Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 736
________________ अन्यमते प्रस्तुताल्पबहु०] चरनेऽधिकारे जीवममुदाहारः [६६३ संख्येयगुणानि । ततोऽस्यैव यवमध्यस्योपरितनानि स्तियन्वस्थानानि संख्येयगुणानि । 'ततः सातवेदनीयविस्थानिकरसस्य यवमध्यादध एकान्तसाकारोपयोगप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयगुणानि । 'ततस्तस्मादेव यवमध्यादधः साकाराऽनाकारोभयोपयोगप्रायोग्यानि स्थितिबन्ध स्थानानि संख्येयगुणानि । * ततोऽनन्तरोत्तस्यैव सातवेदनीविस्थानिकरसयवमध्यस्थोपरि साकाराऽनाकारोभयोपयोगप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयगुणानि । ततोऽसाविंदनीयविस्थानिकरमस्य यवमध्यादधः केवलसाकारोपयोगमायोग्यानि स्थितिबन्धस्थानानि संख्येयगुणानि । ' ततस्तस्मादेव यवमध्यादधः साकाराऽनाकारोभयोपयोगप्रायोग्यानि थितिबन्धस्थानानि संख्येयगुणानि । ततस्तस्यैवाऽमातवेदनीविस्थानिकरसस्य यवमध्यस्योपरि साकाराऽनाकारोभयोपयोगप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयगुणानि । ततस्तत्रैव विस्थानिकरसयवमध्यस्योपरि केवल नाकारोपयोगप्रायोग्यानि स्थितिवन्धस्थानानि संख्येयगुणानि । परततोऽसातवेदनीयस्यैव त्रिस्थानिकरसस्य यवमध्यादधः स्थितिवन्धस्थानानि संख्येयगुणानि । 'ततस्तस्येव यवमध्यस्योपरि स्थितिवन्धस्थानानि संख्येयगुणानि । १ ततोऽसातवेदनीस्य चतुःस्थानिकरसयवमध्यादधः स्थितिबन्धस्थानानि संख्येयगुणानि । ततः पुनः सातवेदनीयस्याऽनुभवयोग्यः स्थितिबन्धो जघन्यः संख्यातगुणः । ततस्तस्यैव सातवेदनीयस्य कर्मरूपतावस्थानलक्षणा यत्स्थितिर्जघन्या विशेषाधिका । 'ततोऽसातवेदनीयस्याऽनुभवयोग्यो जघन्यः स्थितिबन्धो विशेपाधिकः । ततस्तस्यैवाऽसातवेदनीयस्योक्तस्वरूपा यत्स्थिांतर्जघन्याऽभ्यधिका । तितो यस्मात् स्थितिबन्धादुत्कृष्टां डायां जीवो गच्छति स प्रागुक्तस्वरूपः स्थितिबन्धः संख्येयगुणः । २°तत उत्कृष्टपदगताऽन्तःकोटिकोटीसागरोपमस्थितिः संख्येयगुणः । ततः सातवेदनीयस्य द्विस्थानिकरसयवमध्यस्योपर्येकान्त माकारोपयोगप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयगुणानि । २१ ततः सातवेदनीयस्याऽवाधापेतो योऽनुभवयोग्यः स्थितिबन्धः स उत्कृष्टो विशेषाधिकः। ततस्तस्यैव सातवेदनीयस्य कर्मरूपतावस्थानलक्षणा यत्स्थितिरुत्कृष्टा विशेषाधिका । २४तत उत्कृष्टा डायस्थितिर्विशेषाधिका । २"ततोऽसातवेदनीयस्य चतुःस्थानिकरसयवमध्यस्योपरि स्थितिबन्धस्थानानि विशेषाधिकानि। ततोऽसातवेदनीयस्याऽनुभवयोग्यस्थितिबन्ध उत्कृष्टपदे विशेषाधिकः । २"ततस्तस्यैवोक्तलक्षणोत्कृष्टा यस्थितिर्विशेषाधिका इति ।।८६७......८७४।। तदेवमभिहितं सातवेदनीया- सातवेदनीयरि-त्रि-चतुःस्थानिकरसबन्धादिनानावस्तुसम्बन्धादने कधा विभक्तानां विवक्षितानां संज्ञिपञ्चेन्द्रियाभव्यजीवबन्धप्रायोग्यानां स्थितिबन्धस्थानानामन्येषां सातवेदनीयाऽसातवेदनीयजघन्यस्थितिबन्धादिलक्षणानां पदानां चाल्पबहुत्वम् । साम्प्रतं तत्रैव स्थितिस्थानेषु द्वि-त्रि-चतुःस्थानिकरसभेदेन पोढा विभक्तानां बन्धकानामल्पबहुत्वं प्रचिकटयिपुराह सायस्स हन्ति थोवा जीवा चठाणबंधगा तत्तो। तिदुठाणबंधगा खलु कमसो होअन्ति संखगुणा ॥८७५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762