________________
स्थितिबन्धानुकृष्टिप्रतिषेधे ग्रन्थान्तरसंवादः ] चरमेऽधिकारे स्थितिसमुदाहारः
इत्येवं पूर्वपूर्वस्थितिमत्कस्थितिबन्धाध्यवसायस्थानेभ्यः स्तोकानामप्यध्यवसायानामुत्तरोत्तरस्थिताननुवर्तनात् स्थितिबन्धाध्यवसायस्थानानां साऽनुकृष्टिर्न भवति । उक्तं च श्रीमन्मलयगिरिपूज्यैः कर्मप्रकृतिस्थितिबन्धवृत्तौ - 'साम्प्रतमनुकृष्टिश्चिन्त्यते सा च न विद्यते " इति । इत्थमुत्तरोत्तरस्थितावपूर्वाऽपूर्वाध्यवसायानां हेतुत्वप्रदर्शनस्यानुकृष्टिप्रतिषेधपर्यवसानात् प्रस्तुतमेव प्ररूपितम् ।
ननु जघन्यस्थितिबन्धप्रभृतेरुत्कृष्ट स्थितिबन्धपर्यन्तेषु सर्वत्राऽप्रसिद्धसत्ताकाया अध्यवसायानुष्ठे चिन्तनमेवाप्रकृतम् ? इति चेद्, न तत्र स्थितिबन्धाध्यवसायानामनुकृष्टेरसत्वेऽपि तेषु स्थितिस्थानेष्वेव रसवन्धाध्यवसायानां सानुकृष्टिर्विद्यत एव ततश्च तस्या रसबन्धाध्यवसायानुकृष्टेर्ज्ञाता जिज्ञासति यत्- 'स्थतिबन्धाध्यवसायानामनुष्टिर्भवति न वा', एतदर्थमनुष्टिद्वारमाश्रित्य सा प्रतिषिध्यते । एतदुक्तं भवति किमपि स्थितिबन्धस्थानं निर्वर्तयन् जीवो रसबन्धमपि नियमेन बध्नाति इत्थं च यथाऽसौ तादृशस्थितिं बघ्नन् कस्मिन्नपि स्थितिबन्धाध्यवसायस्थाने वर्तते तथा कस्मिन्नपि रसबन्धाध्यवसायस्थानेऽपि वर्तत एव, तानि च रसवन्धाध्यवसा यस्थानान्यपि प्रतिस्थितिबन्धस्थानम संख्ये यलोकाकाशप्रदेशतुल्यान्येव विद्यन्ते ।
तदुक्तं कर्मप्रकृतिचूण
"जे एक द्विति णिव्वत्तंति द्वितिबंधज्झवसाणा ते असंखेज्जलोगागासपदे समेत्ता, एवं सव्वट्ठितिविगपेसु, भिएक्केक्कमि द्वितिबन्धट्ठामि अणुभागबंधाज्झवसाणट्ठाणाणि असंखेज्जलोगप देसमेत्ताणि" इति । इत्थं हि प्रत्येकस्थितिबन्धस्थाने वर्तमानानां जीवानामध्यवसायस्थानानि द्विविधानि सन्ति, तद्यथा- स्थितिबन्धाध्यवसायस्थानानि रसबन्धाध्यवसाय स्थानानि च तत्र स्थितिबन्धाध्यवसा यस्थानानामुत्तरोत्तरस्थितिबन्धस्थानेष्वपूर्वाणामेव सद्भावेनानुत्कृष्टेरभावेऽपि रसबन्धाध्यवसायानां सा विद्यत एव मतिज्ञानावरणाद्युत्तरप्रकृतीनां जघन्यादितत्तत्स्थितिबन्धस्थानेषु वर्तमानेभ्योऽसंख्यलोकाकाशप्रदेशराशितुल्येभ्योऽनुभागाध्यवसायस्थानेभ्य एकभागप्रमाणानामनुभागाध्यवसायस्थानानां तदन्यस्थितिबन्धस्थानेष्वनुवर्तनात् ; कुतोऽवसीयते ? इति चेत्, मतिज्ञानावरणादेः समयद्विसमयाद्यधिकजघन्यादिस्थितिबन्धस्थानेष्वपूर्वाणामध्यवसायानामिव एकदेशमात्राणां पूर्वाणामध्यवसायस्थानानामप्यभिमतत्वात् । उक्तं च कर्मप्रकृतिरसबन्धचूर्णौ
" एयांसि पगतीणं जणियं द्वितिं बंधमाणस्स ' जाणज्झवसाणाणि तदेगदेसो य अण्णाणि' त्ति जाणि अणुभागअज्झत्राणद्वाणाणि बितियाए द्वितीए तदेकदेसो य अण्णाणि य, तइयाए द्वितीए तदेगदेसो य अण्णाणि" इत्यादि ।
उक्तं च महाबन्धकारैरपि -
"एतो तिव्त्रमंददाए पुत्रं गमणिज्जं अणुकडिंट वत्तइस्सामो । तं जहा - सण्णीहिं पगदं । अन्भवसि - द्वियपाओग्गं जहण्णगे बंधगे मदियावरणस्स जहण्णट्ठिदिं बंधमाणस्स याणि अणुभागबंधज्झवसाणट्ठाणाणि बिदिया द्विदीए तदेगदेसो वा अण्णाणि च । तदियाए द्विदीए तदेगदेसो वा अण्णाणि च " इति ।
Jain Education International
[ ६३७
For Private & Personal Use Only
www.jainelibrary.org