________________
मार्गणासु संख्यगुणभागवृद्धिहानिह्रस्वेतरान्तर० ] वृद्धपधिकारेऽन्तरद्वारम्
[ ५९९ ____ अथ छेदोपस्थापनपरिहारविशुद्धिकसंयममार्गणयोः प्रस्तुतपदद्वयस्य नानाजीवाश्रयमुत्कृष्टान्तरमाह--"छेए परिहारम्मि य" इत्यादि, सुगमम् , अन्तरोपपत्तिस्तु प्राग्वत्ततन्मार्गणाया अष्टादशसागरोपमकोटिकोटिप्रमाणनानाजीवाश्रितोत्कृष्टान्तरद्वारेणैव कर्तव्या ।
अथौपशमिकसम्यक्त्वमार्गणायां सप्तानामसंख्यभागवृद्धिहान्योः प्रस्तुतोत्कृष्टान्तरमाह"सत्तदिवसा उवसमे” इति, सुगमम् , केवलमुपपत्तिदितियाधिकारदर्शितसप्तमूलप्रकृत्यनुस्कृष्टस्थितिवन्धनानाजीवाश्रितोत्कृष्टान्तरोपपत्तिवत् प्रतिपद्यमानसम्यक्त्वानां जीवानां सर्वथाऽभावलक्षणोत्कृष्टान्तरानुसारेण द्रष्टव्येति ।
अथोक्तशेषमार्गणासु यद्यप्यपगतवेद-सूक्ष्मसम्परायमार्गणे स्थितिबन्धकनानाजीवानाश्रित्य सान्तरे तथाऽपि तासु प्रस्तुतासंख्येयभागवृद्धिहानिपदद्वयमेव सन्न भवति, शेषनिरयगत्योघादिमार्गणास्तु नानाजीवानाश्रित्य निरन्तरा एव, तथा च सति तासु शेषमार्गणासु प्रस्तुतान्तरं सप्तानां संख्येयभागवृद्धयादेरौधिकोत्कृष्टान्तरवदन्तमुहूर्तप्रमाणमेव प्राप्यत इति तासु तत्तथैव दर्शयन्नाह-“सेसासु भवे मुहुत्तंतो" ति सेसासु नरकगत्योघादिपञ्चनवतिमार्गणासु सप्तानामसंख्यभागवद्धिहान्योः प्रस्तुतं नानाजीवाश्रितमुत्कृष्टमन्तरं 'मुहूर्तान्तः' -अन्तमुहूर्त भवति । गतार्थम् , केवलं शेषमार्गणाभिधानानि त्वम्-सर्वे निरयभेदाः, मनुष्यौघ-तत्पर्याप्त मानुषीभेदाः, सर्वे देवभेदाः, सर्वे पञ्चेन्द्रियतिर्यग्भेदाः, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रियभेदाः, बादरपर्याप्तपृथिव्यप्तेजोवायु-पर्याप्तप्रत्येकवनस्पतिकायरूपाः पञ्च मार्गणाभेदाः, सर्वे त्रसकायभेदाः, पञ्च मनोयोगभेदाः, पञ्च वचोयोगभेदाः, वैक्रियकाययोगः, स्त्रीवेद-पुरुषवेदौ, मत्यादिचतुर्ज्ञान-विभङ्गज्ञान-संयमोघसामायिकसंयम-देशसंयम-चक्षुर्दर्शना-ऽवधिदर्शन-तेजः-पद्म-शुक्ललेश्या-सम्यक्त्वौघ-क्षायिक-क्षायोपशमिकसम्यक्त्व-संज्ञिमार्गणाभेदाश्चेति ॥८१०-८११॥
तदेवमभिहितं सप्तानामसंख्येयभागवृद्धिहानिलक्षणपदद्वयस्य प्रस्तुतान्तरमुत्कृष्टतोऽपि सर्वमार्गणास्थानेषु । अथ तासामेव सप्तप्रकृतीनां संख्येयभागसंख्येयगुणवृद्धिहानिलक्षणानां चतुणां सत्पदानां जघन्योत्कृष्टभेदतो तदर्शयन्नाह
सब्बासु लहु समयो संखियभागगुणवढिहाणीणं । पल्लाऽसंखियभागो अपज्जणर-मीस-सासणेसु गुरुं ॥८१२॥(गीतिः) विक्कियमीसे बारमुहुत्ता-ऽऽहारजुगले सरपुहुत्तं । वासपुहुत्त-छमासा अवेअ-सुहुमेसु वढि-हाणीणं ॥८१३॥ छए परिहारम्मि य अट्ठारस जलहिकोडिकोडीओ। सत्त दिवसा उवसमे सेसासु भवे मुहुत्तंतो ॥८१४॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only