________________
५५८]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वसंख्यभागधृद्धिहान्युत्कृष्टान्तर० पल्लासंखियभागो अपज्जणर-मीस-सासणेसु गुरु। विक्कियमीसे वारमुहुता-ऽऽहारजुगले सरपुहुत्तं ॥८१०॥ (गोतिः) छेए परिहारम्मि य अट्ठारह अयरकोडिकोडिओ।
सत्तदिवसा उवसमे सेसासु भवे मुहत्तंतो॥८११॥ (प्रे०) “पल्लासंखियभागो” इत्यादि, अपर्याप्तनरमार्गणास्थाने मिश्रदृष्टि-सास्वादनमार्गणास्थानयोश्च प्रत्येकं 'गुरु'-उत्कृष्टमन्तरं पल्योपमस्याऽसंख्यभागप्रमाणम् ,सप्तानामसंख्यभागवृद्धिहान्योरिति प्रक्रमाद्गम्यते। कुतः ? इति चेद्, नानाजीवानाश्रित्य प्रत्येक मार्गणायाः सान्तरत्वात् , तस्या उत्कृष्टान्तरस्य पल्योपमासंख्येयभागप्रमाणत्वाञ्च । इदमुक्तं भवति-मार्गणायाः सान्तरत्वे सति तदीयेऽन्नरे प्रवर्तमाने तत्र जीवानां सर्वथाऽभावेन तत्तन्मार्गणायां बन्धप्रायोग्यसप्तकर्मसत्कवृद्धयादीनां बन्धोऽपि न प्राप्यते, बन्धस्य बन्धकाऽविनाभावित्वात् , इत्थं चोत्कृष्टतो यावन्तं कालं नानाजीवानाश्रित्य मार्गणान्तरं तावत्कालमवस्थानवद्ध्यायेकविधस्याऽपि बन्धस्याऽभावादवस्थितबन्धोत्कृष्टान्तरवद् वृद्धयादीनामन्तरमप्युत्कृष्टतो नानाजीवाश्रयमाणोत्कृष्टान्तरापेक्षयाऽन्तमुहर्तादिनाऽधिकं प्राप्यते, अपर्याप्तमनुष्य-मिश्रदृष्टि-सासादनरूपाणां तिसृणां मार्गणानां नानाजीवाश्रितमुत्कृष्टान्तरं तु पल्योपमासंख्ययेयभागप्रमाणम् । उक्तं च जीवसमासे
'पल्लाऽसंखियभागं सासणमिस्सासमत्तमणुएसु' । इति । इत्थं च प्रस्तुतान्तरमपि सामान्येनाऽपर्याप्तमनुष्यादिमार्गणात्रये तथैवाभिहितम्, विशेषतस्तु तदन्तर्मुहर्तेनाभ्यधिक स्वयमभ्यामिति ।।
अथ वैक्रियमिश्रकाययोगमार्गणायामाह-"विक्कियमोसे बार"इत्यादि, वैक्रियमिश्रकाययोगमार्गणायां सप्तानामसंख्यभागवृद्धिहान्योः प्रत्येकमुत्कृष्टमन्तरं द्वादश मुहूर्ता भवति । कुतः ? अपहिमनुष्यादिमार्गणावत् वैक्रियमिश्रकाययोगमार्गणाया अपि सान्तरत्वात् , तस्या नानाजीवाश्रितोत्कृधान्तरस्य द्वादशमुहूर्तप्रमाणत्वाच्च । उक्तं चैतदपि जोवसमासे-'विउव्वमिस्सेसु बारस हुति मुहुत्ता' इति । विशेषतस्तु प्राग्वदेव भावनीयम् ।
अथाऽऽहारक-तन्मिश्रकाययोगमार्गणाइये आह-"आहारजुगले सरपुहुत्तं" ति आहारकतन्मिश्रकाययोगद्वयलक्षणे आहारकयुगले सप्तानां प्रस्तुतयोरसंख्येयभागवृद्धिहान्योः प्रत्येकमुत्कृष्ट नानाजीवाश्रयमन्तरं "सरपुहत्तं" ति 'शरत्पृथक्त्वम्'-वर्षपृथक्त्वं भवतीत्यर्थः, शरद्वब्दादिशब्दानामेकार्थकत्वात् । तदुक्तं श्रीहेमचन्द्रसूरीन्द्रैरभिधानचिन्तामणी-वत्सरः, स-सं-पर्य-नूभ्यो वर्षे, हायनोऽब्दं समाः शरत्' (१५९) इति । इदमपि पूर्ववन्मार्गणोत्कृष्टान्तरानुसारेणोपपादनीयम् । मार्गणोत्कृष्टान्तरंतु-'आहारमिस्सजोगे वासपुहुत्तं' इति श्रीजीवसमासवचनाद्वर्षपृथक्त्वं ज्ञायते, श्रीप्रज्ञापनासूत्रवचनेन तु तत्प्राग्वदन्यथाऽपि द्रष्टव्यमिति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org