________________
६०० ]
विहाणे मूलपडिटिइबंधो [ संख्येगुणभागवृद्धिहान्यन्तरोपपत्तिः
(प्रे) "सव्वासु लहु" मित्यादि, यासु मार्गणासु सत्पदद्वारे आयुर्वर्जसप्तान्यतमप्रकृतीनां संख्येयभाग-संख्येपगुणवृद्धिहान्यन्यतमपदानां सच्चमाविष्कृतं तासु नरकगत्योघादिसर्वमार्गणासु तासां संख्येयभागवृद्ध्यादिचतुरन्यतमसत्पदानां प्रत्येकं नानाजीवाश्रितं बन्धान्तरं 'लघु' - जघन्यं 'समयः' समयमात्रमित्यर्थः । एतच्चौघवदेव विज्ञातव्यम् ।
अथैतेषामेव सत्पदानामुत्कृष्टान्तरं दर्शनीयम्, तत्र या मार्गणा नानाजीवान् समाश्रित्य सान्तरास्तास्वपर्याप्तमनुष्यादि मार्गणास तदसंख्य भागवृद्धिहान्यन्तरवन्मार्गणोत्कृष्टान्तरप्रमाणं लभ्यतऽतेस्तासु तत्तथैव दर्शयन्नाह - "पल्लाऽसंखिय भागो" इत्यादि, प्राग्वदपर्याप्त मनुष्य - मिश्रदृष्टि- सासादनमार्गणानां नानाजीवाश्रितोत्कृष्टान्तरस्य पल्योपमासंख्येयभागप्रमाणत्वात्तामु सप्तानां संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानां स्थितिबन्धविशेषाणामेकैकस्य नानाजीवाश्रितं 'गुरु'- उत्कृष्टमन्तरं पल्योपमासंख्येवभागप्रमाणं भवति । इत्थमेव “विक्कियमीसे बारमुहुत्ता" ति वैक्रियमिश्रकाययोगमार्गणाया नानाजीवाश्रितोत्कृष्टान्तरस्य द्वादशमुहूर्तमानत्वात् तस्यां प्रस्तुतानां चतसृणां वृद्धिहानीनामुत्कृष्टान्तरं द्वादश मुहूर्ता भवति । तथैव "SSहारजुगले सरपुष्टुत्तं" ति आहारका-ऽऽहारकमिश्रकाययोगद्वये प्रस्तुतानां चतसृणां वृद्धिहानीनामुत्कृष्टान्तरं 'शरत्पृथक्त्वं' वर्षपृथक्त्वं भवति । “वासपुहुत्त मासा" इत्यादि, अत्र क्रमादिति वाक्यशेषः, ततश्चापगतवेद-सूक्ष्म सम्परायसंयममार्गणयोः प्रत्येकं प्रस्तुतान्यतरवृद्धिमत्पदस्योत्कृष्टान्तरं वर्षपृथक्त्वम्, प्रस्तुतान्यतरहानिसत्पदस्य तु तत्षण्मासाः ।
अयम्भाव:
मार्गणाद्वये वृद्धिपदानां प्रपतदुपशमकस्वामिकत्वात् पतदुपशमकानामुत्कृष्टान्तरस्य वर्षपृथक्त्वाच्च प्रस्तुतान्तरमप्योधवदुत्कृष्टतो वर्षपृथक्त्वं भवति, मार्गणाद्वयेऽपि हानिपदानां तु क्षपकापेक्षयाऽपि संपत्तिर्विद्यते, क्षपकाणामुत्कृष्टान्तरं तु न उपशमकानामिव वर्षपृथक्त्वम्, किन्तु षण्मासा एव । उक्तं च श्रीजीवसमासे - 'वासपुहुत्तं उवसामएसु खबगेसु छम्मासा' इति । इत्थं क्षपकोत्कृष्टान्तराधीनं प्रस्तुतान्तरमप्योघवत्षण्मासा एव भवति । तथा चापगतवेदे मोहनीयवर्णानां षण्णां बन्धप्रायोग्यप्रकृतीनां प्रस्तुतद्विविधवृद्धिपदस्य मोहनीयस्य तु संख्येव भागवृद्धिलक्षणस्यैकविधसत्पदस्य चोत्कृष्टान्तरं वर्षपृथक्त्वम्, सूक्ष्मसंपरायसंयममार्गणायां तु पण्णामपि प्रकृतीनां संख्येयभागवृद्धिपदस्य तद्वर्षपृथक्त्वम्, तत्तद्धानिपदस्य तु मार्गणाद्वये पन्नासा इति विज्ञेयम् ।
“लेए परिहारम्मिय" त्ति छेदोपस्थापन संयममार्गणायां परिहारविशुद्धिकसंयममार्गणायां च प्रस्तुतानां ज्ञानावरणादे: संख्येयभाग-संख्येयगुणवृद्धिहानिलक्षणानां चतुर्णां सत्पदानां प्रत्येकमुत्कृष्टान्तरमष्ट । दशकोटीकोटीसागरोपमाणि भवति एतन प्रस्तुतमार्गणादयेऽनन्तरमेव दर्शिता संख्येय भागवृद्धिहान्यन्यतरान्तरवद्विज्ञेयम् । एवमेव " सत्त दिवसा उवसमे" त्ति सुगमम् । केवलं प्रस्तुतत्वाज्ज्ञानावरणादीनां सप्तानां संख्येय भाग-संख्येयगुणवृद्धि हानिलक्षणानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org