SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ मार्गणास्त्र सख्यभागवृद्धिहानिजघन्यान्तर० ] वृद्धयधिकारे ऽन्तरद्वारम् न्तरस्य वर्षपुत्वा । उक्तं च जीवसमासवृत्तौ श्रीमन्मलधारीय हेमचन्द्रसूरिपादै:'मोहनीयं कर्मोपशमयन्तीत्युपशमकाः- उपशमश्रेणिवर्तिनः संयताः, तेव्वपि वर्षत्प्रमाणमन्तरं समवसेयम्, कदाचिद्वर्षपृथक्त्वं यावल्लोके उपशमश्रेणिं न कोऽपि प्रतिपद्यत इत्यर्थः । इति । सप्तानामसंख्यगुणहानिस्तु क्षपकश्रेणावपि जायते, क्षपकश्रेणेर्नानाजीवाश्रितमन्तरं तु षण्मासा एव । उक्तं चैतदपि तत्र - 'मोहनीयं कर्म क्षपयन्तीति क्षपकाः क्षपकश्रेणिवर्तिनश्चारित्रिण एव तेषु पुनः घण्मासमानमन्तरं विज्ञातत्र्यम् इति । इत्थं हि सप्तानाम संख्यगुणस्थितिबन्ध हान्यन्तरं नानाजीवनाश्रित्य पण्मासप्रमाणमेव भवति, नाधिकम्ः कस्मिन्नपि महात्मनि क्षपकश्रेणि समारुढे क्रमेण तस्य नियमतोऽसंख्यगुणहानीनां प्रवर्तनादिति ||८०७-८०८।। तदेवमभिहितमोघतः सप्तप्रकृतीनां शेपसंख्येयभागादिस्थितिबन्धवृद्ध्यादिसत्पदानां नानाजीवाश्रितमन्तरं यथासम्भवं जघन्योत्कृष्टभेदतः । अथ तदेवादेशतो विभणिषयाऽऽहसत्तरहं मन्वद्धा जासु असंखं सवड्ढिहाणीणं । तासु ण अंतरं मिं सेसासु भवे लहुं समयो ॥ ८०९ ॥ (प्रे०) "सत्तण्ह” मिन्वादि, ज्ञानावरणादीनामायुर्वर्जानां सप्तानां "सव्वद्धा जासु असंखंसवड्ढिहाणोणं” ति ‘तिरिये सवेगिंदिये' त्यादिसार्धगाथात्रयेण तिर्यग्गत्योघादिषु यासु मार्गणास्त्रनन्तरं नानाजीवाश्रिते कालद्वारे सप्तानामसंख्यभागस्थितिबन्ध वृद्धिहानिलक्षणयोः सत्पदयोनाजीवाश्रितः कालः सर्वाद्धाऽभिहितः "तासु" ति नासु तिर्यग्गत्योघादिचतुः षष्टिमार्गणासु “ण अंतरं सिं” ति “सिं” तयोः सप्तानामसंख्यभागवृद्धिहान्योरन्तरं नानाजीवानाश्रित्य न भवतीत्यर्थः । सुगमम्, केवलं तिर्यग्गत्योघादिचतुःषष्टिमार्गणानामानो मानि - तिर्यग्गत्योघसर्वैकेन्द्रिय-सर्वनिगोदभेद-शेषद्वादशसूक्ष्मपृथिव्यादिभेद- पृथिव्यप्तेजोवायुका पौष - तद्वादरौघ- बादरापर्याप्तभेद-वनस्पतिका बौध प्रत्येक वनस्पत्योष-तदपर्याप्तभेद काययोगसामान्यौ-दारिकौ-दारिकमिश्रकार्मणकाययोग-नपुंसकवेद क्रोधादिचतुः कपाय-मत्यज्ञान-श्रताज्ञानाऽसंयमाऽचक्षुर्दर्शन- कृष्ण-नीलकापोतलेश्या-भव्या-ऽभव्य-मिथ्यात्वाऽसंश्या-ऽऽहारका नाहारक मार्गणाभेदा इति । [ ५९७ अथ शेषमार्गणास्वसंख्य भागवद्विहान्योर्नानाजीवानाश्रित्याघ्रवत्वाद्भवति तत्रान्तरमतस्तदादौ जघन्यत आह- "सेसासु भवे लहु समयो" ति तिर्यग्गत्योघादिचतुःषष्टिमार्गणावर्जासु नरकगत्योघादिमार्गणा ज्ञानावरणादिसप्तान्यतमस्य कर्मणोऽसंख्य भागवृद्धिहानिमन्यदयो 'लंघु'जघन्यमन्तरं समयो भवेत् । एतच्च सप्तानामौधिकसंख्येयभागादिवृद्ध्यादेः समयमात्रजघन्यान्तदेव भावनीयमिति || ८०९ || अथैतासु नरकगत्योघादिशेषमार्गणास्वेव सप्तानामसंख्यभागवृद्धिहान्यन्तरमुत्कृष्टतो दर्शयन् गाथायुग्ममाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy