Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 731
________________ ६५८ ] विहाणे मूलपडिइिबंधो [ विभक्तस्थितिस्थाना गल्पबहु० 136 स्योपरि ' साकारे' - एकान्तसाकारोपयोगे सति बन्धप्रायोग्यानि स्थितिस्थानानि संख्येयगुणानि भवन्तीत्यर्थः । ततो विसेसअहियो” इत्यादि, तेभ्योऽनन्तरोक्त स्थितिबन्धस्थानेभ्यः सातवेदनीयस्य 'गुरु' - उत्कृष्टोऽनुभवयोग्यः स्थितिबन्धो विशेषाधिको भवति, कुतः ? उच्यते, अनन्तरोक्तानि सातावेदनीयद्विस्थानिकरसयव मध्यादुपरिवर्तीन्येकान्तसाकारोपयोगेन बन्धप्रायोग्यानि स्थितिबन्धस्थानान्यन्तः कोटिकोटिसागरोपमन्यूनपञ्चदशकोटिकोटिसागरोपमप्रमाणानि, सातावेदनीयस्याऽनुभव योग्यतालक्षणस्थितिबन्धस्त्वयं पञ्चदशशतवर्षन्यूनपञ्चदशसागरोपमकोटिकोटिप्रमाणः, तथा च भवत्यनन्तरोक्तस्थितिबन्धस्थानापेक्षया विशेषाधिकः । तत्तो जाणेयव्वा" तस्मात् सातवेदनीयस्यानुभवयोग्योत्कृष्ट स्थितिबन्धात् तस्य सातावेदनीयस्यैवोत्कृष्टा कर्मरूपतावस्थानलक्षणा यत्स्थितिर 'भ्यधिका' - विशेषाधिका ज्ञातव्या, कुतः अवाधाया प्रवेशेनाऽस्याः सम्पूर्णपञ्चदशकोटिकोटिसागरोपमप्रमाणत्वात् । २४ “तो डायठिई अहिया" इत्यादि, सातवेंदनीयस्योत्कृष्टयत्स्थितेरुत्कृष्टा डायस्थितिर्विशेषतोऽभ्यधिका ज्ञातव्या, कुतः ? सातवेदनीयस्योत्कृष्टा यत्स्थितिः पञ्चदशकोटिकोटिसागरोपममात्रा, उत्कृष्ट डायस्थितिस्त्वनन्तः कोटिकोटिसागरोपमन्यूनत्रिंशत्कोटिकोटिसागरोपमप्रमाणा, तथा चोत्कृष्टा डायस्थितिर्द्विगुणाऽपि न भवत्यतो विशेषाधिकाऽभिहितेति । ननु कुत उत्कृष्टा डायस्थितिरेता प्रत्येव भवति ? उच्चाते, यतः स्थितिबन्धस्थानादुत्कृष्टांफालां दत्वा या स्थितिर्बध्यते ततः प्रभृति तदन्ता तावती स्थितिरुत्कृष्टा डायस्थितिरुच्यते, उत्कृष्टडायविषयत्वात्तस्याः; एषैव कर्मप्रकृतिचूर्णी बद्धडाय स्थितितयाऽभिहिता, एषा ह्युत्कृष्टष्टद्धी यावती - अन्तः कोटिकोटीसागरोपमन्यूनत्रिंशत्कोटीकोटी सागरोपमप्रमाणा प्राक् पदनिक्षेपाधिकारेsasभिहिता तावती एकहेलया उल्लङ्घयस्थितिषूत्कृष्टपद्गता स्थितिर्मन्तव्येति । 1 २" ताउ असायस्स उवरि" इत्यादि, ततोऽसात वेदनीयस्य चतुःस्थानिके यवे उक्तलक्षणान्मध्यमस्थानादुपरि वर्तमानानि यानि स्थितिबन्धस्थानान्यद्यापि नोक्तानि तानि 'अधिकानि' - विशेषाधिकानि भवन्ति यतोऽनन्तरोकानीमानि च प्रत्येकमुत्कृष्टस्थितिपर्यन्तानि सन्त्यप्यनन्तरोक्तानि चतुःस्थानिकयवमध्यादुपरि बहुसागरोपमशतानि स्थितिबन्धस्थानान्यतिक्रम्यानन्तरस्थितिवन्वस्थानप्रभृतीनि इमानि तु यवमध्यानन्तरस्थितिबन्धस्थानप्रभृतीनि तथा च बहुसागरोपमतप्रमाणानां स्थितिबन्धस्थानानामत्राऽधिकानां प्रवित्वाद्भवतीमान्यनन्तरोक्त स्थितिबन्धस्थानापेक्षया विशेषाधिकानीति । " तओ परमो" त्ति 'असायस्स' इत्यनुवर्त्तते, ततोऽसात वेदनीयाख्याया उत्तरप्रकृतेः 'परमः ' उत्कृष्टः स्थितिबन्धः 'अधिकः ' - त्रिसहस्रवर्षोनान्तःकोटिकोटीसागरोपमप्रमाण स्थित्याऽभ्यधिक इत्यर्थः । कुतः १ उच्यते, 'गुरू' इत्यनेनाऽसातवंदनीयस्याऽनुभवयोग्योत्कृष्ट स्थिति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762