________________
५७६ ]
' बंधविहाणे मूलपडिठिइबधो [ आदेशतः करणयोजनया लब्धभङ्गाः तेषु सप्तविंशतिमार्गणाभेदष्वपि व्यशीत्युतरषट्शतान्वितैकोनविंशतिसहस्राणि (१९६८३) भङ्गा बोद्धव्याः । कुतः ? उक्तनवपदानामत्राप्यध्र वत्वाद् , अवस्थितपदस्य ध्रुवत्वाच्चेति । - अपर्याप्तमनुष्यमार्गणायामसंख्येयभाग-संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानि पट पदान्यवस्थानलक्षणमन्यदेकं पदं चेत्येवं सप्त पदान्यधु वाणि, ततः(२१८६)षडशीतियुतशताभ्यधिकसहस्रद्वयं भगा लभ्यन्ते, ते च सर्वेऽध्र वपदनिष्पन्ना बोद्धव्याः। कुतः १ प्रकृते एकस्यापिध्र वपदस्याऽसवेनैकरूपस्य वियोज्यत्वात् । एकरूपे वियोजिते तु शेषा अध्र वपदनिष्पन्ना भड्गा एव भवन्ति, "एगूणा हुन्ति धुवरहिआ" इति वचनात् । इत्थमेव वैक्रियमिश्रा-ऽऽहारक-तन्मिश्रकाययोग-परिहारविशुद्धिकसंयम-सासादन-मिश्रदृष्टिरूपास्वन्यासु षण्मार्गणास्वपि विज्ञेयम् । कुतः ? एतासु प्रत्येकमुक्तसप्तपदानामध्रु वत्वाद् , ध्रुवपदस्याभावाच्चेति । । सप्तकेन्द्रियमार्गणाभेदाः, सप्त साधारणवनस्पतिका पमार्गणाभेदाः, शेषद्वादशसूक्ष्मपृथिवीकायादिभेदाः, वनस्पतिकायौषभेदः, पथिव्यादिवायुकायान्ताश्चत्वार ओघभेदाः, तेषामेव चत्वारो बादरोघजीवभेदाः, चत्वारोऽपर्याप्तवादरपृथिव्यादिभेदाः, प्रत्येकवनस्पतिकायौघा-ऽपर्याप्तप्रत्येकवनस्पतिकायभेदो चेत्येतास्वेकचत्वारिंशन्मार्गणासु पुनः सप्तप्रकृतीनामसंख्येयभागवद्धिहानिलक्षणे द्वे, अवस्थानलक्षणमेकमिति त्रीणि पदान्येव सन्ति, तानि च त्रीण्यपि ध्रु वाणि, ततो ध्रुवपदनिष्पन्न (१) एको भङ्ग एव प्रत्येकं प्राप्यत इति । ____ विकलेन्द्रियसत्केषु नवमार्गणास्थानेषु प्रत्येकमसंख्येय भाग-संख्येयभागतिहानिलक्षणानि चत्वारि पदान्यध्र वाणि, एकमवस्थितपदं च ध्र वम् , तत उक्तरीत्या सप्तप्रकृतीनां प्रत्येकं स्थितिबन्धवृद्धयादेरेकानेकबन्धकनिष्पन्ना (८१) एकाशीतिर्भगा उत्पद्यन्ते।
बादरपर्याप्तपृथिवीकाया- 'काय-तेजस्काय-वायुकायभेदाः पर्याप्तप्रत्येकवनस्पतिकाय भेदश्चेत्येतासु पञ्चमार्गणासु प्रत्येकं पुनः सध्र वा (९) नवैव भङ्गा उक्तरीत्या लभ्यन्ते । कुतः ? असंख्यभागवृद्धिहानिलक्षणयोर्द्वयोः पदयोरध्र वत्वात् , अवस्थानलक्षणस्यैकपदस्य ध्र वत्वाच्च ।
काययोगसामान्यमार्गणाभेदे संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणानि षट् पदानि, अवक्तव्यपदं चेत्येतानि सप्तपदान्यध्र वाणि, असंख्येयभागवृद्धिहानी लक्षणे द्वे पदे अवस्थितपदं चेति त्रीणि ध्र वाणि, ततो भङ्गका अप्युक्तनीत्या सप्ताशीत्यभ्यधिकशतान्वितसहस्रद्वयं (२१८७) प्राप्यन्ते, तत्रैको ध्रुवः, शेषा अध्र वा इति प्राग्वदवसातव्याः । यथा काययोगसामान्यमार्गणास्थाने तथौदारिककाययोगा-ऽचक्षुदर्शन-भव्या-ऽऽहारिमार्गणास्थानेष्वप्युक्तसप्तपदानां भजनीयत्वादुक्तपदत्रयस्याभाज्यत्वाच्च (२१८७) सप्ताशीत्यभ्यधिकशतोत्तरसहस्रद्वयं भङ्गका ज्ञेयाः ।
स्त्रीवेद-पुरुषवेद-सामायिकसंयमलक्षणासु तिसृषु मार्गणासु तु प्रत्येकमसंख्येयभाग-संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणवृद्धिहानिलक्षणान्यष्टौ पदानि भाज्यानि, अवस्थितपदं च ध्रुवमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org