________________
पोढाविभक्तजीवानां बन्धप्रायोग्यस्थिति० ] चरमेऽधिकारे जीव समुदाहारः
[ ६४३
रधिकमपि जघन्यांस्थितिं बध्नन्ति ततश्च "लहु" इत्यनेनोपलक्षणात् समयादिनाऽधिकां यावत् प्रभूतसागरोपमशतैरधिकामपि स्थि तिमेते प्रस्तुताश्चतुःस्थानिकरसं बध्नन्तो जीवा बध्नन्तीत्यपि विज्ञेयम् एवमेवाग्रेऽपि द्रष्टव्यम् । तद्यथा- सातवेदनीयस्य त्रिस्थानिकरसं बध्नन्तो जीवा मध्यमपरिणामा इति कृत्वोक्तजघन्यां वक्ष्यमाणोत्कृष्टां चस्थितिमपेक्ष्य "अलहु" ति या ज्ञानावरणस्य 'अलघु'अजघन्या, मध्यमा इति यावत् तां मध्यमां स्थिति बध्नन्ति । अत्राप्युपलक्षणाद् विवक्षितां मध्यमस्थितिमपेक्ष्य समयादिनाऽधिका बहुसागरोपमशतप्रमाणा याः स्थितयस्ता अपि बध्नन्तीनि बोद्धव्यम् । एवमेव सातवेदनस्य द्विस्थानिकरसं बघ्नन्तो जीवाः पुनः “ सहाणम्मि खलु उक्कोसं” ति 'स्वस्थाने'- स्वसंक्लेशभूमिकानुसारेणैव ज्ञानावरणस्योत्कृष्टां स्थितिं बध्नन्ति, न पुनरौधिको कृष्टस्थितिमिति खलशब्दार्थः; अत्राप्युत्कृष्टस्थित्युपलक्षणात् समयद्विसमयादिहीनोत्कृष्टां यावत् प्रभूतसागरोपमशतपृथक्त्वहीनामुत्कृष्टां स्थिनिमपि बध्नन्तीति बोद्धव्यम् । यद्वा स्वपदेन सातावेदनीयं ग्राह्यम्, ततश्च मातवेदनीयस्य द्विस्थानिकरसं वध्नन्तो जीवाः सातवेदनीयस्यैवोत्कृष्टां स्थिति बध्नन्ति, अत्र च पक्षे खलुशब्दोऽवधारणार्थे विशेष्यानुगामितया च व्याख्येयः ।
इदमुक्तं भवति - अवधारणार्थो हि एवकारस्त्रिधा, विशेष्यसङ्गतः, विशेषणसंगतः क्रियासङ्गतश्च भवति, अवधारणं च व्यवच्छेदफलम्, तत्र विशेष्य सङ्गतेनैव कारणान्ययोगव्यवच्छेदः क्रियते, यथा - 'चतुर्दशपूर्वविद एवाऽऽहारकशरीरिणः' इत्यत्र चतुर्दशपूर्विभ्योऽन्येषामाहारकशरीरित्वयोगो व्यवच्छिद्यते; अर्थाच्चतुर्दशपूर्विव्यतिरिक्त आहारकशरीरी न भवति । विशेषणानुगामिनैवकारेण त्वयोगव्यवच्छेदो विधीयते, यथा- 'अभव्यो मिध्यादृष्टिरेव ' इत्यत्राऽभव्ये मिथ्यादृष्टित्वाऽयोगो व्यवच्छिद्यते; अर्थादभव्यमात्रेऽवश्यं मिथ्यात्वपरिणामः । क्रियासङ्गतैवकारेण पुनरत्यन्तायोगो व्यवच्छिद्यते; यथा-'भव्यः संयतो भवत्येव' इत्यत्र भव्ये संयतभावस्याऽत्यन्ताऽयोगो व्यवच्छेद्यः, अर्थात् केचन भव्या असंयता अपि विद्यन्ते । प्रस्तुतेऽवधारणार्थखलुशब्दस्य विशेष्य संगततया विधाने सातावेदनीयस्य, तदुपलक्षणात् परावर्तमानशुभप्रकृतीनां चोत्कृष्टां स्थितिं बध्नन्ति, न पुनर्ज्ञानावरणादीनामपरावर्तमानानाम् परावर्तमानाऽशुभप्रकृतीनां वेत्यर्थः ||८५२||
अथ शेषा सातवे दनीपत्रिविधरसबन्धकजीवानधिकृत्याह
पढमस्स ठिहं कमसो असायचउतिगबिठाणिये बंधे । बंधंति गुरु अगुरु सट्टाणे चेव य जहण्णं ॥ ८५३॥
,
Jain Education International
-
(प्रे०) “पढमस्स” इत्यादि, प्राग्वदसातवेदनीयस्य चतुःस्थानिके त्रिस्थानिके द्विस्थानिके रसबन्धे प्रवर्तमाने सति तद्बन्धकाः 'प्रथमस्य ' - ज्ञानावरणस्य 'गुरुम् ' - उत्कृष्टाम्, 'अगुरुम् ' - अनुत्कृष्टाम्, मध्यमामित्यर्थः, स्वस्थाने एव जघन्यां च स्थितिं बध्नन्तीत्यर्थः । इयमत्र भावना
For Private & Personal Use Only
www.jainelibrary.org