण्युत्पद्यन्ते, एतेऽपि प्राग्वत्सध्रुवा ज्ञेयाः। ___ नपुसकवेदमार्गणायां चतुर्यु क्रोधादिकषायमार्गणाभेदेषु च प्रत्येकं संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणानि षट् पदानि भाज्यानि, असंख्येयभागवृद्धिहानी अवस्थितपदं चेति पदत्रयं ध्रुवम् , ततः समस्ता भङगका एकोनत्रिंशदभ्यधिकसप्तशतानि (७२९) प्राप्यन्ते । अपगतवेदमार्गणायां पुनर्ज्ञानावरण-दर्शनावरणा-ऽन्तरायकर्माण्यधिकृत्याष्टाविंशत्यभ्यधिकसप्तशतानि (७२८) भङ्गाः प्राप्यन्ते । कुतः ? संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानां चतुर्णामवस्थाना-ऽवक्तव्यलक्षणयोयोरित्येतेषां षण्णां पदानामध्रुवत्वात् , ध्रुवपदस्याभावाच्च । वेदनीयनाम-गोत्रकर्माण्याश्रित्य प्रत्येकं पुनः संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवद्धिहानिलक्षणानि षट , पूर्ववदवस्थाना-ऽवक्तव्यलक्षणे व इत्येवमष्टौ पदान्यध्रुवाणि, ध्रुवपदाभावश्च, ततो भङ्गका अपि (६५६०) षष्टयभ्यधिकपञ्चषष्टिशतान्यवाप्यन्ते । प्रकृतमार्गणायामेव मोहनीयकर्माधिकृत्य संख्येयभागवद्धिहानिलक्षणे द्व', अवस्थाना-ऽवक्तव्यलक्षणे द्वं इति चत्वारि पदान्यध्रुवाणि, प्राग्वद् ध्रवपदाभावश्च ततो भङगका (८०) अपि सर्वेऽशीतिर्भवन्ति । अमी गतवेदमार्गणायां दर्शिताः सर्वे भङ्गा अध्रुवपदनिष्पन्ना एव । कुतः ? ध्रवपदस्याभावादिति । छेदोपस्थापनसंयममार्गणायामसंख्येयभाग-संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धि-हानिलक्षणान्यष्टौ पदान्यवस्थितपदं चेति नवापि पदान्यध्रुवाणि, ध्रुवपदाभावश्च, ततः सप्तानां कर्मणां प्रत्येकमेकानेक्वन्धकनिष्पन्नभङ्गा (१९६८२) द्वयशीत्यभ्यधिकषट्शतान्वितैकोनविंशतिसहस्राण्युत्पद्यन्ते, ते च ध्रुवरहिता अध्रुवा एव मन्तव्याः, प्रकृत एकस्यापि ध्रुवपदस्याऽसचादिति । मूक्ष्मसम्परायसंयममार्गणायां संख्येयभागस्थितिबन्धवृद्धिहानी तथाऽवस्थितस्थितिवन्ध इत्येतेषां त्रयाणां सत्पदानामध्रुवत्वात् , ध्रुवपदस्याभावाच्च भङ्गविचयेऽपि ध्रुवभङ्गरहिताः (२६) पड्विंशतिर्भङ्गकाः सम्पद्यन्ते । औपमिकसम्यक्त्वमार्गणायां तु सप्तप्रकृतीनां प्रत्येकं स्थितिबन्धवृद्धयादेः कालभेदेन कानेकबन्धकसद्भावप्रयुक्ता भङ्गका दर्शितरीत्याऽष्टचत्वारिंशदभ्यधिकैकोनषष्टिसहस्राणि (५९०४८) जायन्ते, ते च सर्वेऽध्रवा एव मन्तव्याः । कुतः ? असंख्येयभाग-संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणानामष्टानां पदानामवस्थाना-ऽवक्तव्यलक्षणयो योः पदयोरित्येवं दशानामपि सत्पदानामध्रुवत्वात् , तदन्यपदस्यैवाऽभावाच्चेति ॥७७३॥ तदेवं दर्शितस्तत्तद्वृद्धयादिबन्धकानां ध्रुवा-ध्रुवत्वं प्रदर्श्य भङ्गोत्पादकरणप्रदर्शनद्वारेण भङ्गविचयः, तस्मिश्च दर्शिते गतं पञ्चमं भङ्गविचयद्वारम् ।। ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पश्चमे वृद्धयधिकारे पश्चमं भङ्गविचयद्वारं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762