Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
६६४ ]
बंधविहाणे मूलपयडिठिइबंधो [बन्धकजीवाल्पबहुत्वम् ताउ असायस्स कमा हुन्ति दुचउठाणबंधगा तत्तो। तिट्ठाणबंधगा खलु होअन्ति विसेसओऽभहिया॥८७६॥ (प्रे०)"सायस्स हुन्ति थोवा” इत्यादि, सातवेदनीयस्य चतुःस्थानिकरसबन्धका जीवाः "हुन्ति थोवा” ति अनन्तरवक्ष्यमाणपदगतजीवेभ्यः 'स्तोकाः' -अल्पाः सन्ति । “तत्तो” त्ति तेभ्यः सातवेदनीयचतुःस्थानिकरसवन्धकेभ्यः सातवेदनीयस्यैव "तिदुठाणबंधगा खलु" ति त्रिस्थानकरसबन्धका द्विस्थानकरसवन्धकाश्चैते एकैकविधबन्धकजीवा इत्यर्थः । खलुशब्दो वाक्यालङ्कारे । कियन्त इत्याह-"कमसो होअन्ति संखगुण" त्ति 'क्रमशः'-यथासंख्यं संख्येयगुणा भवन्ति । “ताउ" त्ति तेभ्योऽनन्तरपदोक्तसातवेदनीयविस्थानिकरसबन्धकेभ्यः "असायस्स कमा हुन्ति” इत्यादि, अनन्तरोक्तस्य 'संखगुणा' इत्यस्य घण्टालालान्यायेनात्रापि योजनाद् असातवेदनीयस्य द्विस्थानकरसबन्धकास्तथाऽसातवेदनीयस्यैव चतुःस्थानकरसबन्धकाः क्रमात् संख्येयगुणा भवन्तीत्यर्थः । "तत्तो" ति तेभ्योऽनन्तरपदोक्तेभ्योऽसातवेदनीयचतुःस्थानकरसबन्धकेभ्यः “तिहाणबंधगा खलु" ति असातवेदनीयस्यैव त्रिस्थानकरसवन्धकाः पुनः "होअन्ति विसेसओऽभहिया" ति 'विशेषतोऽभ्यधिकाः' -विशेषाधिका भवन्तीत्यर्थः । । ननु असातवेदनीयस्य द्विस्थानिकरसबन्धकानां प्रायोग्यस्थितिबन्धस्थानेभ्यः सातवेदनीयस्य द्विस्थानिकरसबन्धकप्रायोग्यस्थितिबन्धस्थानान्यनन्तरोक्ताल्पबहुत्वेऽर्थतोऽनेककृत्वः संख्येयगुणानि दर्शितानि; अत्र तु वैपरीत्येन सातवेदनीयविस्थानिकरसबन्धकापेक्षयाऽसातवेदनीयस्य द्विस्थानिकरसबन्धकाः संख्येयगुणा उक्तास्तत्कथं न विरोधः ? इति चेद, न, एकजीवमाश्रित्य सातवेदनीयस्योस्कृष्टबन्धकालापेक्षयाऽसातवेदनीयस्योत्कृष्टवन्धकालस्य संख्येयगुणत्वेनाऽसातवेदनीयविस्थानिकरसबन्धकसञ्चयस्यापि उत्कृष्टपदगतसातवेदनीयविस्थानिकरसबन्धकापेक्षया संख्येयगुणत्वसम्भवेनाऽविरोधादिति ।।८७५-८७६।।
तदेवमभिहितं चरमे जीवसमुदाहारे जीवाल्पबहुत्वम् , तथा च समाप्तं जीवसमुदाहाराख्यं चरमं द्वारम् , तस्मिंच समाप्ते समाप्तश्चरमोऽध्यवसाय समुदाहारः, तत्समाप्तौ चावसितो मूलप्रकृतिस्थितिबन्धः। क्रियते स्म मयाऽध्यवसन-समुदाहारं विवण्वता यत्पुण्यम् ।
सुविशुद्धाध्यवसाया भवन्तु भव्या विगतभवभयास्तेन ॥ (आर्यागीतिः) ॥ इति श्रीवन्धविधाने मूलप्रकृतिस्थितिबन्धे षष्ठेऽध्यवसायसमुदाहारे तृतीयं जीवसमुदाहाराख्यं द्वारं समाप्तम्
॥ इति श्री बन्धविधाने मूलप्रकृतिस्थितिबन्धे षष्ठोऽध्यवसायसमुदाहारः ॥
POS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762