________________
.
मार्गणासु वृद्धयादितत्तत्पदानां ध्रु वत्वादि० ] वृद्धयधिकारे भङ्गविचयद्वारम्
[ ५७३ सत्तण्हं णायव्वा ओघव्व सगसगवड्ढिहाणीओ।
सेसासु भयणीआ णेया सगढिहाणीओं ॥७७२॥ (प्रे०) “तिरिये सव्वेगिदिये'त्यादि, अक्षरार्थस्तु सुगमः, नवरं “सगसगवड्ढिहाणीओ" इत्यत्र स्वपदेन तिर्यग्गत्योपादितत्तन्मार्गणा बोद्धव्येति । भावार्थः पुनरयम्-आयुर्वर्जसप्तप्रकृतीनामसंख्यभागस्थितिबन्धवद्धिहानिवर्जाः शेषत्रिविधा वद्धयोहानयश्च यद्योधचिन्तायामप्यध्रुवा लभ्यन्ते, तदा मागणास्थानेषु का वार्ता । अर्थात् येषु मार्गणास्थानेष्वसंख्यभागवृद्धिहानिवर्जशेषपविधवद्धिहानिषु यावत्यो वृद्धिहानयः सत्पदद्वारे सत्तया प्ररूपिनास्तेषु मार्गणास्थानेषु तावत्योऽपि ता वृद्धिहानयोऽध्रुवा एव । अत एव "णायव्वा ओघव्व" इत्यनेन तिर्यग्गत्योघादिमार्गणासु, तथा "भयणीआ णया" इत्यनेन तिर्यग्गत्योपादिमार्गणावर्जशेषमार्गणास्वपि तासां षडविधवद्धिहानीनां भजनीयत्वमेवोक्तम् । असंख्यभागद्धि हानिपदे तु यासु मार्गणास्त्रोघवदसंख्यलोकाकाशप्रदेशतुल्या अनन्ता वा जीवास्तास्वोघवद् ध्रवे । तादृश्यो मार्गणास्तु “तिरिये सव्वेगिदिये" त्यादिना नामत उपात्तास्तिर्यग्गत्योघाद्याश्चतुःषष्टिः, न पुनः शेषा नरकगत्योघादिषडुत्तरशतमार्गणाः । अत एव तिर्यग्गत्योपादिमार्गणासु "ओघवे"त्यनेनाऽसंख्यभागवद्धिहान्योध्रुवत्वमतिदिष्टम् , शेषमाणासु तु "भयणीया या सगवढिहाणोओ"इत्यनेन संख्येयभागादिवृद्धिहानीनामिवासंख्यभागवृद्धिहान्योरप्यध्रुवत्वमभिहितमिति ॥७६९-७७२।।
सप्तप्रकृतीनां स्थितिबन्धसत्कयोरवस्थाना-ऽवक्तव्यात्मकयोः द्वयोः सत्पदयोधवत्वादिकमायुषः स्थितिबन्धसत्कयोद्वयोः सत्पदयोधवत्वादिकं च प्रागत्रैवाधिकारे सत्पदद्वारे-'भूगारव्वाउस्स उ संतपयाईसुदारेसु।भूओगारव्य भवेऽवत्तव्यत्तं तहा अवट्ठाणं। बंधस्स उ सत्तण्हं संतपयाईसु दारेसु॥७२३।। इत्यनेन भूयस्काराधिकारोक्तप्ररूपणावदतिदेशद्वारेण कथितम् , ततश्च प्राग्भूयस्काराधिकारोक्तभङ्गविचयोत्पादकान्यतरकरणेनैव प्राग्वत्स्वयमेव भङ्गा उत्पादयितु युज्यन्ते तथाऽपि स्वल्पतरायासेनेव भङ्गोत्पादनायान्यत् किञ्चित् करणमाह
अधुवपयस्स धुवजुआ तिविगप्पा एगऽणेगभेयाओ। पयवड्ढीए तिगुणा एगृणा हुन्ति धुवरहिया ॥७७३॥
(प्र०) "अधुवपयस्स" इत्यादि, संख्येयगुणवृद्ध्यादिरूपस्यैकस्याऽध्रुवपदस्य धुवजुआ' त्ति अन्येषामवस्थानादिध्रुवपदानां य एको 'ध्रुवभङ्गः' ध्रुवपदनिष्पन्नभङ्गस्तेन युताः"तिविगप्पा" त्ति 'त्रिविकल्पाः' -त्रिभङ्गाः,भवन्तीति परेणान्वयः । कुतस्त्रयो भङ्गा इत्याह-“एगणेगभेयाओ" ति तस्यैकस्य संख्येयगुणवृद्ध्यादेरध्रुवत्वेन कदाचिदेकबन्धकस्य कदाचिदनेकबन्धकानां सद्भावात् ।
एकस्मादधिकेष्वध्रुवपदेषु पुनः कियन्तो भङ्गाः स्युरित्याह-“पयवड्ढोए तिगुणा" ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.