Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 713
________________ ६४० ] बन्धविहाणे मूलपडिटिइबंधो [ प्रकृतिषु स्थितिबन्धाध्यवसायाल्पबहु० (प्रे०) “टिइदीहतेण कमा" इत्यादि, स्थितिदीर्घत्वेन "कमा" त्ति क्रमाद्यथोत्तरमसंख्येयगुणाः स्थितिबन्धाध्यवसाया ज्ञातव्याः । अयम्भावः- - हस्वस्थितिककर्मणः सर्वस्थितिबन्धाध्यवसायापेक्षया दीर्घस्थितिककर्मणः सर्वस्थितिबन्धाध्यवसाया असंख्येयगुणाः, ततोऽपि दीर्घतरस्थितिकस्य तेऽसंख्येयगुणाः, एवं तावद्वक्तव्यं यावत्सर्वाधिक स्थितिकस्याऽसंख्येयगुणाः । तथाहि —शेषकर्मणामुत्कृष्टस्थित्यपेक्षयाऽऽयुप उत्कृष्टा स्थिति स्वाऽतस्सर्वस्तोका आयुषः सर्वस्थितिबन्धाध्यवसायाः, ततो नामगोत्रयोरेकैकस्य सर्वस्थितिबन्धाव्यवसाया असंख्येयगुणाः, परस्परन्तु तुल्याः । नामगोत्रयोरेकैकस्य समस्तस्थितिबन्धाध्यवसायापेक्षया दीर्घस्थितिकानां ज्ञानावरण- दर्शनावरण- वेदनीया - ऽन्तरायकर्मणामेकैकस्य समस्त स्थितिबन्धाध्यवसाया असंख्येयगुणाः सन्ति । कुतः ? उच्यते - प्राक् पल्योपमासंख्येयभागप्रमाणानां स्थितिबन्धस्थानानामतिक्रमणेनानन्तरस्थितिबन्धस्थानेऽध्यवसायानां द्विगुणवृद्धिरभिहिता, ततश्च पल्योपममात्र स्थिति वृद्धावसंख्ये यानामध्यवसायद्विगुणवृद्धिस्थानानां प्राप्तेश्वर मद्विगुणवृद्धी स्थितियन्वाध्यवसाया अप्यसंख्येयगुणा भवन्ति, तथा च सति नामगोत्रयोरु कृष्टस्थितिबन्धापेक्षा ज्ञानावरणादीनां चतुर्णां दशसागरोपमकोटिकोटीप्रमाणाधिकस्थितिबन्धे तु स्थितियन्वाध्यवसायानामसंख्येयगुणता निर्विवाद सि द्धेति । ज्ञानावरणादेः समस्तस्थितिवन्धाध्यवसायापेक्षया मोहनीयस्य समस्ताः स्थितिबन्धाध्यवसाया असंख्येयगुणाः अत्राप्यसंख्येयगुणताऽनन्तरोक्तनी - यैव ज्ञेया । इति । ननु आयुषः स्थितिबन्धस्थानानां स्तोकत्वेऽपि समयद्विममयाद्युत्तरेषु तेषु प्रत्येकं स्थितिबन्धाध्यवसाया असंख्येयगुणाः सन्ति, नामगोत्रयोस्तु यथोत्तरं विशेषाधिकाः, तत्कथमायुरपेक्षया नामगोत्रयोः स्थितिबन्धाध्यवसाया असंख्येयगुणाः स्युः ? इति चेदू, उच्यते, आयुषो जघन्य स्थितिबन्धस्थानेऽपि तत्कारणीभूताः स्थितिबन्धाध्यवसाया अतीवस्तोकतराः सन्ति, नामगोत्रयोर्जघन्य स्थितिबन्धस्थाने पुनरतिप्रभूततराः सन्ति, अन्यच्चायुपः स्थितिबन्धस्थानानि स्तोकानि, नामगोत्रयोस्तु बहूनि ततो यथोत्तरं विशेषाधिका अपि नामगोत्रयोः समस्तस्थितिबन्धाध्यवसाया आयुषः समस्तस्थितिबन्धाध्यवसायापेक्षयाऽसंख्येयगुणा भवन्ति । उक्तं च कर्मप्रकृतिचूण " सव्वत्थोवाणि आउगस्स ठितिबंध ज्झवसाणट्टाणाणि । णामगोभणं ठितिबंधज्झवसाणाणि असंखेजगुणाणि । आउस ठितिबंधे अज्झवसाणट्टाणाणं वड्ढी असंखेजगुणा दिट्टा, णामगोयाणं विसेस हिगा दिट्ठा, एत्थ कहं असंखेज्जगुणा ? भण्णइ आउगस्स जहणियाए ठितिए अयवसाणद्वाणाणि अतिथोवाणित्ति नामगोभणं जहण्णिगाए ठिईए ठितिबंध ज्झवसाणट्टाणाणि अति बहूगाणित्ति काउं, तेण आउगस्स * अत्र हि जेसलमेर ग्रन्थागारस्थतालपत्रीय कर्मप्रकृतिचूर्ण्यक्षराणि, मुद्रितप्रती तु "उगस्स जहणियाए ठितीए अज्भवसारण द्वाणारिण प्रतिबहुगारिणत्ति ( थोवारिणत्ति ) काउं, तेरा आउगस्स थोवारिण प्रदिउत्तरं गच्छति, सेसागं वासंखेज्जा" इति पाठः । अनयोः पाठयोर्मध्ये तालपत्रीयपाठ एवं सम्यगिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762