________________
६५४ ]
बंधविहाणे मूलपयडिटिइबंधो [ विभक्तस्थितिस्थानाथल्पबहु०
२० तो संखगुणा अंतोकोडाकोडी २१ तओ बिठाणम्मि | सायरस हुन्ति उवरिं सागारे संखियगुणाणि ॥ ८६४ ॥ तत्तो विसेसअहियो सायस्स गुरू हवेज्ज ठिइबंधो । तत्तो जाणेयव्वा अग्भहिया जट्टिई तस्स ||८६५॥ २४ तो डायठिई अहिया २५ताउ असायस्स उवरि चउठाणे | अहियाणि २६ तओ परमो अहियो तो जट्टिई अहिया || ८६६ ॥
(प्रे० ) " चउडाणे यवमज्झा" इत्यादि, अनन्तरं सातवेदनीयाऽसातवेदनीययोश्चतुःस्थानादित्रिविधत्रिविधरसबन्धकानां स्वस्वप्रायोग्यजघन्य स्थितिबन्धस्थानादारभ्य प्रभूतसागरोपमप्रमाणस्थितिपर्यन्तमुत्तरोत्तरस्थितिबन्धस्थानेषु तद्बन्धकजीवानां विशेषवृद्धयोऽभिहिताः, ततश्वरमविशेषवृद्धिस्थानात्पुनस्त सद्रसबन्धकानां प्रायोग्योत्कृष्टस्थितिबन्धस्थानं यावत्तु यथोत्तरं तत्तत्स्थितेर्वन्धकजीवानां विशेषहानयोऽभिहिताः, इत्थं सातवेदनीयाऽसातवेदनीययोश्चतुःस्थानिकाद्येकैकविधरसबन्धं कुर्वतां जीवानां या जघन्यस्थितिर्वन्धप्रायोग्य ततः प्रभूतसागरोपमशतसमयप्रमाणाः स्थितीरुल्लङ्घ्य बन्धकजीवानां विशेषवृद्धिसत्कं यच्चरमं स्थितिबन्धस्थानं यत्र पूर्वोत्तरस्थितिबन्धस्थानवर्तिजीवापेक्षयाऽधिकतमा जीवाः प्राप्यन्ते, तस्मान्मध्यस्थानादुभयपार्श्वयोः समर्याद्विसमयादिना हीनाधिकस्थितिस्थानेषु पुनर्विशेषहीना विशेषहीना जीवाः प्राप्यन्ते, एतेषु च सर्वेषु स्थाप्यमानेषु यव:धान्यविशेषस्तस्याकृतिरुद्भवति, यतो यवस्य मध्यं यथा पृथुलमुभय पार्श्वे च हीने हीनतरे तथा प्रकृतेऽपि मध्यस्थाने बन्धकानां बाहुल्यात् मध्यं स्थाप्यमानं पृथुलम्मुभयपार्श्वयोर्यथोत्तरस्थितिस्थानेषु बन्धकानां हीयमानत्वात् पार्श्वे स्थाप्यमाने हीने हीनतरे; स्थापना- :: इत्येवं चतुःस्थानिकादित्रिविधरसबन्धकानां विशेषवृद्धिहानीनां ववसदृशीं स्थापनामपेक्ष्य ये सातवेदनीयस्य चतु:स्थानिकादित्रिविध रसबन्धकानां यवा इव त्रिविधा यवाः, एवमसादनीयबन्धकानामपि ये त्रयो यवाश्च तेषां मध्ये “सायस्स”त्ति सातवेदनीयस्य "चउडाणे जवमज्जा हेट्ठा "त्ति 'चतुः स्थानिकयवमध्यादधः' यश्वतुः स्थानगतरसबन्धकविषयकयवस्तत्र यत्सर्वाधिकजीवानां बन्धप्रायोग्यं 'मध्यं' - मध्यमस्थितिबन्धस्थानं तस्मात् समयादिना हीनहीनतरादि स्थितिबन्धस्थानरूपेऽधस्तने भागे इत्यर्थः, तत्र किमित्याह"प्पाणि ठिहबंघठाणाणि” त्ति स्थितिबन्धस्थानान्यल्पानि - स्तोकानि । “हुन्ति एतो संखगुणाणि" त्ति एतेभ्योऽनन्तरोक्तस्थितिबन्धस्थानेभ्यः संख्येयगुणानि भवन्ति, स्थितिबन्धस्थानानीत्यनुवर्तते । कुत्र इत्याह - " उवरि" ति "चउठाणे यवमज्झा" इत्यस्यानुवृत्त्याऽधिकृतस्य सातवेदनीयस्य चतुःस्थानिकर सबन्ध विषय कद र्शितयवमध्यस्य 'उपरि' - समयादिनाऽधिकाधिक
०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org