________________
विभक्तस्थितिस्थानाद्यल्पबहु० ] चरमेऽधिकारे जीवसमुदाहारः
[६५५ स्थितिबन्धलक्षणे उपरितने भागे इत्यर्थः। "तो तिहाणेऽह'त्ति अत्राऽपि 'यवमज्झा'इति पदमनुवर्तते, एवमुत्तरत्रापि यथायोगं तस्यानुवृत्तिद्रष्टव्या,ततः सातवेदनीयस्य चतुःस्थानिकयवमध्यादुपरितनस्थितिबन्धस्थानेभ्यः त्रिस्थान -तस्यैव सातवेदनीयस्य त्रिस्थानरसबन्धे यवमध्याद् 'अधः'-समयादिना हीन-हीनतरादिस्थितिवन्धस्थानरूपेऽधस्तनभागे, स्थितिबन्धस्थानानि संख्येयगुणानीति पूर्वगाथातोऽनुवर्तते । “तओ उवरिं" ति ततः सातवेदनीयस्य प्रस्तुतत्रिस्थानिकरपयवमध्यस्य उपरि', समयादिनाऽधिकाधिकतरादिस्थितिबन्धस्थानरूपे उपरितने भागे, स्थितिबन्धस्थानानि संख्येयगुणानीत्यत्रापि पूर्ववदनुवृत्या बोद्धव्यम् । एवमुत्तरत्रापि तदनुवृत्तः "तत्तो अहो य बिट्ठाणे सागारे" त्ति प्राग्वत् तेभ्योऽनन्तरोक्तस्थितिबन्धस्थानेभ्यः प्रस्तुतस्य सातवेदनीयस्य विस्थानिकरसबन्धयवमध्याद् 'अधः'-समयादिना हीन-हीनतरादिस्थितिबन्धलक्षणे यवस्याधोभागे 'साकारे'-साकारोपयोगे सति बन्धप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयगुणानीत्यर्थः ।
अयम्भाव:-प्राक् साता-ऽसातवेदनीययोस्त्रिविधोऽपि रसः साकारोपयोगोपयुक्तानां बन्धप्रायोग्यो दर्शितः,तथा च त्रिविधान्यतमं रसं बध्नतां प्रायोग्यानि स्थितिबन्धस्थानान्यपि साकारोपयोगेन बन्धप्रायोग्यानि प्राप्तानि, तत्रापि विस्थानिकरसस्य साकारोपयोगस्येवाऽनाकारोपयोगस्यापि बन्धप्रायोग्यतया न सर्वाणि स्थितिबन्धस्थानान्येकान्तेन साकारोपयोगप्रायोग्यानि, किन्तु कतिपयान्येव,कतिपयानि तु साकाराऽनाकारोभयप्रायोग्यानि,द्विस्थानिकरसंबध्नद्भिजींवैः कदाचित् साकारोपयोगे सति बध्यन्ते कदाचिचनाकारोपयोगे सति बध्यन्त इति भावः । इत्येवं सातवेदनीयस्यासातवेदनीयस्य च प्रत्येकं विस्थानिकरसं बध्नतां जीवानां प्रायोग्यानि स्थितिबन्धस्थानानि द्विधा द्विधा विभक्तानि, एतेषु द्विविधद्विविधस्थानेषु कतिपयानि विस्थानिकयवमध्यादुपरिवर्तीनि, कतिपयानि त्वधःस्थितानि,तथा च सत्युक्तकेवल साकार-साकारानाकारोभयोपयोगभेदाद्विभक्तानि साता-ऽसातवेदनीययोस्थिानिकरसंबध्नतां बन्धप्रायोग्यानि स्थितिस्थानानि प्रत्येकं पुनरपि द्विधा द्विधा विभतानि,इत्थं हि साता-ऽसातवेदनीययोह्निस्थानिकरसं बध्नतां प्रायोग्यानि स्थितिबन्धस्थानान्यष्टविधानि जातानि, तद्यथा-सातवेदनीयविस्थानिकरसयवमध्यादध एकान्तसाकारोपयोगप्रायोग्यानि स्थितिबन्धस्थानानि, तथा विस्थानिकरसयवमध्यादध एव साकारा-ऽनाकारोभयप्रायोग्यानि स्थितिबन्धस्थानानि । इत्थमेव द्विविधानि विस्थानिकरसयवमध्यस्योपरितनवर्तिस्थितिबन्धस्थानेषु लभ्यन्ते । तदेवं सातवेदनीयद्विस्थानिकरसं बध्नतां जीवानां बन्धप्रायोग्यानि स्थितिस्थानानि चतुविधानि जातानि । यथा सातवेदनीयविस्थानिकरसं बध्नतां तथाऽसातवेदनीयस्यापि विस्थानिकरसं बध्नतां जीवानां बन्धप्रायोग्यानि स्थितिबन्धस्थानान्यपि चतुर्विधानि बोद्धव्यानि । एतेष्वष्टविधेषु स्थितिस्थानेषु यानि सातवेदनीयद्विस्थानिकरसयवमध्यस्याधस्तनानि साकारोपयोगे एव बन्धप्रायोग्यानि तानि शेषसप्तविधस्थितिबन्धस्थानेभ्यः स्तोकानि सन्त्यपि सातवेदनीय
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International