________________
६५८ ]
विहाणे मूलपडिइिबंधो [ विभक्तस्थितिस्थाना गल्पबहु०
136
स्योपरि ' साकारे' - एकान्तसाकारोपयोगे सति बन्धप्रायोग्यानि स्थितिस्थानानि संख्येयगुणानि भवन्तीत्यर्थः । ततो विसेसअहियो” इत्यादि, तेभ्योऽनन्तरोक्त स्थितिबन्धस्थानेभ्यः सातवेदनीयस्य 'गुरु' - उत्कृष्टोऽनुभवयोग्यः स्थितिबन्धो विशेषाधिको भवति, कुतः ? उच्यते, अनन्तरोक्तानि सातावेदनीयद्विस्थानिकरसयव मध्यादुपरिवर्तीन्येकान्तसाकारोपयोगेन बन्धप्रायोग्यानि स्थितिबन्धस्थानान्यन्तः कोटिकोटिसागरोपमन्यूनपञ्चदशकोटिकोटिसागरोपमप्रमाणानि, सातावेदनीयस्याऽनुभव योग्यतालक्षणस्थितिबन्धस्त्वयं पञ्चदशशतवर्षन्यूनपञ्चदशसागरोपमकोटिकोटिप्रमाणः, तथा च भवत्यनन्तरोक्तस्थितिबन्धस्थानापेक्षया विशेषाधिकः । तत्तो जाणेयव्वा" तस्मात् सातवेदनीयस्यानुभवयोग्योत्कृष्ट स्थितिबन्धात् तस्य सातावेदनीयस्यैवोत्कृष्टा कर्मरूपतावस्थानलक्षणा यत्स्थितिर 'भ्यधिका' - विशेषाधिका ज्ञातव्या, कुतः अवाधाया प्रवेशेनाऽस्याः सम्पूर्णपञ्चदशकोटिकोटिसागरोपमप्रमाणत्वात् । २४ “तो डायठिई अहिया" इत्यादि, सातवेंदनीयस्योत्कृष्टयत्स्थितेरुत्कृष्टा डायस्थितिर्विशेषतोऽभ्यधिका ज्ञातव्या, कुतः ? सातवेदनीयस्योत्कृष्टा यत्स्थितिः पञ्चदशकोटिकोटिसागरोपममात्रा, उत्कृष्ट डायस्थितिस्त्वनन्तः कोटिकोटिसागरोपमन्यूनत्रिंशत्कोटिकोटिसागरोपमप्रमाणा, तथा चोत्कृष्टा डायस्थितिर्द्विगुणाऽपि न भवत्यतो विशेषाधिकाऽभिहितेति ।
ननु कुत उत्कृष्टा डायस्थितिरेता प्रत्येव भवति ? उच्चाते, यतः स्थितिबन्धस्थानादुत्कृष्टांफालां दत्वा या स्थितिर्बध्यते ततः प्रभृति तदन्ता तावती स्थितिरुत्कृष्टा डायस्थितिरुच्यते, उत्कृष्टडायविषयत्वात्तस्याः; एषैव कर्मप्रकृतिचूर्णी बद्धडाय स्थितितयाऽभिहिता, एषा ह्युत्कृष्टष्टद्धी यावती - अन्तः कोटिकोटीसागरोपमन्यूनत्रिंशत्कोटीकोटी सागरोपमप्रमाणा प्राक् पदनिक्षेपाधिकारेsasभिहिता तावती एकहेलया उल्लङ्घयस्थितिषूत्कृष्टपद्गता स्थितिर्मन्तव्येति ।
1
२" ताउ असायस्स उवरि" इत्यादि, ततोऽसात वेदनीयस्य चतुःस्थानिके यवे उक्तलक्षणान्मध्यमस्थानादुपरि वर्तमानानि यानि स्थितिबन्धस्थानान्यद्यापि नोक्तानि तानि 'अधिकानि' - विशेषाधिकानि भवन्ति यतोऽनन्तरोकानीमानि च प्रत्येकमुत्कृष्टस्थितिपर्यन्तानि सन्त्यप्यनन्तरोक्तानि चतुःस्थानिकयवमध्यादुपरि बहुसागरोपमशतानि स्थितिबन्धस्थानान्यतिक्रम्यानन्तरस्थितिवन्वस्थानप्रभृतीनि इमानि तु यवमध्यानन्तरस्थितिबन्धस्थानप्रभृतीनि तथा च बहुसागरोपमतप्रमाणानां स्थितिबन्धस्थानानामत्राऽधिकानां प्रवित्वाद्भवतीमान्यनन्तरोक्त स्थितिबन्धस्थानापेक्षया विशेषाधिकानीति ।
" तओ परमो" त्ति 'असायस्स' इत्यनुवर्त्तते, ततोऽसात वेदनीयाख्याया उत्तरप्रकृतेः 'परमः ' उत्कृष्टः स्थितिबन्धः 'अधिकः ' - त्रिसहस्रवर्षोनान्तःकोटिकोटीसागरोपमप्रमाण स्थित्याऽभ्यधिक इत्यर्थः । कुतः १ उच्यते, 'गुरू' इत्यनेनाऽसातवंदनीयस्याऽनुभवयोग्योत्कृष्ट स्थिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org