Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 727
________________ ६५४ ] बंधविहाणे मूलपयडिटिइबंधो [ विभक्तस्थितिस्थानाथल्पबहु० २० तो संखगुणा अंतोकोडाकोडी २१ तओ बिठाणम्मि | सायरस हुन्ति उवरिं सागारे संखियगुणाणि ॥ ८६४ ॥ तत्तो विसेसअहियो सायस्स गुरू हवेज्ज ठिइबंधो । तत्तो जाणेयव्वा अग्भहिया जट्टिई तस्स ||८६५॥ २४ तो डायठिई अहिया २५ताउ असायस्स उवरि चउठाणे | अहियाणि २६ तओ परमो अहियो तो जट्टिई अहिया || ८६६ ॥ (प्रे० ) " चउडाणे यवमज्झा" इत्यादि, अनन्तरं सातवेदनीयाऽसातवेदनीययोश्चतुःस्थानादित्रिविधत्रिविधरसबन्धकानां स्वस्वप्रायोग्यजघन्य स्थितिबन्धस्थानादारभ्य प्रभूतसागरोपमप्रमाणस्थितिपर्यन्तमुत्तरोत्तरस्थितिबन्धस्थानेषु तद्बन्धकजीवानां विशेषवृद्धयोऽभिहिताः, ततश्वरमविशेषवृद्धिस्थानात्पुनस्त सद्रसबन्धकानां प्रायोग्योत्कृष्टस्थितिबन्धस्थानं यावत्तु यथोत्तरं तत्तत्स्थितेर्वन्धकजीवानां विशेषहानयोऽभिहिताः, इत्थं सातवेदनीयाऽसातवेदनीययोश्चतुःस्थानिकाद्येकैकविधरसबन्धं कुर्वतां जीवानां या जघन्यस्थितिर्वन्धप्रायोग्य ततः प्रभूतसागरोपमशतसमयप्रमाणाः स्थितीरुल्लङ्घ्य बन्धकजीवानां विशेषवृद्धिसत्कं यच्चरमं स्थितिबन्धस्थानं यत्र पूर्वोत्तरस्थितिबन्धस्थानवर्तिजीवापेक्षयाऽधिकतमा जीवाः प्राप्यन्ते, तस्मान्मध्यस्थानादुभयपार्श्वयोः समर्याद्विसमयादिना हीनाधिकस्थितिस्थानेषु पुनर्विशेषहीना विशेषहीना जीवाः प्राप्यन्ते, एतेषु च सर्वेषु स्थाप्यमानेषु यव:धान्यविशेषस्तस्याकृतिरुद्भवति, यतो यवस्य मध्यं यथा पृथुलमुभय पार्श्वे च हीने हीनतरे तथा प्रकृतेऽपि मध्यस्थाने बन्धकानां बाहुल्यात् मध्यं स्थाप्यमानं पृथुलम्मुभयपार्श्वयोर्यथोत्तरस्थितिस्थानेषु बन्धकानां हीयमानत्वात् पार्श्वे स्थाप्यमाने हीने हीनतरे; स्थापना- :: इत्येवं चतुःस्थानिकादित्रिविधरसबन्धकानां विशेषवृद्धिहानीनां ववसदृशीं स्थापनामपेक्ष्य ये सातवेदनीयस्य चतु:स्थानिकादित्रिविध रसबन्धकानां यवा इव त्रिविधा यवाः, एवमसादनीयबन्धकानामपि ये त्रयो यवाश्च तेषां मध्ये “सायस्स”त्ति सातवेदनीयस्य "चउडाणे जवमज्जा हेट्ठा "त्ति 'चतुः स्थानिकयवमध्यादधः' यश्वतुः स्थानगतरसबन्धकविषयकयवस्तत्र यत्सर्वाधिकजीवानां बन्धप्रायोग्यं 'मध्यं' - मध्यमस्थितिबन्धस्थानं तस्मात् समयादिना हीनहीनतरादि स्थितिबन्धस्थानरूपेऽधस्तने भागे इत्यर्थः, तत्र किमित्याह"प्पाणि ठिहबंघठाणाणि” त्ति स्थितिबन्धस्थानान्यल्पानि - स्तोकानि । “हुन्ति एतो संखगुणाणि" त्ति एतेभ्योऽनन्तरोक्तस्थितिबन्धस्थानेभ्यः संख्येयगुणानि भवन्ति, स्थितिबन्धस्थानानीत्यनुवर्तते । कुत्र इत्याह - " उवरि" ति "चउठाणे यवमज्झा" इत्यस्यानुवृत्त्याऽधिकृतस्य सातवेदनीयस्य चतुःस्थानिकर सबन्ध विषय कद र्शितयवमध्यस्य 'उपरि' - समयादिनाऽधिकाधिक ० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762