SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ओघतो नानाजीवानाश्रित्य जघन्यान्तरोपपत्ति० ] धृद्धयधिकारेऽन्तरद्वारम् अथौघतः सप्तानामसंख्यांशवृद्धिहान्यन्तरं प्रतिषिध्य शेषवृद्धिहानीनां तज्जघन्यादिभेदेन प्रदिदर्शयिषुरादौ जघन्यत आह-"समयो होइ"इत्यादि,शेषाणामुक्तवृद्धिहानिद्वयवर्जानां सप्तकर्मणां संख्येयभाग-संख्येयगुणा--ऽसंख्येयगुणस्थितिवन्धवृद्धिहानीलक्षणानां षण्णां सत्पदानां प्रत्येक 'जघन्यम्'-ह्रस्वमन्तरं 'समयः'-समयमात्रं भवतीत्यर्थः । ननु भवतु संख्येयभागसंख्येयगुणवृद्धि हान्यसंख्यगुणवृद्धिपदानामेकजीवाश्रितजघन्यान्तरस्य समयमात्रत्वान्नानाजीवानाश्रित्याऽपि तत्तथैव,कथं पुनरसंख्यगुणहानेरपि तत्समयमात्रमुच्यते,तदीयैकजीवाश्रितजघन्यान्तरस्याऽन्तमुहूर्तप्रमाणत्वेन विरोधाद् ? इति चेद्, न, यतो यस्या वृद्धहानेर्वा बन्धकपरिमाणस्यासंख्यलोकप्रदेशराश्यपेक्षया स्तोकतया नानाजीवानाश्रित्य तद्वन्धस्यान्तरं भवति तस्या वृद्ध नेर्वा कदाचिदेकट्यादयो बन्धका अपि सम्भवन्ति, अतो यदा कदाचिदेकव्यादयो यावन्तो बन्धकास्तावन्तो युगपद् विवक्षितां वद्धि हानि वा कृत्वा तावन्मात्रस्थितिवन्धं कुर्वन्तोऽवस्थितस्थितिबन्धका भवन्ति, तदनन्तरसमयेऽन्ये केचन पूर्वतो निर्वय॑मानावस्थितस्थितिवन्धा जीवा अवस्थितस्थितिबन्धं समाप्य विवक्षितां तादृशीमेव वृद्धि हानि वा कुर्वन्ति तदातस्या विवक्षिताया वद्धर्हानेर्वा नानाजीवाश्रयमन्तरं समयमानं प्राप्यते, अत एवासंख्यगुणहीनस्थितिबन्धस्यैकजीवाश्रितान्तरस्य जघन्यतोऽन्तमुहूर्तमात्रत्वेऽपि तस्य नानाजीवाश्रितमन्तरं जघन्यतः समयमात्रमुक्तम् । तच्चैवं भावनीयम्-पप्तानामसंख्यगुणस्थितिबन्धहानिर्हि क्षपकश्रेणावुपशमश्रेणी वा जायत इत्यनेकश आवेदितम् , ततो यदा कदाचिन्न वर्तत एकोऽपि जीव उपशमश्रेणी क्षपकश्रेणी वा तादृशकालावं पञ्चभिमुनिप्रवरैयुगपत्क्षपकश्रेणिः समारोढुं समारब्धा, समयस्याऽन्तरेणान्यः पञ्चभिर्यतिमुख्यैर्युगपत्क्षपकश्रेणिमारोढुमारब्धम्, इत्थं तदानीं क्षपकश्रेणौ दशैव महात्मानो वर्तन्ते, अन्तमुहूर्ते गते संख्येयान् स्थितिबन्धानतिक्रम्य तेभ्यः पञ्चभिः पूर्वारब्धश्रेणिभिर्यदा प्रथमोऽसंख्यगुणहीनः स्थितिबन्धः कृतस्तत्समयात्ततीये समयेऽन्यः पश्चादारन्धश्रेणिभिः पञ्चभिर्महात्मभिः प्रथमोऽसंख्यगुणहीनः स्थितिबन्धः कृतः, द्वितीयसमये तु न केनाऽपि, इत्थं हि पूर्वोत्तरसमययोः पञ्चानां पञ्चानामसंख्येयगुणहीनस्थितिबन्धकानां सद्भावात् , मध्ये द्वितीयसमये तु दशानामप्यवस्थितस्थितिबन्धस्यैव भवनाच्च तादृशजीवविशेषान् समाश्रित्य सप्तानां नानाजीवाश्रितमसंख्यगुणहान्यन्तरं जघन्यतः समयमात्रमुत्पद्यते । इदमेबैक दयादिजीवान् समाश्रित्योक्ताधिकजीवान् वा प्रतीत्यान्यथाप्युपपत्तिमृच्छतीति तेन तेन प्रकारेण स्वयमेव योज्यम् । यथा समयमात्रमसंख्यगुणहान्यन्तरमुपपादितं तथा समयमात्रमसंख्यगुणवृद्ध्यन्तरमपि स्वयमेवोपपायम् ,केवलमसंख्यगुणवृद्धयन्तरमेकजीवाश्रितासंख्यगुणवद्धयन्तरवदपि भावयितु युज्यते, यदि तदानीं विवक्षितजीवस्य भवतिचरमसमयजातासंख्यगुणवृद्धयनन्तरं देवगतावुत्पत्तेः पूर्वसमये कश्चिदपि जीवोऽसंख्येयगुणवृद्धेर्बन्धको न स्यादित्येवं प्रकारान्तरेणापि भावनीयम् । www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy