Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 672
________________ मार्गणासु संख्यगुणभागवृद्धिहानिह्रस्वेतरान्तर० ] वृद्धपधिकारेऽन्तरद्वारम् [ ५९९ ____ अथ छेदोपस्थापनपरिहारविशुद्धिकसंयममार्गणयोः प्रस्तुतपदद्वयस्य नानाजीवाश्रयमुत्कृष्टान्तरमाह--"छेए परिहारम्मि य" इत्यादि, सुगमम् , अन्तरोपपत्तिस्तु प्राग्वत्ततन्मार्गणाया अष्टादशसागरोपमकोटिकोटिप्रमाणनानाजीवाश्रितोत्कृष्टान्तरद्वारेणैव कर्तव्या । अथौपशमिकसम्यक्त्वमार्गणायां सप्तानामसंख्यभागवृद्धिहान्योः प्रस्तुतोत्कृष्टान्तरमाह"सत्तदिवसा उवसमे” इति, सुगमम् , केवलमुपपत्तिदितियाधिकारदर्शितसप्तमूलप्रकृत्यनुस्कृष्टस्थितिवन्धनानाजीवाश्रितोत्कृष्टान्तरोपपत्तिवत् प्रतिपद्यमानसम्यक्त्वानां जीवानां सर्वथाऽभावलक्षणोत्कृष्टान्तरानुसारेण द्रष्टव्येति । अथोक्तशेषमार्गणासु यद्यप्यपगतवेद-सूक्ष्मसम्परायमार्गणे स्थितिबन्धकनानाजीवानाश्रित्य सान्तरे तथाऽपि तासु प्रस्तुतासंख्येयभागवृद्धिहानिपदद्वयमेव सन्न भवति, शेषनिरयगत्योघादिमार्गणास्तु नानाजीवानाश्रित्य निरन्तरा एव, तथा च सति तासु शेषमार्गणासु प्रस्तुतान्तरं सप्तानां संख्येयभागवृद्धयादेरौधिकोत्कृष्टान्तरवदन्तमुहूर्तप्रमाणमेव प्राप्यत इति तासु तत्तथैव दर्शयन्नाह-“सेसासु भवे मुहुत्तंतो" ति सेसासु नरकगत्योघादिपञ्चनवतिमार्गणासु सप्तानामसंख्यभागवद्धिहान्योः प्रस्तुतं नानाजीवाश्रितमुत्कृष्टमन्तरं 'मुहूर्तान्तः' -अन्तमुहूर्त भवति । गतार्थम् , केवलं शेषमार्गणाभिधानानि त्वम्-सर्वे निरयभेदाः, मनुष्यौघ-तत्पर्याप्त मानुषीभेदाः, सर्वे देवभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्भेदाः, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रियभेदाः, बादरपर्याप्तपृथिव्यप्तेजोवायु-पर्याप्तप्रत्येकवनस्पतिकायरूपाः पञ्च मार्गणाभेदाः, सर्वे त्रसकायभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, वैक्रियकाययोगः, स्त्रीवेद-पुरुषवेदौ, मत्यादिचतुर्ज्ञान-विभङ्गज्ञान-संयमोघसामायिकसंयम-देशसंयम-चक्षुर्दर्शना-ऽवधिदर्शन-तेजः-पद्म-शुक्ललेश्या-सम्यक्त्वौघ-क्षायिक-क्षायोपशमिकसम्यक्त्व-संज्ञिमार्गणाभेदाश्चेति ॥८१०-८११॥ तदेवमभिहितं सप्तानामसंख्येयभागवृद्धिहानिलक्षणपदद्वयस्य प्रस्तुतान्तरमुत्कृष्टतोऽपि सर्वमार्गणास्थानेषु । अथ तासामेव सप्तप्रकृतीनां संख्येयभागसंख्येयगुणवृद्धिहानिलक्षणानां चतुणां सत्पदानां जघन्योत्कृष्टभेदतो तदर्शयन्नाह सब्बासु लहु समयो संखियभागगुणवढिहाणीणं । पल्लाऽसंखियभागो अपज्जणर-मीस-सासणेसु गुरुं ॥८१२॥(गीतिः) विक्कियमीसे बारमुहुत्ता-ऽऽहारजुगले सरपुहुत्तं । वासपुहुत्त-छमासा अवेअ-सुहुमेसु वढि-हाणीणं ॥८१३॥ छए परिहारम्मि य अट्ठारस जलहिकोडिकोडीओ। सत्त दिवसा उवसमे सेसासु भवे मुहुत्तंतो ॥८१४॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762