________________
६४० ]
बन्धविहाणे मूलपडिटिइबंधो [ प्रकृतिषु स्थितिबन्धाध्यवसायाल्पबहु०
(प्रे०) “टिइदीहतेण कमा" इत्यादि, स्थितिदीर्घत्वेन "कमा" त्ति क्रमाद्यथोत्तरमसंख्येयगुणाः स्थितिबन्धाध्यवसाया ज्ञातव्याः । अयम्भावः- - हस्वस्थितिककर्मणः सर्वस्थितिबन्धाध्यवसायापेक्षया दीर्घस्थितिककर्मणः सर्वस्थितिबन्धाध्यवसाया असंख्येयगुणाः, ततोऽपि दीर्घतरस्थितिकस्य तेऽसंख्येयगुणाः, एवं तावद्वक्तव्यं यावत्सर्वाधिक स्थितिकस्याऽसंख्येयगुणाः ।
तथाहि —शेषकर्मणामुत्कृष्टस्थित्यपेक्षयाऽऽयुप उत्कृष्टा स्थिति स्वाऽतस्सर्वस्तोका आयुषः सर्वस्थितिबन्धाध्यवसायाः, ततो नामगोत्रयोरेकैकस्य सर्वस्थितिबन्धाव्यवसाया असंख्येयगुणाः, परस्परन्तु तुल्याः । नामगोत्रयोरेकैकस्य समस्तस्थितिबन्धाध्यवसायापेक्षया दीर्घस्थितिकानां ज्ञानावरण- दर्शनावरण- वेदनीया - ऽन्तरायकर्मणामेकैकस्य समस्त स्थितिबन्धाध्यवसाया असंख्येयगुणाः सन्ति । कुतः ? उच्यते - प्राक् पल्योपमासंख्येयभागप्रमाणानां स्थितिबन्धस्थानानामतिक्रमणेनानन्तरस्थितिबन्धस्थानेऽध्यवसायानां द्विगुणवृद्धिरभिहिता, ततश्च पल्योपममात्र स्थिति वृद्धावसंख्ये यानामध्यवसायद्विगुणवृद्धिस्थानानां प्राप्तेश्वर मद्विगुणवृद्धी स्थितियन्वाध्यवसाया अप्यसंख्येयगुणा भवन्ति, तथा च सति नामगोत्रयोरु कृष्टस्थितिबन्धापेक्षा ज्ञानावरणादीनां चतुर्णां दशसागरोपमकोटिकोटीप्रमाणाधिकस्थितिबन्धे तु स्थितियन्वाध्यवसायानामसंख्येयगुणता निर्विवाद सि द्धेति । ज्ञानावरणादेः समस्तस्थितिवन्धाध्यवसायापेक्षया मोहनीयस्य समस्ताः स्थितिबन्धाध्यवसाया असंख्येयगुणाः अत्राप्यसंख्येयगुणताऽनन्तरोक्तनी - यैव ज्ञेया । इति ।
ननु आयुषः स्थितिबन्धस्थानानां स्तोकत्वेऽपि समयद्विममयाद्युत्तरेषु तेषु प्रत्येकं स्थितिबन्धाध्यवसाया असंख्येयगुणाः सन्ति, नामगोत्रयोस्तु यथोत्तरं विशेषाधिकाः, तत्कथमायुरपेक्षया नामगोत्रयोः स्थितिबन्धाध्यवसाया असंख्येयगुणाः स्युः ? इति चेदू, उच्यते, आयुषो जघन्य स्थितिबन्धस्थानेऽपि तत्कारणीभूताः स्थितिबन्धाध्यवसाया अतीवस्तोकतराः सन्ति, नामगोत्रयोर्जघन्य स्थितिबन्धस्थाने पुनरतिप्रभूततराः सन्ति, अन्यच्चायुपः स्थितिबन्धस्थानानि स्तोकानि, नामगोत्रयोस्तु बहूनि ततो यथोत्तरं विशेषाधिका अपि नामगोत्रयोः समस्तस्थितिबन्धाध्यवसाया आयुषः समस्तस्थितिबन्धाध्यवसायापेक्षयाऽसंख्येयगुणा भवन्ति । उक्तं च कर्मप्रकृतिचूण
" सव्वत्थोवाणि आउगस्स ठितिबंध ज्झवसाणट्टाणाणि । णामगोभणं ठितिबंधज्झवसाणाणि असंखेजगुणाणि । आउस ठितिबंधे अज्झवसाणट्टाणाणं वड्ढी असंखेजगुणा दिट्टा, णामगोयाणं विसेस हिगा दिट्ठा, एत्थ कहं असंखेज्जगुणा ? भण्णइ आउगस्स जहणियाए ठितिए अयवसाणद्वाणाणि अतिथोवाणित्ति नामगोभणं जहण्णिगाए ठिईए ठितिबंध ज्झवसाणट्टाणाणि अति बहूगाणित्ति काउं, तेण आउगस्स
* अत्र हि जेसलमेर ग्रन्थागारस्थतालपत्रीय कर्मप्रकृतिचूर्ण्यक्षराणि, मुद्रितप्रती तु "उगस्स जहणियाए ठितीए अज्भवसारण द्वाणारिण प्रतिबहुगारिणत्ति ( थोवारिणत्ति ) काउं, तेरा आउगस्स थोवारिण प्रदिउत्तरं गच्छति, सेसागं वासंखेज्जा" इति पाठः । अनयोः पाठयोर्मध्ये तालपत्रीयपाठ एवं सम्यगिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org