SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ विभक्तस्थितिस्थानाद्यल्पबहु० ] चरमेऽधिकारे जीवसमुदाहारः [ ६५७ ۹۷ 1 १४ " ताउ उवरि मीसे” त्ति ततोऽसातवेदनीयस्य द्विस्थानिकर सयव मध्यस्योपरि 'मिश्र' साकाराऽनाकारान्यतरोपयोगे बन्धप्रायोग्यानि स्थितिस्थानानि संख्येयगुणानि । तथैव " "तो हुन्ति सागारे " ति तस्यैवाऽसावेदनीयस्य द्विस्थानिकर सयव मध्यादुपर्येकान्तसाकारोपयोगे बन्धप्रायोग्यानि स्थितिबन्धस्थानानि संख्येयगुणानि भवन्तीत्यर्थः । “तोऽह तिठाणे" ति ततः प्रकृतस्याऽसातवेदनीयस्य त्रिस्थानिकरस विषययवमध्यस्याधः, स्थितिबन्धस्थानानि संख्येयगुणानीति प्राग्वत् । एवं " तो उवरि" त्ति ततोऽसावेदनीयस्य त्रिस्थानिकर सविषयकयव मध्यस्योपरि स्थितिबन्धस्थानानि संख्येयगुणानि । “तओ चउठाणगेऽह" चि ततोऽसातवेदनीयस्य चतु:स्थानिकरसविजययमध्यादधः स्थितिबन्वस्थानानि संख्येयगुणानि । “तो जस्तो परमं डायं गच्छइ साउ ठिई होइ संखगुणा " चि ततो यस्याः स्थितेर्मण्डूक'लुतिन्यायेन 'परमाम्' - उत्कृष्टां 'डाव' - फालां 'गच्छति' - प्राप्नोति तद्बन्धकः सा तु स्थिति: संख्येयगुणा भवति । १ १३ किमुक्तं भवति - प्रागस्मिन्नेव मूलप्रकृतिस्थितिबन्धग्रन्थे पदनिक्षेपाधिकारे यस्मात् स्थितिबन्धादेकहेलया उत्कृष्टस्थितिबन्धं कुर्वतो जीवस्योत्कृष्टवृद्धिरभिहिता तस्मात्स्थितिबन्धादनुपदमुत्कृष्ट स्थितिबन्धकरणे जीव उत्कृष्टां डायां प्राप्नोति सा उत्कृष्टवृद्धिस्वामिना उत्कृष्ट स्थितिबन्धात्प्रागव्यवधानेन बद्धा स्थितिरसातवेदनीयस्य चतुःस्थानकयवमध्यस्याधोवर्ति स्थितिबन्धस्थानेभ्यः संख्येयगुणा भवतीति । एतेन प्राक् पदनिक्षेपाधिकारस्वामित्वद्वारे 'मज्झाहिन्तो उयरिं चउठाणियस्स वट्टंतो। अंतो कोडाकोडिं ठिइबंधं यो कुणेमाणो ।। ६९२ ।। लहिऊणं उक्कोसं डायं उक्कोससंकिलेसेणं । जेट्ठठिइं बंधतो वड्ढि सो कुणइ उक्कोसं ।। ६९३ ।। इत्यत्र यदन्तःकोटिकोटिसागरोपमलक्षण स्थितिस्थानं निर्वर्तयन् जीवोऽनन्तरसमये उत्कृष्टवृद्धि स्वामी भवितुमर्हति तच्चतुःस्थानिकयवमध्यादुपरि वर्तमानमन्तः कोटिकोटिसागरोपमलक्षणं स्थितिस्थानं तस्मादेव चतुःस्थानिकयवमध्यादधो यावन्ति स्थितिबन्धस्थानानि तेभ्यः संख्येयगुणानि स्थितिबन्धस्थानानि यवमध्यादुपरि गत्वा लभ्यते, अर्थतस्तु यथोक्तं चतुःस्थानिकयवमध्यलक्षणस्थितिस्थानं बध्नन् जीवो यावतीं स्थितिं बध्नाति ततः संख्येयगुणाधिकां स्थितिं बध्नन् जीव उत्कृष्टवृद्धिस्वामी भवितुमर्हति न तु ततः स्तोकामिति स्फुटमभवत् । ननु तर्हि एषा एवोत्कृष्टपदगताऽन्तः कोटिकोटिसागरोपमस्थितिः स्याद् ? इति चेद्, न तस्यास्त्वेतत्स्थितेरपि संख्येयगुणाधिकस्थितिवन्धं कुर्वतोभावात् । 9 तदेवाह - " तो संखगुणा अंतोकोडाकोडी” ति तस्या अनन्तरोक्ताया अन्तः कोटाकोटीसागरोपमस्थितेरपि समयपरिभाषया या उत्कृष्टपदे सागरोपमाणामन्तः कोटीको व्यस्ताः संख्येयगुणा इत्यर्थः । " ओ बिठाणम्मि" इत्यादि, ततः सातवेदनीयस्य द्विस्थानकरसयवमध्य ૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy