________________
रसबन्धचूर्णिन्थेन विरोधाशङ्का ]
चरमेsun जीवसमुदाहारः
[ ६४५
भागो थोवो । समाए उक्कसियाए ठितीए जण्णपदे जहण्णाणुभागो तत्तिओ चेत्र । एवं बिसमयूणाए उक्कसियाए ठितीए जहणपए जहण्णाणुभागो तत्ति चेत्र । तिसमयूणाए ठितीए जहण्णपदे जहण्णाणुभागो तत्तिभ चेत्र । एवं उस्सारेयव्वं जात्र जहण्णओ असायबंधो ताव तत्तिओ चेव' । इत्यनेन सातावेदनीयोत्कृष्टस्थितौ यावान् जघन्यानुमागोऽभिहितस्तावान् एव समय तमयोनानां यावदसातवेदनीयेन सहाऽऽक्रान्तां तदीयजघन्यस्थितावपि जघन्यानुभागोऽभिहितः, न च तावन्मात्रम्, किन्तर्हि ? 'असाग्रम्स जणयं द्वितिं बंधमाणस्स जाणि अणुभागबंधज्झवसाणद्वाणाणि तत्तो समयाहियाए ठितीए ताणि य अण्णाणि य । एवं बिसमयाहियाए ताणि य अण्णाणि य । एवं जाव सागरोपमसयपुहुत्तं । सागरोत्रम सयपुहत्तं णाम जाब सायस्स उक्कोसिया ट्टिती ताय ताणि य अण्णाणि य' । इत्यनेन सातवेदनीयेन सममक्रान्ताया असातावेदनीयजघन्यस्थितेरारभ्य यावत् सातावेदनीयोत्कृष्टस्थितिस्तावत् 'तान्यन्यानि' लक्षणाया रसबन्धाध्यवसायानुकृष्टेरमिधानात्, तथा तदीयतीत्रमन्दताभिधानात्र सरेऽपि ' असा यस्स जणिगाए ठितीए जहण्णपदे जहण्णाणुभागो थोत्रो | बितियाए ठितोए जहण्णपदे जहण्णाणुभागो तत्तिओ चेत्र । ततियाए ठितीए जहण्णाणुभागो तत्तिओ चेव । एवं चेत्र सागरोत्रमसतपुहुत्तं तात्र तत्तिओ चैत्र ( जात्र) सातउकोसट्टितीत्ति भणितं होइ ।' इत्यनेनाऽसातावेदनीयस्य जघन्यस्थितिप्रभृतेस्तदीयपञ्चदशसागरोपमकोटिकोटिलक्षणाऽऽक्रान्तोत्कृस्थितिं यात्रजघन्यपदगतानुभागस्य तुल्याभिधानाच्च पूर्वपूर्वस्थितौ बन्धप्रारोग्यस्या-सातवेदनीयद्वि-त्रिस्थानिकरसस्याऽपि उत्तरोत्तर स्थितौ यावत्सातवेदनीयेन सह परावर्च्य बन्धप्रायोग्यायां चरमायामसातवेदनीयाऽऽक्रान्तस्थितावपि समुद्भवसद्भाव एव ।
ततः किम् ? ततः सातवेदनीयचतुःस्थानिकरसबन्धकानामिव तदीयद्वित्रिस्थानिकरसबन्धकानामपि तदीयोत्कृष्टा ऽजघन्यस्थितिवञ्जघन्यस्थित्युपलक्षिता याः सातवेदनीयचतुः स्थानिकरसबन्धकप्रायोग्यतयाऽभिहिता आक्रान्ताः सागरोपमशत पृथक्त्वस्थित यस्ता अपि बन्धप्रायोग्या एव, एवमेवासात वेदनीयचतुः स्थानिकरसबन्धकानां प्रायोग्याः सातवेदनीयेन समं परावर्त्य बन्धप्रायोग्या अत एवाssक्रान्ता याः पञ्चदशकोटिकोटिसागरोपमान्ता असातवेदनीयस्थितयस्ता अपि असातवेदनीयद्वि-त्रिस्थानिकरसबन्धकानां प्रायोग्या एव । तथा च 'पदमस्स ठिहं कमसो सायरस' इत्याद्यनुपदोक्तगाथा- (८५२-८५३)- द्वयेन तत्तज्जघन्याऽजघन्यादिस्थितीनां तथा तदुपलक्षितानां सागरोपमशतपृथक्त्वस्थितीनामेव सातवेदनीयचतुस्त्रिस्थानरसबन्धकप्रायोग्यतयाSसातवेदनीयद्वि- त्रिस्थानरसबन्धकप्रायोग्यतया च प्रतिपादितत्वाच्चूर्णिग्रन्थेन व्यक्तो विरोधः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org