________________
६५६ ]
__ बंधविहाणे मूलपयडिठिइबंधो [विभक्तस्थितिस्थानाद्यल्पबहु० त्रिस्थानिकरसयवमध्यस्योपरितनवर्तिस्थितिबन्धस्थानेभ्यः संख्येयगुणानि सन्ति, एतदेव दर्शनार्थमभिहितम् 'तत्तो अहो य विट्ठाणे सागारे' इति ।
___ "तो मोसे हवन्ति" त्ति अत्रापि पूर्ववत् 'सायस्स जबमज्झा' तथा 'अहो य बिट्ठाणे' 'ठाणाणि संखगुणाणि' चेति पदत्रयस्यानुवृत्त्या ततः' -अनन्तरोक्तस्थितिबन्धस्थानेभ्यः सातवेदनीयस्य द्विस्थानिकरसयवमध्यादधः मिश्रे'-मिश्रोपयोगे, साकाराऽनाकारान्यतरोपयोगे प्रवर्तमाने यानि बन्धप्रायोग्यानि स्थितिस्थानानि तानि संख्येयगुणानीत्यर्थः । ततः "उवरि मीस्से" ति तत्रैव द्विस्थानिकरसे यवमध्यस्योपरि स्थितिवन्धस्थानानि संख्येयगुणानि । “ताउ लहू संखगुणो" ति तेभ्यः प्रस्तुतस्य सातवेदनीयस्य'लघुः-जघन्यस्थितिवन्धः संख्येयगुणः,स च व्याख्यानतो विशेषप्रतिपत्तरत्रैव ग्रन्थे द्वितीयाधिकारवृत्तौ प्रोकस्वरूपोऽवाधारहितोऽनुभवयोग्यो शेषः । ननु सातवेदनीयस्यानुभवयोग्यो जघन्यस्थितिबन्धोऽन्तमुहूर्तप्रमाणस्स्यात् , स चाऽनन्तरोक्तस्थितिस्थानापेक्षया संख्येयभागमात्रः, अत्र त्वसौ संख्येयगुण उक्त इति कथं न विरोधः ? इति चेद, न, संज्ञिपञ्चेन्द्रियाभव्यजीवबन्धप्रायोग्यस्थितिबन्धस्थानादीनामिव जघन्यस्थितिबन्धस्याऽपि संज्ञिपञ्चेन्द्रियाभव्य जीवबन्धप्रायोग्यस्याऽधिकृतत्वात्, तस्य चान्तःकोटिकोटिसागरोपमप्रमाणतयाऽनन्तरोक्तस्थितिबन्धस्थानापेक्षया संख्येयगुणत्वाऽविरोधादिति । "तोअब्भहिया' त्ति ततोऽभ्यधिका:-विशेषाधिका अधिकृतस्य सातवेदनीयस्य "जहिई" ति 'लहू' इत्यनुवर्तते, ततो 'लघु-जधन्या 'यस्थितिः'-जघन्यस्थितिबन्धसमये बन्धतः प्राप्तदलिके या स्थितिर्भवति सा, साच कर्मरूपतयाऽवस्थानलक्षणाऽत्रैव ग्रन्थे द्वितीयाधिकारेऽभिहितस्वरूपा ज्ञेयेत्यर्थः ।
१०"तओऽन्भहियो होइ असायस्स" ति 'ततः'-पातवेदनीयजघन्ययस्थितितोऽभ्यधिकः-विशेषाधिको भवत्यसातवेदनीयस्य "लहू"त्ति जघन्यः स्थितिबन्धः, स च व्याख्यानतो विशेषप्रतिपत्तरत्रापि प्राग्दर्शितानुभवयोग्य-कर्मरूपतावस्थानलक्षद्विविधस्थितिबन्धयोर्मध्ये योऽनुभवयोग्यः स्थितिबन्धः सोऽवमातव्य इति । "तोऽभहिया जहिई णेया' त्ति प्रागिव "लहू" इत्यस्यानुवृत्तस्ततोऽभ्यधिकाऽसातवेदनीयस्य जघन्या यत्स्थितिः, कर्मरूपतावस्थानलक्षणजघन्यस्थितिवन्ध इति भावः, कुतः ? जघन्यावाधाया अत्र प्रवेशात् । तत्तो संखगुणाई हवन्ति" ति तस्या अनन्तरोक्ताया असातवेदनीयजघन्ययत्स्थित्याः संख्येयगुणानि भवन्ति, कानीत्याह-"बिट्ठाणगेऽह सागारे" ति पूर्ववत् प्रस्तुतस्यासातवेदनीयस्य द्विस्थानकरसबन्धकविषययवमध्यादध एकान्त पाकारोपोयोगे बन्धप्रायोग्यानि स्थितिस्थानानीत्यर्थः । १३"तो मीसे" त्ति पूर्ववदनुवृत्याऽसातवेदनीयस्य द्विस्थानकरसयवमध्यादधो ‘मिश्रे मिश्रोपयोगेसाकारा-ऽनाकारान्यतरोपयोगे सति बन्धप्रायोग्यानि स्थितिस्थानानि संख्येयगुणानि । इत्थमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org