________________
५७४ ]
बंधविहाणे मूलपयडिठिइबंधो [ध्रुवाऽध्रु षपदैर्भङ्गोत्पादने करण० तेऽनन्तरपदप्राप्ता भङ्गाः प्रत्येकाध्रुवपदवृद्धौ त्रिगुणाः, भवन्तीति परेणान्वयः । अर्थाद्-यत्र द्वे पदे अध्रुवे तत्रैकस्याध्रुवपदस्य वर्धनादनन्तरप्राप्तास्त्रयो भङ्गास्त्रिगुणाः सन्तो (३४३=९) नव भङ्गा भवन्ति, तेऽपि प्राग्वदेकेन ध्रुवमङ्गन सहिता एव बोद्धव्याः । यत्र त्रीणि पदान्यध्रुवाणि तत्र तेऽनन्तरप्राप्ता नव भङ्गास्त्रिगुणाः सन्तः (९४३=२७) सप्तविंशतिर्भवन्ति, अमी अपि ध्रवभङ्गसहिता एव ज्ञातव्याः, एवमुत्तरत्रापि । पुनरपि पदवद्धौ यत्र चत्वार्यध्रुवपदानि तत्र तेऽनन्तरप्राप्ताः सप्तविंशतिर्भङ्गास्त्रिगुणाः सन्तः(२७४३=८१) एकाशीतिर्भवन्ति । पुनरपि पदवद्धौ यत्र पश्चाऽध्रवपदानि तत्र तेऽनन्तरप्राप्ता एकाशीतिर्भङ्गास्त्रिगुणाः सन्त-(८१४३=२४३) स्त्रिचत्वारिंशदभ्यधिकशतद्वयं भवन्ति । पुनरपि पदवृद्धथा यत्र षट् पदानि भाज्यानि तत्र पयवढीए तिगुणा'इति वचनात् तेऽनन्तरप्राप्तास्त्रिचत्वारिंशदुत्तरशतद्वयभङ्गास्त्रिगुणाः सन्तः (२४३४३=७२९) एकोनत्रिंशदभ्यधिकसप्तशतानि भवन्ति । यत्र पुनः सप्त पदानि भजनीयानि तत्र पुनरपि पदस्य वर्धनात् तेऽनन्तरप्राप्ता एकोनत्रिंशदभ्यधिकसप्तशतभङ्गास्त्रिगुणाः सन्तः (७२९४३=२१८७) सप्ताशीन्यभ्यधिकशतान्वितसहस्र व्यं भङ्गा भवन्ति । यत्र त्वष्टौ पदानि भजनीयानि तत्र पुनरपि पदस वृद्धेस्तेऽनन्तरप्राप्ता भङ्गास्त्रिगुणाः सन्तः (२१८७४३=६५६१) एकपष्टयभ्यधिकपञ्चशतान्वितपटमहस्राणि । ततः पदवृद्धौ यत्र भाज्यपदानि नव तत्रोक्तनीत्या (६५६१४३=१९६८३) व्यशीतियुतपटशतान्वितेकोनविंशतिसहस्राणि भङ्गा जायन्ते । पुनरपि भाज्यपदवृद्धया यत्र भाज्यपदानि दश तत्र (१९६८३४३= ५९०४९) एकोनपश्चादशधिकेकोनषष्टिसहस्राणि भङ्गाः प्रभवन्ति । इत्थमेवोत्तरत्रापि प्रतिभजनीयपदवृद्धौ यथोत्तरं त्रैगुण्यं द्रष्टव्यम्, अस्माभिस्तु प्रकृतोपयोग्येवाभिहितम् । ___एते सर्वे भङ्गा ध्रुवपदसद्भावापेक्षयाऽभिहिताः, यद्येकमपि ध्रुवपदं न स्यात्तदा ते कियन्तः स्युरित्येतदपि दर्शयन्नाह-“एगणा हुन्ति धुवरहिआ"त्ति 'ध्रुवरहिताः'-ध्रुवपदनिष्पन्नभङगेन रहिताः, ध्रुवपदाभावे केवलाधु वपदनिष्पन्नभङ्गा इति भावः । ‘एकोनाः'-एकभङ्गेनोना भवन्ति । यत्र यावन्तो ध्रु वाध्र वपदनिष्पन्ना भङ्गास्तत्र तेष्वेको ध्रुवपदनिष्पन्नभङ्गः; तेन ध्रुवपदनिष्पन्नभङ्गेनोनाः शेषाः सर्वेऽध्र वपदनिष्पन्नभङ्गा इति भावः । तद्यथा-एकादेऽध्र वे ध्र वाध्र वपदनिष्पन्नास्त्रयो भङ्गा उक्ताः, अतस्तत्रैको ध्र वपदनिष्पन्नो भगः, द्वौ पुनरध्र वपदनिष्पन्नौ भड़ौ । यत्र तु द्व पदे अ६ वे तत्र ध्र वाघ्र वपदनिष्पन्नभङगा नवोक्ताः, तेष्वेको ध्रुवपदनिष्पन्नो भगः, अष्टौ स्वध्र वपदनिष्पन्ना भङ्गाः । अतो यत्र न स्यादेकमपि ध्र वपदं तत्रैकं भङग विधज्य द्वयादयो भङ्गा एव द्रष्टव्या इति भावः । इत्थमेवोत्तरत्रापि त्रि-चतुः-पश्चाद्यभ्र वपदेषु योज्यमिति ।
अथास्य प्रकृते योजना क्रियते-ओघतः सप्तमूलप्रकृतीनां प्रत्येकमसंख्यभागवृद्धिहानिलक्षणे द्वे पदे ध्रुवे अभिहिते, शेषाणि संख्येयभागवृद्धिहानिसंख्येयगुणवृद्धिहान्यसंख्यगुणवृद्धिहानिलक्षणानि षट पदानि पुनरध्रुवाणि दर्शितानि; द्वे पदे तु प्राग्विहितातिदेशलब्धे, तत्राऽवस्थानलक्षण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org