________________
भोघादेशतः करणयोजनया लब्धभङ्गाः ] वृद्धयधिकारे भङ्गविचयद्वारम्
[ ५७५
3
9
मेकं पदं ध्रुवम् अवक्तव्यलक्षणमेकं पदं त्वभ्रुवम् इत्थं घोघप्ररूपणायां त्रीणि पदानि ध्रुवाणि, सप्त पदानि स्ववाणि ततश्वोक्तकरणानुसारेण ध्रुवभङ्गरहिताः षडशीत्यभ्यधिकशतोत्तरसहस्रद्वय भङ्गा जाताः तत्र ध्रुवपदत्रयसत्कयेकभगे प्रक्षिप्ते जाताः सर्वेऽपि (२१८७) सप्ताशीत्यभ्यधिकशतोत्तरसहस्रग्र्यभङ्गा आयुर्वेर्जज्ञानावरणादेः प्रत्येकमेकानेक वृद्ध्यादिबन्धकनिष्पन्ना इति ।
9
ओघत आदेशतश्च आयुर्विषये तु सर्वथैव भूयस्काराधिकारोक्तभङ्गविचयप्ररूपणावद्भङ्गा द्रष्टव्याः । तद्यथा - ओघत एक एव भङ्गः । कुतः ? असंख्य भागहान्यवक्तव्य स्थितिबन्धलक्षणस्य पदद्वयस्यापि ध्रुवत्वात् तदन्यपदस्यैवाभावाच्च । आदेशतोऽपि यासु मार्गणास्वसंख्य लोकप्रदेशराशितुल्यास्तदधिका वा जीवाः सन्ति तासु तिर्यग्गत्योघादिद्विषष्टिमार्गणास्त्रोत्रदेक एव भङ्गः । यासु पुनरुक्काऽपेक्षया स्तोकजीवास्तासु नरकगत्योघादिष्वेकोत्तरशतमार्गणासु तु पदद्रयस्याप्यध्धुत्रत्वाद् ध्रुत्रपदस्याभावाच्चोक्तकरणेना-(३४३ - ९ - १ - ८ ) ऽष्टौ भङ्गाः प्राग्वज्ज्ञेयाः ।
1
आदेशतः सप्तप्रकृतीनां तु प्रत्येकं नरकगत्योघमार्गणाभेदे उक्तकरणानुसारेण (७२९) एकोनत्रिंशदभ्यधिकसप्तशतानि भङ्गा निष्पद्यन्ते तत्रैको ध्रुवपदनिष्पन्नः शेपास्त्यध्रुवपदजाः । कुतः ? असंख्येयभाग-संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानां षट्पदानामध्रुवत्वात्, अवस्थानलक्षणस्यैकपदस्य ध्रुवत्वाच्च । इत्थमेव सप्तसु शेषनरकभेदेषु, अपर्याप्तपञ्चेन्द्रिया-पर्याप्तत्रसकायमाणयोः, वैक्रियकाययोग-विभङ्गज्ञान-देशसंयम-तेजोलेश्या- पद्मलेश्या - क्षायोपशमिकसम्यक्त्वमार्गणाभेदेष्वित्येतासु नरकौघभेदसहितासु पञ्चाशन्मार्गणासु विज्ञेयम् । कुतः ? प्रत्येकमुक्त षड्विधपदानाम चत्वादुक्तैकपदस्य ध्रुवत्वाच्चेति ।
तिर्यग्गत्योघमार्गणायां पुनः संख्ये भाग- संख्येयगुणवृद्धिहानिलक्षणानां चतुर्णां पदानामध्रुवत्वाद्, असंख्य भागवृद्धि हानिलक्षणयोद्रयोः पदयोरवस्थानपदस्य च ध्रुवत्वा - (८१) देकाशीतिर्भङ्गाः प्राप्यन्ते, एतेष्वप्येको ध्रुवः, शेषास्त्वध्रु वाः । यथा तिर्यग्गत्योघमार्गणायां तथैवौदारिकमिश्रकाययोग - कार्मणकाययोग-मत्यज्ञान - श्रुताज्ञाना--ऽसंयम - कृष्णलेश्या-नीललेश्या - कापोतलेश्याऽभव्य-मिथ्यात्वा-ऽसंज्ञ्य-ऽनाहारक भेदात्मकासु द्वादशमार्गणास्वपि बाधुवपदानां तथात्वात् सप्तप्रकृतिस्थितिबन्धस्य वृद्ध्यादेरे कानेकयन्धकनिष्पन्ना एकाशीतिर्भङ्गा बोद्धव्याः ।
मनुष्यगत्योघमार्गणायां त्वसंख्येयभाग - संख्येयगुणा- संख्येयगुणवद्धिहानिलक्षणानामष्टानां पदानामवक्तव्यपदस्य चेत्येवं नवानां पदानामध्ध वत्वम्, अवस्थानलक्षणस्यैकपदस्य ध्रुवत्वं च, तत उक्तकरणानुसारेण (१९६८३) व्यशीत्यभ्यधिकषट्शतान्वितैकोनविंशतिसहस्राणि भङ्गकाः समुस्पद्यन्ते, अत्राप्येको ध्र ुवः, शेषा अभ्र वा इति । इत्थमेवाऽपर्याप्तभेदवर्जयोद्वयोः पञ्चेन्द्रियजातिभेदयोः, द्वयोस्त्रका भेदयोः, पञ्चसु मनोयोगभेदेषु पञ्चसु वचनयोगभेदेषु चतुर्षु मत्यादिज्ञानभेदेषु, संयमौ चक्षुर्दर्शनाऽवधिदर्शन-शुक्ललेश्या - सम्यक्त्वध-- क्षायिकसम्यक्त्व-संज्ञिमार्गणा मेदेष्वित्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org