________________
६४२]
बंधविहाणे मूलपयडिठिइबंधो [षोढाविभक्तजीवानां बन्धप्रायोग्यस्थिति. यन्ति, संक्लिष्टपरिणामास्तु द्विस्थानगतमेवेति । संक्लेशो हि अत्र तत्प्रायोग्यो विज्ञेयः, न तु सर्वसंक्लेशः, सातवेदनीयबन्धकानां सर्वसंक्लेशाऽसम्भवात् । असातवेदनीयस्योत्कृष्टानुभागस्य त्वशुभत्वात् तद्रसं पुनरेते वैपरीत्येन द्वि-त्रि-चतुःस्थानिकक्रमेण बध्नन्ति, एतदेव दर्शयन्नाह-"तविवरीअं असायस्स" ति एतेऽनन्तरोक्ताः शुद्ध-मध्यम-संक्लिप्टजीवा अशुभपरावर्तमानरूपस्याऽसातवेदनीयस्य तद्विपरीतम्'-तं चतु-स्त्रि-द्विस्थानगतं रसं विपरीतक्रमगतम् , द्वि-त्रि-चतुःस्थानक्रमेणेत्यर्थः, बध्नन्तीत्यावर्तते । अयम्भावः-तत्प्रायोग्यविशद्धपरिणामा अशातवेदनीयस्य द्विस्थानगतं रसं बध्नन्ति, मध्यमपरिणामास्तु तस्य त्रिस्थानगतं रसं बध्नन्ति, संक्लिष्टपरिणामाः पुनश्चतुःस्थानिक रसं बध्नन्तीति । अत्राप्यसातवेदनीयस्यैकद्वयादिस्थानगतरसानां परस्परं तारतम्यं पूर्ववद्भावनीयम् , केवलमसातवेदनीयस्याऽशुभप्रकृतित्वाद् इक्षरसादिस्थाने घोषातक्यादिरसमादायोपमा द्रष्टव्या। यत उक्तम्-"घोसाडइनिंबुवमो असुभाण" इति ।
___ इहाऽनन्तरोक्ताः साता-ऽसातवेदनीययोः प्रत्येकं बन्धका ज्ञानावरणादिसप्तचत्वारिंशद्धृवप्रकृतीबध्नन्तो ग्राह्याः । उक्तं च कर्मप्रकृतिचूर्णी
"एवं णाणावरणदसणावरणमिच्छत्तं सोलसकषाय भयं दुगंछा तेजोकम्मइगाधण्णगंधरसफासअगुरुलहुय उवघाय णिम्मेण पंचण्हं अंतराइयाणं एयासिं सत्तचत्तालीसाए धुवपगतीणं बंधता" इत्यादि ।।८५१।।
तदेवं परावर्तमानशुभाशुभप्रकृतीनां द्वि-त्रि-चतुःस्थानकरसबन्धकमेदात्स्थितिबन्धकजीवाः षोढा विभक्ताः । साम्प्रतमेते एकैकविधा जीवाः कीदृशं स्थितिबंधं कुर्वन्तीत्येतत्प्रतिपादयन्नाह-
पढमस्स ठिइं कमसो सायस्स चउतिबिठाणिये बंधे ।
बंधति लहु अलहु सट्ठाणम्मि खलु उक्कोसं ॥ ८५२ ॥ (प्रे०) “पढमस्से"त्यादि, 'सातस्य'-सातवेदनीयस्य परावर्तमानोत्तरशुभप्रकृतिलक्षणस्य "घउतिबिठाणिये" ति 'द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभिसम्बध्यत' इति न्यायाच्चतु:स्थानिके त्रिस्थानिके द्विस्थानिके "बंधे" ति तत्तद्र सबन्धे प्रवर्तमाने तस्य प्रवर्तकाः “पदमस्स ठिई कमसो” ति प्रथमस्य ज्ञानावरणस्याऽपरावर्तमानाऽशुभमूलप्रकृतेर्वक्ष्यमाणां त्रिविधां स्थिति क्रमशो बध्नन्तीति परेणान्धयः । एतां त्रिविधस्थितिमेव क्रमश आह-"लहु अलहु” इत्यादिना।
इदमुक्तं भवति-अनन्तरोक्तात् 'सायस्स सुद्धमज्झिम' इत्यादिवचनात् सातवेदनीयस्य चतुःस्थानिकरसं वघ्नन्तो जीवा विशुद्धपरिणामा इति कृत्वा "लहु" ति ज्ञानावरणस्य 'लघु'तत्प्रायोग्यजघन्यां स्थिति बध्नन्तीत्यर्थः । न चैते केवलं विवक्षितांजघन्यां स्थितिमेव बध्नन्ति, किन्तु चतुःस्थानिकेऽपि मन्दमन्दतरादिरसे बध्यमाने समयद्विसमयादिनाऽभ्यधिकां यावत् केचनात्यन्तमन्दतमचतुःस्थानिकरसबन्धका उक्तजघन्यस्थित्यपेक्षया प्रभृतसागरोपमशतै
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org