Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 742
________________ मुद्रापणादि०] टीकाकृत्प्रशस्तिः मुद्रापिता मरुधरस्थितपिण्डवाडा संज्ञे सुरम्यनगरे वसताऽऽहतेन । ज्ञानार्थसश्चितधनात् खलु सङ्घकेन श्रीतीर्थकृत्-सुगुरुपूदितभक्तिकेन ॥४३॥ (वसन्त०) तथाहियत्पादभक्त्या भुवि भव्यलोकाः, सत्कीर्तिकान्त्यादियुता भवन्ति । पुष्णातु शं वो जिनवर्धमानः, श्रीपिण्डवाडापुरमण्डनः सः ॥४४॥ (इन्द्रवज्रा०) विक्रमीयपञ्चदशशतादौ धर्मकर्मव्यसनिना प्रस्फुरदहकान्तिना धनाढय न संघपतिना कुरपालेन तथा सुगुणगणनिभृतेन सुन साप्तवित्तेन सज्जनश्रेणिधुर्येण श्रीमता लीघाभिधानेन व्यव १“प्राग्वाटवंशे व्यवहारिसांगासूनुः, प्रसूनोज्ज्वलकान्तकीर्तिः । श्री पुण्यपूर्णोऽजनि पूर्णसहस्तस्य प्रिया जाल्हणदेवीनाम्नी ।। १॥ (?) तदूरचंद्रास्ततरुद्गम क्रियाकलापः किल कुंरपालः। जाया च मायादिकदोषमुक्ता तस्याभवत् कामलदेवीनाम्नी ॥२॥ सूदयौ सदयौ वामामृतेः सुहिती लोकहितौ सतां मतौ। सुनयौ विनयौचितीचणौ विजयेते तनयो तयोरिमौ ॥३॥ तत्राद्यः सुजनश्रे गीरत्नं रत्नाभिधो धनी । वदान्य जनमुन्यो राजमान्यो धियां निधिः ।। ४ ।। द्वितीयस्तु द्वितीयेंदुकान्तिकान्तगुणावहः । धरणः शरणं श्रीणां प्रवीणः पुण्यकर्मणि ।। ५ ।। रत्नादेवी-धारलदेव्यौ जन्यौ (पत्न्यौ) नयोरनुक्रमतः । समभूतामतिनिर्मलशीलालङ्ककारधारिण्यौ ।।६।। रत्नस्य पुत्रा एते लाषा-सलषा-मनाह्व-सोनाख्याः । शांतस्वभावकलिता गुणतरुमलयाः कलानिलयाः।।७।। श्रीप्राग्वाटाभिधज्ञातिशृङ्गशङ्गारशेखरः । पूराऽभून्मणानामा व्यवहारी वरस्थितिः ।। ८ ।। तस्य जोलाभिधः सूनस्तत्पुत्रो भावठोऽशठः । तस्यासीज्जाउणादेवी भार्या चार्या स्वभावतः ।।९।। तदीयपुत्रः सुगुणैः पवित्रः, सौजन्यचित्तः सुनयाप्तवित्तः ।। ___ लोंबाभिधानः सुकृतिप्रधानः, सत्कार्यधूर्यो व्यवहारवर्यः ॥ १० ॥ नयणादेवी नामलदेवीति ख्यातसंज्ञिके तस्य । दयिते दययोपेते शीलाचुदामगुणकलिते ।। ११ ॥ नयणादेवीतनुजो मनुजोचितचारुलक्षणोपेतः । अमरो भ्रमरो गुरुजन-जननी-जनकादिपदकमले ॥१२॥ भीमकान्तगुणख्याते प्रजापालनलालसे । हाजाभिधे धराधीशे प्राज्यराज्यं च कुर्वति ।।१३।। आभ्यामुभाभ्यां धनिकुरपाल-लींबाभिधाभ्यां सदुपासकाभ्यां । ग्रामेऽग्रिमे पिण्डरवाटकाख्ये प्रासादभूमिरुदधारि सारः ॥ १४ ॥ विक्रमाद्वा गत ब्धिभूमिते (१४६५) वत्सरे तथा । फाल्गुनाख्ये शुभे मासे शुक्लायां प्रतिपत्तिथौ ॥१५॥ कल्याणवृद्धयभ्युदयैकदायकः श्रीवर्धमानश्चरमो जिनेश्वरः ।। श्रीमत्तपःसंयमधारिसूरिभिः प्रतिष्ठितः स्पष्टमहामहादिह ॥ १६ ॥ आरवीं समयादनया श्रीपर्द्धमानजिननायकमूर्त्या । राजमानमभिनंदतु विश्वानंददायकमिदं वरचैत्यम्।१७.श्रीः।।" इति पिन्डवाडाश्रीमहाविरजिनप्रासादभित्तिगतप्राच्यो लेखः ।। (अर्बुदाचलप्रदक्षिणाजैनलेखसंदोहे लेखांकः ३७४) इतश्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762