________________
ध्रु वाध्र वपदैः करणयोजनया लब्धभङ्गाः ] वृद्धयधिकारे भङ्गविचयद्वारम्
[ ५७७ कृत्वा भङ्गा (६५६१) एकषष्टयभ्यधिकपञ्चशतोत्तरपट्सहस्राण्युत्पद्यन्ते, एतेऽपि प्राग्वत्सध्रुवा ज्ञेयाः। ___ नपुसकवेदमार्गणायां चतुर्यु क्रोधादिकषायमार्गणाभेदेषु च प्रत्येकं संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणानि षट् पदानि भाज्यानि, असंख्येयभागवृद्धिहानी अवस्थितपदं चेति पदत्रयं ध्रुवम् , ततः समस्ता भङगका एकोनत्रिंशदभ्यधिकसप्तशतानि (७२९) प्राप्यन्ते ।
अपगतवेदमार्गणायां पुनर्ज्ञानावरण-दर्शनावरणा-ऽन्तरायकर्माण्यधिकृत्याष्टाविंशत्यभ्यधिकसप्तशतानि (७२८) भङ्गाः प्राप्यन्ते । कुतः ? संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानां चतुर्णामवस्थाना-ऽवक्तव्यलक्षणयोयोरित्येतेषां षण्णां पदानामध्रुवत्वात् , ध्रुवपदस्याभावाच्च । वेदनीयनाम-गोत्रकर्माण्याश्रित्य प्रत्येकं पुनः संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवद्धिहानिलक्षणानि षट , पूर्ववदवस्थाना-ऽवक्तव्यलक्षणे व इत्येवमष्टौ पदान्यध्रुवाणि, ध्रुवपदाभावश्च, ततो भङ्गका अपि (६५६०) षष्टयभ्यधिकपञ्चषष्टिशतान्यवाप्यन्ते । प्रकृतमार्गणायामेव मोहनीयकर्माधिकृत्य संख्येयभागवद्धिहानिलक्षणे द्व', अवस्थाना-ऽवक्तव्यलक्षणे द्वं इति चत्वारि पदान्यध्रुवाणि, प्राग्वद् ध्रवपदाभावश्च ततो भङगका (८०) अपि सर्वेऽशीतिर्भवन्ति । अमी गतवेदमार्गणायां दर्शिताः सर्वे भङ्गा अध्रुवपदनिष्पन्ना एव । कुतः ? ध्रवपदस्याभावादिति ।
छेदोपस्थापनसंयममार्गणायामसंख्येयभाग-संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धि-हानिलक्षणान्यष्टौ पदान्यवस्थितपदं चेति नवापि पदान्यध्रुवाणि, ध्रुवपदाभावश्च, ततः सप्तानां कर्मणां प्रत्येकमेकानेक्वन्धकनिष्पन्नभङ्गा (१९६८२) द्वयशीत्यभ्यधिकषट्शतान्वितैकोनविंशतिसहस्राण्युत्पद्यन्ते, ते च ध्रुवरहिता अध्रुवा एव मन्तव्याः, प्रकृत एकस्यापि ध्रुवपदस्याऽसचादिति ।
मूक्ष्मसम्परायसंयममार्गणायां संख्येयभागस्थितिबन्धवृद्धिहानी तथाऽवस्थितस्थितिवन्ध इत्येतेषां त्रयाणां सत्पदानामध्रुवत्वात् , ध्रुवपदस्याभावाच्च भङ्गविचयेऽपि ध्रुवभङ्गरहिताः (२६) पड्विंशतिर्भङ्गकाः सम्पद्यन्ते ।
औपमिकसम्यक्त्वमार्गणायां तु सप्तप्रकृतीनां प्रत्येकं स्थितिबन्धवृद्धयादेः कालभेदेन कानेकबन्धकसद्भावप्रयुक्ता भङ्गका दर्शितरीत्याऽष्टचत्वारिंशदभ्यधिकैकोनषष्टिसहस्राणि (५९०४८) जायन्ते, ते च सर्वेऽध्रवा एव मन्तव्याः । कुतः ? असंख्येयभाग-संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणानामष्टानां पदानामवस्थाना-ऽवक्तव्यलक्षणयो योः पदयोरित्येवं दशानामपि सत्पदानामध्रुवत्वात् , तदन्यपदस्यैवाऽभावाच्चेति ॥७७३॥
तदेवं दर्शितस्तत्तद्वृद्धयादिबन्धकानां ध्रुवा-ध्रुवत्वं प्रदर्श्य भङ्गोत्पादकरणप्रदर्शनद्वारेण भङ्गविचयः, तस्मिश्च दर्शिते गतं पञ्चमं भङ्गविचयद्वारम् ।।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पश्चमे वृद्धयधिकारे पश्चमं भङ्गविचयद्वारं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org