________________
[ ६३९
प्रकृतिषु स्थितिबन्धाध्यवसायाः] चरमेऽधिकारे प्रकृतिसमुदाहारः तस्मात् समयाधिकजघन्यस्थितियन्वस्थानकारणीभताजघन्याध्यवसायस्थानात् तस्या एव समयाधिकजवन्यस्थितेः 'गुरु'-उत्कृष्टमध्यवसायस्थानम् , अनन्तगुणितं तीवम् , “एवं जा गुरूअ गुरु" ति 'एवम्'-उक्तरीत्या यथोत्तरस्थितिबन्धस्थानानां जघन्योत्कृष्टायध्यवसायस्थानक्रमेण यावत् - 'गुरुस्थितेः'-सर्वोत्कृष्टायाः स्थितेः 'गुरु'-उत्कृष्ट मध्यवसायस्थानं तस्या एवोत्कृष्टायाः स्थितेर्जघन्याव्यवसायस्थानापेक्षयाऽनन्तगुणती भवति । उक्तं च कर्मप्रकतिचूर्णी
"णाणावरणीयस्स जहणियार ठितिए जहण्णयं ठितिबंधझवसागट्ठाणं सव्वमंदाणुभात । तस्सेवुक्कासयं अणंतगुणं । बितियार जहण्णय ठितिबंधज्झरसाणाणं अणं नगुणं । तस्सेवुकस्सयं अणंतगुणं । एवं ततियाए जहण्णयं ठितिबंधझवसायट्ठाणं अणं तगुणं, तस्सेबुकोसं अणं गुणं । एवं अणंतगुणं जाब उक्कस्सिता ठितित्ति ।" इति ॥८४९।।
___ तदेवं दर्शिता स्थितिबन्धाध्यवसायानां तीवमन्दता, तस्यां च दर्शितायां गतः प्रथमः थितिसमुदाहारः॥ ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे षष्ठेऽध्य सायसगुदाहारे प्रथमः स्थितिसमुदाहारः समाप्तः ।।
॥ अथ द्वितीयः प्रकृतिसमुदाहारः ॥ तदेवमुक्तो नानाऽवान्तरद्वारैः स्थितिसमुदाहारः । साम्प्रतं प्रकृतिसमुदाहारे ज्ञानावरणाद्यकैकां . प्रकृतिमपेक्ष्य समस्तानां स्थितिबन्धाध्यवसायस्थानानां प्रमाणं दर्शयन्नाह
सबठिईणऽट्टण्हं अज्झवसाया असंखिया लोगा। (प्रे०) “सव्वठिईणे" त्यादि, "ढण्ह" ति पूर्वमकारस्य दर्शनाज्ज्ञानावरणादीनामष्टानां मृलकर्मणां प्रत्येकं “सव्वहिईण" ति जघन्यायाः स्थितेरारभ्य यावदुत्कृष्टा स्थितिस्तावद् यात्रन्तः स्थितिवन्धविकल्पास्तावतां 'सर्वस्थितीनाम्'-मस्थितिबन्धविकल्पानाम् "अज्झवसाया असंखिया लोगा" तितत्कारणीभूताः समस्त स्थितिबन्धाध्यवसाया असंख्येया लोकाः, असंख्येयलोकाकाशप्रमाणक्षेत्रखण्डानां प्रदेशराशिप्रमाणा इत्यर्थः । उक्तं च कर्मप्रकृतिचूर्णी
___ "पमाणाणुगमेणं णाणापरणीज्जस्स असंखेज्जलोगागासपदेशमेत्ताणि ठितिबंधज्झवसाणठाणाणि सव्वहितीणं । एवं सव्यकभ्माणं" ॥८८॥ इति ।
अत्र हि एकस्थितिबन्धस्थानकारणीभूताध्यवसायप्रगणनायां दर्शितासंख्यलोकाकाशापेक्षया वृहत्तरमसंख्यातं बोद्धव्यमिति ।। ॥
तदेवं ज्ञानावरणादीनां प्रत्येकं सर्वस्थितिवन्धाध्यवसायानामसंख्येययलोकाकाशप्रदेशप्रमितत्वे प्रतिपादिते किं ज्ञानावरणादीनामेकैकस्य परस्परमेते स्थितिबन्धाध्यवसायास्तुल्या हीनाधिका वेत्याशङ्कायां तेषामल्पबहुत्वं दर्शयन्नाह
ठिइदीहत्तेण कमा असंखियगुणा मुणेयवा ॥८५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org