________________
उपयोगभेदात्पुन : स्थितस्थानविभागः ] चरऽ धिकारे जीवसमुदाहारः
[६५३ स्थितेन्धकत्वं बध्यमानस्थितिस्थानेषु तादृशजीवानां द्विगुणवृद्धिहानि-तदेकान्तराम्पबद्त्वं च । साम्प्रतं तु वक्ष्यमाणाल्पबहुत्वविषयकपदान्युत्पादयितु स्थितिबन्धस्थानेषु बन्धकवृद्धिहानिविषयतया द्विधा द्विधा विभक्तानि सातवेदनीयादेबिस्थानिकादिरसबन्धकप्रायोग्यतया दर्शितस्थितिबन्धस्थानानि साकाराद्युपयोगप्रायोग्यत्वभेदात् पुनरपि विभाजयन्नाह
उवओगेऽणागारे बंधंति विठाणियं च्च अणुभागं ।
सागारे उवजोगे बितिचउठाणगयमणुभागं ॥८५८॥ (प्रे०) "एवओगेडणागारे” इत्यादि, अनाकारे उपयोगे वर्तमानाः सन्त एतेऽनन्तरोक्ता जीवाः 'बिठाणियं च अणुभागं"ति सातवेदनीयस्याऽसातवेदनीयस्य च द्विस्थानिकम् 'अनुभागम्'-रसमेव बध्नन्ति, न पुनस्त्रिस्थानिकं चतुस्थानिक वेत्यर्थः । “सागारे उवओगे" ति साकारे उपयोगे वर्तमानाः पुनरेते “बितिचउठाणगयमणुभार्ग" ति 'द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमषिसम्बध्यते' इति न्यायात् सातवेदनीयाऽसातवेदनीययोद्विस्थानगतं त्रिस्थानगतं चतुःस्थानगतं त्रिविधान्यतममनुभागम् ,बघ्नन्तीत्यनुवर्तते । अनेन ह्यनाकारोपयोगे वर्तमानानां शुभाशुभपरावर्त्तमानप्रकृत्योर्द्विस्थानगतो रस एव बन्धप्रायोग्यः, साकारोपयोगे वर्तमानानां तु जीवानां तयो-ित्रि-चतुःस्थानिकभेदभिन्नास्त्रिविधा अपि रसा बन्धाप्रायोग्या इत्यावेदितमिति ।।८५८॥
___ अथ साकाराद्युपयोग-तत्तद्रसबन्धादिपदार्थान्तरयोगेनानेकधा विभक्तानां स्थितिबन्धस्थानादीनामन्येषां जघन्योत्कृष्टस्थितिबन्धादिपदार्थानां च परस्परमल्पबहुत्वं प्रचिकटयिषुराह
१चउठाणे यवमज्झा हेट्ठाऽप्पाणि ठिइबंधठाणाणि । सायस्स हुन्ति एत्तो संखगुणाणि उवरि हवेज्जा ॥८५९॥ ३तो तिट्ठाणेऽह 'तओ उवरिं 'तत्तो अहो य बिट्ठाणे । सागारे तो मीसे हवन्ति तत्तो उवरिं मीस्से ॥८६०॥ 'ताउ लहू संखगुणो तोऽभहिया जट्ठिई तओऽभहियो । होह असायस्स लहू ११तोऽब्भहिया जट्टिई णेया॥८६१॥ १२तत्तो संखगुणाई हवन्ति बिट्ठाणगेऽह सागारे । १३तो मीसे४ताउ उवरि मीसे १५तो हुन्ति सागारे ॥८६२॥ १६तोऽह तिठाणे १५तो उवरितओ चउठाणगेऽह तो जत्तो। परमं डायं गच्छइ सा उ ठिई होइ संखगुणा ॥८६३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org