SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ६४४] बन्धविहाणे मूलपयडिठिइबंधो [ षोढा विभक्तजीवानां बन्धप्रायोग्यस्थिति। 'तविवरीयं असायस्स' इत्यनन्तरोक्तवचनादसातवेदनीयस्य चतुःस्थानिक रसं बघ्नन्तो जीवाः संक्लिष्टाध्यवसायाः, किश्च तिर्यङ्-मनुष्य-देवायुर्वर्जानां शेषसर्वप्रकृतीनामुत्कृष्टा स्थितिः संक्लेशाधिक्ये निर्वत्यते, तत एतेऽसातवेदनीयस्य चतुःस्थानिकरसं बघ्नन्तो जीवा ज्ञानावरणस्योत्कृष्टां त्रिंशत्कोटिकोटिसागरोपमप्रमाणां स्थितिं बध्नन्ति, चतुःस्थानिकादिरसानां प्रत्येकं स्वस्थानेऽसंख्येयमेदमिन्नत्वात् मन्दमन्दतरादिचतुःस्थानिकरसं बघ्नन्तो जीवा नातिसंक्लिष्टा इति कृत्वा समयादिना हीनां हीनतराद्यां यावदन्तःकोटिकोटिसागरोपमप्रमाणामपि स्थितिं बध्नन्ति, अत उत्कृष्टस्थित्युपलक्षणादन्या अपि स्थितीरेते बध्नन्तीति प्राग्वदत्रापि द्रष्टव्यम् । नन्वेवं तहिं कस्मादुत्कृष्टैव मूले गृहीता ? उच्यते, त्रिस्थानिक रसं बध्नद्भिदिस्थानिकरसं बध्नद्भिर्जीवैश्चैया त्रिंशत्कोटिकोटिसागरोपमप्रमाणा स्थितिर्न बध्यते इत्येतदर्शनार्थम्, असातवेदनीयस्य चतुःस्थानिकरसबन्धकैरेव ज्ञानावरणस्योत्कृष्टा स्थितिबध्यते, न पुनस्त्रिस्थानिक-द्विस्थानिकरसबन्धकैरिति भावः । असातवेदनीयस्य त्रिस्थानिकरसं बध्नन्तो जीवास्तु ज्ञानावरणस्य तत्प्रायोग्यां अन्त:कोटीकोटीसागरोपमप्रमाणां मध्यमां स्थिति बध्नन्ति,असातवेदनीयस्य विस्थानिक रसंबध्नन्तो जीवाः पुनर्ज्ञानावरणस्य 'स्वस्थाने एव' -स्वविशुद्धिभूमिकानुसारेणैव जघन्यां तदुपलक्षितां समयद्विसमयादिमात्रेणाऽभ्यधिका यावत् प्रभूतसागरोपमशतैरधिकां जघन्यस्थितिमपि बध्नन्ति, इत्थमेवानन्तरोक्तस्थानेऽप्युपलक्षणात् प्रभूतसागरोपमप्रमाणाः स्थितिविकल्पा असातवेदनीयस्य त्रिस्थानिकरसं बध्नतां जीवानां बन्धप्रायोग्यतया द्रष्टव्या इति । ननु कर्मप्रकृतिसंग्रहण्यनुभागबन्धचूर्णी रसबन्धाध्यवसायानुकृष्टिप्रतिपादनावसरे'सायस्स ओक्कसियं ठिति बन्धमाणस्स जाणि अणुभागधज्झवसाणट्ठाणाणि समयूणाए उक्कसियाए ठितीए ताणि य अण्णाणि य । बिसमयूणाए उक्कसियाए ठितीए ताणि य अण्णाणि य । एवं जाव असायस्स जहण्णिया ठिती।' इत्यनंन सातवेदनीयोत्कृष्टस्थितिप्रभृतेः यावदसातवेदनीयजघन्यस्थित्या समं सातवेदनीयस्याऽऽक्रान्तस्थितिस्तावत्'तान्यन्यानि' लक्षणाया रसबन्धाध्यवसायानुकृष्टेरभिहितत्वात् पञ्चदशसागरोपमकोटिकोटिलक्षणसातवेदनीयोत्कृष्ट स्थितिप्रभृतेः समयसमयोनायां समयाधिकजघन्याऽऽक्रान्तस्थितिपर्यन्तायामुत्तरोत्तरस्थितौ ये रसबन्धाध्यवसायास्तेषामध्यवसायानामाक्रान्तजघन्यस्थिति यावत्पूर्वपूर्वस्थितावनुवृत्तेस्तत्रापि तादृगध्यवसायनिबन्धनस्सातवेदनीयद्वित्रिस्थानिकरसवन्धोऽपि भवत्येव,अत एव तत्राऽनुभागतीव्रमन्दताप्रतिपादनावसरे-सायस्स उक्कासयाए ठितीए जहएणपदे जहण्णा. www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy