________________
५९६ ]
बंधाणे मूलपडिटिइबंधो [ ओघतो नानाजीवाश्रयोत्कृष्टान्तरोपपत्ति०
शेषाणां चतुर्विधवृद्धिहानीनां समयमात्रमन्तरमुक्तनीत्यैव भावनीयम्, तत्र च भावनायां विवक्षित जीवानामन्याऽन्यजीवानां धोक्तनीत्या समयस्यान्तरेण जातयोर्विवक्षितवृद्धयोर्विवक्षितहान्योर्वा सामयिकेऽन्तराले सर्वेषामपि जीवानां तादृशवृद्धिहान्यबन्धकत्वं द्रष्टव्यमिति ।
अथैतासामेवोत्कृष्टान्तरं दर्शयन्नाह - "परमं भिन्नमुहुत्त " मित्यादि, सप्तानां संख्येयभागसंख्येयगुण लक्षणयोयो द्वयोस्तादृश्योद्रमोहन्योश्चेत्येवं चतुर्णां पदानां प्रत्येकं 'परमम्' -उत्कृष्टमेकजीवाश्रितमन्तरं 'भिन्नमुहूर्त' - अन्तर्मुहूर्त भवतीत्यर्थः । कुत: ? इति चेत्, चतुर्विधान्यतरवृद्धिहानिबन्धार्हजीवानां सर्वदैव प्राप्तेः, स्वस्थाने बन्धप्रायोग्यानां तत्तद्वृद्ध्यादिपदानां प्रत्यन्तमुहूर्त नियमेन बन्धभावाञ्च । किमुक्तं भवति - ओघन आदेशतो वा तन्मार्गणास्थानेषु सप्तकर्मणां यस्य वृद्धयादिपदस्य बन्धकपरिमाणमसंख्लोकादेशराशितुल्यं तदधिकं वा विद्यते तत्र तु तद्वन्यकानां निरन्तरं प्राप्तेस्तादृशवृद्ध्यादिपदस्य नानाजीवानाश्रित्यान्तरमेव न प्राप्यते, अत एवाघतः सप्तानामसंख्य भागवृद्धि-हान्यन्तरं प्रतिषिद्धम्, उत्तरत्र मार्गणास्थानेषु प्रतिषेत्स्यति च । असंख्येयभागवृद्धिहानिवर्जपदेषु तु केपामपि बन्धकपरिमाणमोघतोऽप्यसंख्य लोकप्रदेशराशितुल्यं तदधिकं वा न विद्यते, अत एव मार्गणास्थानेष्वपि तदसंख्य लोकप्रदेशराशितुल्यं तदधिकं वा न भवति, ओघापेक्षया मार्गणास्थानेष्यधिक परिमाणस्याऽसंभवात् । इत्थं चासंख्येव भागवृद्धिहानि जीनां शेषपदानां नानाजीवाश्रितमन्तरं नियमेन भवति, तच्च तत्तत्पदानामभवत्वसा वनात्साधितमेव । तत्र तज्जघन्यतः समयमात्रमिति कथितमुपपादितं च । शेषवृद्धिहानिष्य संख्येय गुण वृद्धिहानि क्षणे द े पदे तु श्रेणिभावस्थितिबन्धावीने इत्यतस्तदीयोत्कृष्टान्तरमपि नानाजीवाश्रितश्रेण्युत्कृष्टान्तरानुसारेण प्राप्यते, अतस्तत्तदनुसारेण वक्ष्यति । शेषसंख्ये भाग संख्येयगुणवृद्धिहानिलक्षणानां चतुर्णां पदानां त्वोघतो मार्गणास्थानेषु वा यदि तद्बन्धार्ह जीवानामन्तरं पवति तदाऽपर्याप्तमनुष्पादि मार्गणान्मार्गणोत्कृष्टान्तरानुसारेण पल्योपमासंख्येयभागादिप्रमाणं प्राप्यते, यदि च तद्बन्धार्हजीवानां सर्वथाऽभावलक्षणमन्तरं न भवति तदा तु निरन्तरं लभ्यमानैस्तैः स्वस्थाने बन्धप्रायोग्यत्वाच्चतुर्विधान्यतमवृद्ध्यादेर्बन्ध उत्कृष्टतः प्रत्यन्तमुहूर्त नियमेन क्रियते, ततो नानाजीवानाश्रित्य चतु विधान्यतमवृद्ध्यादेरुत्कृष्टमन्तरमन्तर्मुहूर्तादधिकं नैव प्राप्यते । ओघ चिन्तायां हि सप्तानां स्वस्थाने संख्येयगुणवृद्धिहानिबन्धाः जीवाः सर्वे पर्याप्ताऽपर्याप्तमंजिपञ्चेन्द्रियाः, संख्येयभागवृद्धिहानिबन्धास्तु सर्वत्र सजीवाश्च ते च निरन्तरं प्राप्यन्ते, अत ओघत: संख्येयभाग-संख्येयगुणवृद्धिहानीनां प्रत्येकं नानाजीवाश्रितमन्तरमप्यन्तमुहूर्तमेव लभ्यत इति ।
सप्तानामसंख्य गुणवृद्धिहान्योर्नानाजीवाश्रितमन्तरं दर्शयन्नाह - "वासपुहुत्तमासेत्यादि, क्रमाद् वर्षथक्त्वं पण्मासाच सप्तानाम संख्यगुणवृद्धेर संख्येयगुणहानेश्वान्तरं भवति । कुत: ? इति चेत्, असंख्येयगुणबुद्धेरुपशमश्रेणितः प्रतिपाते एव सम्भवात् उपशमश्रेणेर्नानाजीवाश्रितोत्कृष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org