________________
द्वि-त्रि- चतुःस्थानरसभेदाज्जीवविभाजन० ] चरमेऽधिकारे जीवसमुदाहारः
[ ६४१
थोवाणि आदिउत्तरं गच्छविसेसेण वा साहेज्जा । णाणावरणदंसणावरणवेयणिज्जअंतराइयाणं असंखेज्जगुाणि । कहूं ? भण्ण-पलिओ मस्स असंखेज्जतिभागं गंतूणं दुगुणवड्ढी दिट्ठा | एवं पलिओवमस्स अंते असंखेज्जगुणाणि लब्भंति । मोहणिज्जस्स ठितिबंधज्झवसाणाणि असंखेज्जगुणाणि ।” इति ।। ८५० ॥ तदेव प्रतिपादितं ज्ञानावरणादि मूलप्रकृतीरधिकृत्य स्थितिबन्धाध्यवसायानामल्पबहुत्वम्, तस्मिँश्च प्रतिपादितेऽवसितो द्वितीयः प्रकृतिसमुदाहारः ॥
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे षष्ठेऽव्यवसायसमुदाहारे द्वितीयः प्रकृतिसमुदाहारः ॥
॥ अथ तृतीयो जीवसमुदाहारः ॥
साम्प्रतं चरमस्य जीवसमुदाहारस्यावसरः । तत्र हि शुभाशुभाद्यध्यवसाय भेदादनेकधा विभक्तानां कियन्तां बन्धकजीवानां कथंभूत स्थितेर्बन्धकत्वमित्येतत् प्रदिदर्शयिषुरादौ शुभाशुभाद्यध्यवसायाध्यवसितान् जीवान् भिन्नभिन्नर सबन्धकतया विभाजयन्नाह -
सायरस युद्धमज्झिमसंकिट्टा बंधि रसं कमसो | चउतिविठाणगयं खलु तव्विवरीअं असायस्स ॥ ८५१ ॥
(प्र०) "सायस्स सुद्धे”त्यादि, सातस्य परावर्तमान शुभप्रकृतिलक्षणस्य, अस्य चान्वयः “बंधिरे रसं कमसो चउतिबिठाणगयं खलु” इति परेण, ततः परावर्तमान शुभप्रकृतिलक्षस्य सात वेदनीयस्य क्रमशः " चउतिबिठाणगयं" ति चतुःस्थानगतं, त्रिस्थानगतं, द्विस्थानगतं च 'रसम्'- अनुभागं बध्नन्ति, इह तावत् सातावेदनीयादिशुभप्रकृतीनां रसः क्षीरादिरसोपमः, तत्रापि स्वाभाविकक्षीरादिरसोपम एकस्थानिकरस उच्यते, द्वयोः कर्षयोरावृत्तः सन्नवशिष्टैक कर्षप्रमाणो यः क्षीरादिरसस्तदुपमस्तु द्विस्थानिकरसो भण्यते, त्रिकर्षप्रमाण आवृत्तः सन्नैककर्षप्रमाणो योऽवशि टस्तदुपमस्तु त्रिस्थानिकः कथ्यते, एवं चतुर्णां कर्षाणामावर्तने कृते य उद्धरित एककर्षप्रमाणः क्षीरादिरसस्तदुपमश्चतुःस्थानिको ऽभिधीयते । यदुक्तं श्रीमन्मलयगिरिपादैः कर्मप्रकृतिवृत्तौ
1
" क्षीरादिरसच स्वाभाविक एकस्थानिक उच्यते । द्वयोस्तु कर्षयोरावर्तने कृते सति योऽवशिष्यते एकः कर्षः स द्विस्थानिकः । त्रयाणां कर्षाणामावर्तने कृते सति य उद्धरित एकः कर्षः स त्रिस्थानगतः । तु कर्षाणामावर्तने कृते सति योऽवशिष्ट एकः कर्षः स चतुःस्थानगतः ।” इति ।
के पुनरेनं सात वेदनीयसत्कं चतुस्त्रिद्विस्थानगतं त्रिविधरसं क्रमशो बघ्नन्तीत्याह - " सुद्धमज्झिम- संकिट्ठा" त्ति मन्दतरकषायोदयत्वाद् ये 'शुद्धाः' - विशुद्धाध्यवसाया जीवाः, तथैव कषायोदयजन्यमध्यम संक्लेशोपेतत्वात् 'मध्यमाः ' - मध्यमपरिणामा जीवाः, ये तु तीव्रकपायोदयात् 'संविष्टा : '- संक्लिष्टतर परिणामा जीवास्ते । इदमुक्तं भवति – विशुद्धपरिणामा जीवाः सातवेदनीयस्य चतुःस्थानगतं रसं बध्नन्ति, मध्यमपरिणामा जीवा पुनस्तस्य त्रिस्थानगतं रसं निर्वर्त -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org