Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 710
________________ स्थितिबन्धानुकृष्टिप्रतिषेधे ग्रन्थान्तरसंवादः ] चरमेऽधिकारे स्थितिसमुदाहारः इत्येवं पूर्वपूर्वस्थितिमत्कस्थितिबन्धाध्यवसायस्थानेभ्यः स्तोकानामप्यध्यवसायानामुत्तरोत्तरस्थिताननुवर्तनात् स्थितिबन्धाध्यवसायस्थानानां साऽनुकृष्टिर्न भवति । उक्तं च श्रीमन्मलयगिरिपूज्यैः कर्मप्रकृतिस्थितिबन्धवृत्तौ - 'साम्प्रतमनुकृष्टिश्चिन्त्यते सा च न विद्यते " इति । इत्थमुत्तरोत्तरस्थितावपूर्वाऽपूर्वाध्यवसायानां हेतुत्वप्रदर्शनस्यानुकृष्टिप्रतिषेधपर्यवसानात् प्रस्तुतमेव प्ररूपितम् । ननु जघन्यस्थितिबन्धप्रभृतेरुत्कृष्ट स्थितिबन्धपर्यन्तेषु सर्वत्राऽप्रसिद्धसत्ताकाया अध्यवसायानुष्ठे चिन्तनमेवाप्रकृतम् ? इति चेद्, न तत्र स्थितिबन्धाध्यवसायानामनुकृष्टेरसत्वेऽपि तेषु स्थितिस्थानेष्वेव रसवन्धाध्यवसायानां सानुकृष्टिर्विद्यत एव ततश्च तस्या रसबन्धाध्यवसायानुकृष्टेर्ज्ञाता जिज्ञासति यत्- 'स्थतिबन्धाध्यवसायानामनुष्टिर्भवति न वा', एतदर्थमनुष्टिद्वारमाश्रित्य सा प्रतिषिध्यते । एतदुक्तं भवति किमपि स्थितिबन्धस्थानं निर्वर्तयन् जीवो रसबन्धमपि नियमेन बध्नाति इत्थं च यथाऽसौ तादृशस्थितिं बघ्नन् कस्मिन्नपि स्थितिबन्धाध्यवसायस्थाने वर्तते तथा कस्मिन्नपि रसबन्धाध्यवसायस्थानेऽपि वर्तत एव, तानि च रसवन्धाध्यवसा यस्थानान्यपि प्रतिस्थितिबन्धस्थानम संख्ये यलोकाकाशप्रदेशतुल्यान्येव विद्यन्ते । तदुक्तं कर्मप्रकृतिचूण "जे एक द्विति णिव्वत्तंति द्वितिबंधज्झवसाणा ते असंखेज्जलोगागासपदे समेत्ता, एवं सव्वट्ठितिविगपेसु, भिएक्केक्कमि द्वितिबन्धट्ठामि अणुभागबंधाज्झवसाणट्ठाणाणि असंखेज्जलोगप देसमेत्ताणि" इति । इत्थं हि प्रत्येकस्थितिबन्धस्थाने वर्तमानानां जीवानामध्यवसायस्थानानि द्विविधानि सन्ति, तद्यथा- स्थितिबन्धाध्यवसायस्थानानि रसबन्धाध्यवसाय स्थानानि च तत्र स्थितिबन्धाध्यवसा यस्थानानामुत्तरोत्तरस्थितिबन्धस्थानेष्वपूर्वाणामेव सद्भावेनानुत्कृष्टेरभावेऽपि रसबन्धाध्यवसायानां सा विद्यत एव मतिज्ञानावरणाद्युत्तरप्रकृतीनां जघन्यादितत्तत्स्थितिबन्धस्थानेषु वर्तमानेभ्योऽसंख्यलोकाकाशप्रदेशराशितुल्येभ्योऽनुभागाध्यवसायस्थानेभ्य एकभागप्रमाणानामनुभागाध्यवसायस्थानानां तदन्यस्थितिबन्धस्थानेष्वनुवर्तनात् ; कुतोऽवसीयते ? इति चेत्, मतिज्ञानावरणादेः समयद्विसमयाद्यधिकजघन्यादिस्थितिबन्धस्थानेष्वपूर्वाणामध्यवसायानामिव एकदेशमात्राणां पूर्वाणामध्यवसायस्थानानामप्यभिमतत्वात् । उक्तं च कर्मप्रकृतिरसबन्धचूर्णौ " एयांसि पगतीणं जणियं द्वितिं बंधमाणस्स ' जाणज्झवसाणाणि तदेगदेसो य अण्णाणि' त्ति जाणि अणुभागअज्झत्राणद्वाणाणि बितियाए द्वितीए तदेकदेसो य अण्णाणि य, तइयाए द्वितीए तदेगदेसो य अण्णाणि" इत्यादि । उक्तं च महाबन्धकारैरपि - "एतो तिव्त्रमंददाए पुत्रं गमणिज्जं अणुकडिंट वत्तइस्सामो । तं जहा - सण्णीहिं पगदं । अन्भवसि - द्वियपाओग्गं जहण्णगे बंधगे मदियावरणस्स जहण्णट्ठिदिं बंधमाणस्स याणि अणुभागबंधज्झवसाणट्ठाणाणि बिदिया द्विदीए तदेगदेसो वा अण्णाणि च । तदियाए द्विदीए तदेगदेसो वा अण्णाणि च " इति । Jain Education International [ ६३७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762