Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 715
________________ ६४२] बंधविहाणे मूलपयडिठिइबंधो [षोढाविभक्तजीवानां बन्धप्रायोग्यस्थिति. यन्ति, संक्लिष्टपरिणामास्तु द्विस्थानगतमेवेति । संक्लेशो हि अत्र तत्प्रायोग्यो विज्ञेयः, न तु सर्वसंक्लेशः, सातवेदनीयबन्धकानां सर्वसंक्लेशाऽसम्भवात् । असातवेदनीयस्योत्कृष्टानुभागस्य त्वशुभत्वात् तद्रसं पुनरेते वैपरीत्येन द्वि-त्रि-चतुःस्थानिकक्रमेण बध्नन्ति, एतदेव दर्शयन्नाह-"तविवरीअं असायस्स" ति एतेऽनन्तरोक्ताः शुद्ध-मध्यम-संक्लिप्टजीवा अशुभपरावर्तमानरूपस्याऽसातवेदनीयस्य तद्विपरीतम्'-तं चतु-स्त्रि-द्विस्थानगतं रसं विपरीतक्रमगतम् , द्वि-त्रि-चतुःस्थानक्रमेणेत्यर्थः, बध्नन्तीत्यावर्तते । अयम्भावः-तत्प्रायोग्यविशद्धपरिणामा अशातवेदनीयस्य द्विस्थानगतं रसं बध्नन्ति, मध्यमपरिणामास्तु तस्य त्रिस्थानगतं रसं बध्नन्ति, संक्लिष्टपरिणामाः पुनश्चतुःस्थानिक रसं बध्नन्तीति । अत्राप्यसातवेदनीयस्यैकद्वयादिस्थानगतरसानां परस्परं तारतम्यं पूर्ववद्भावनीयम् , केवलमसातवेदनीयस्याऽशुभप्रकृतित्वाद् इक्षरसादिस्थाने घोषातक्यादिरसमादायोपमा द्रष्टव्या। यत उक्तम्-"घोसाडइनिंबुवमो असुभाण" इति । ___ इहाऽनन्तरोक्ताः साता-ऽसातवेदनीययोः प्रत्येकं बन्धका ज्ञानावरणादिसप्तचत्वारिंशद्धृवप्रकृतीबध्नन्तो ग्राह्याः । उक्तं च कर्मप्रकृतिचूर्णी "एवं णाणावरणदसणावरणमिच्छत्तं सोलसकषाय भयं दुगंछा तेजोकम्मइगाधण्णगंधरसफासअगुरुलहुय उवघाय णिम्मेण पंचण्हं अंतराइयाणं एयासिं सत्तचत्तालीसाए धुवपगतीणं बंधता" इत्यादि ।।८५१।। तदेवं परावर्तमानशुभाशुभप्रकृतीनां द्वि-त्रि-चतुःस्थानकरसबन्धकमेदात्स्थितिबन्धकजीवाः षोढा विभक्ताः । साम्प्रतमेते एकैकविधा जीवाः कीदृशं स्थितिबंधं कुर्वन्तीत्येतत्प्रतिपादयन्नाह- पढमस्स ठिइं कमसो सायस्स चउतिबिठाणिये बंधे । बंधति लहु अलहु सट्ठाणम्मि खलु उक्कोसं ॥ ८५२ ॥ (प्रे०) “पढमस्से"त्यादि, 'सातस्य'-सातवेदनीयस्य परावर्तमानोत्तरशुभप्रकृतिलक्षणस्य "घउतिबिठाणिये" ति 'द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभिसम्बध्यत' इति न्यायाच्चतु:स्थानिके त्रिस्थानिके द्विस्थानिके "बंधे" ति तत्तद्र सबन्धे प्रवर्तमाने तस्य प्रवर्तकाः “पदमस्स ठिई कमसो” ति प्रथमस्य ज्ञानावरणस्याऽपरावर्तमानाऽशुभमूलप्रकृतेर्वक्ष्यमाणां त्रिविधां स्थिति क्रमशो बध्नन्तीति परेणान्धयः । एतां त्रिविधस्थितिमेव क्रमश आह-"लहु अलहु” इत्यादिना। इदमुक्तं भवति-अनन्तरोक्तात् 'सायस्स सुद्धमज्झिम' इत्यादिवचनात् सातवेदनीयस्य चतुःस्थानिकरसं वघ्नन्तो जीवा विशुद्धपरिणामा इति कृत्वा "लहु" ति ज्ञानावरणस्य 'लघु'तत्प्रायोग्यजघन्यां स्थिति बध्नन्तीत्यर्थः । न चैते केवलं विवक्षितांजघन्यां स्थितिमेव बध्नन्ति, किन्तु चतुःस्थानिकेऽपि मन्दमन्दतरादिरसे बध्यमाने समयद्विसमयादिनाऽभ्यधिकां यावत् केचनात्यन्तमन्दतमचतुःस्थानिकरसबन्धका उक्तजघन्यस्थित्यपेक्षया प्रभृतसागरोपमशतै For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762