________________
५९४ ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघतस्तत्तद्वृद्धिहानिजघन्योत्कृष्टान्तर० न्मार्गणासु प्रत्येकम् “सिं" ति तयोः सप्तान्यतमानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः ‘लघुः'जघन्यो नानाजीवाश्रितकालः 'समय' - ओघवत्समयमात्र इत्यर्थः ।
तयोरेवोत्कृष्टकालमाह-“परमो समया उ संखेज्जा" त्ति 'परमः' -उत्कृष्टः कालस्तु संख्येयाः समयाः । एषोऽप्योघवदेवाविशेषेण विज्ञेय इति ॥८०६॥
तदेवं दर्शितः सप्तानामसंख्येयगुणस्थितिबन्धवद्धिहान्योर्जघन्योत्कृष्टभेदभिन्नो नानाजीवाश्रयः कालः, तस्मिंश्च दर्शिते गतं नानाजीवाश्रयं कालद्वारम् ॥ ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे दशमं नानाजीवाश्रयं कालद्वारं समाप्तम् ॥
॥अथैकादशमन्तरद्वारम् ॥ अथ क्रमप्राप्ते नानाजीवाश्रितेऽन्तरद्वारे मूलप्रकृतीनामुक्तशेषस्थितिबन्धवृद्धयादिसत्पदानां नानाजीवाश्रयमन्तरं प्ररूपयितुमना आदौ तावदोघत आह
सत्तण्ह अंतरं खलु णत्थि असंखंसवढिहाणीणं । समयों होइ जहण्णं सेसाणं वढिहाणीणं ॥८०७॥ परमं भिन्नमुहुत्तं संखियभाग-गुणवड्ढिहाणीणं । वासपुहुत्तछमासा कमा असंखगुणवड्ढिहाणीणं ॥८०८॥ (गोतिः)
(प्रे०) “सत्तण्ह अंतरं” इत्यादि, पूर्व सत्पदद्वारे “अस्थि अवत्तव्यत्तं बंधस्स असंखभागहाणी य भूगारव्वाउस्स" इत्यादिनाऽऽयुषोऽवक्तव्या-ऽसंख्यभागहानिलक्षणद्विविधपदस्य तथा 'भूओगारव्य भवे' इत्यादिना सप्तानामवक्तव्यावस्थानपदयो नाजीवाश्रितान्तरस्याप्यतिदेशेनैव कथितत्वादायुर्वर्जानां शेषाणां ज्ञानावरणादीनां सप्तानां मूलप्रकृतीनामतिदिष्टशेषेष्वसंख्येयभागादिचतुर्विधवृद्धिहानिलक्षणसत्पदेषु “अंतरं खलु णत्थि असंखंसवढिहाणीणं"ति खलुशब्दस्यावधारणार्थत्वेनासंख्यांशस्थितिबन्धवद्भिहानिलक्षणयोद्वयोः पदयोरेव नानाजीवानाश्रित्यान्तरं नास्ति, न पुनः शेषत्रिविधवद्धिहानिपदानामन्तरमपीत्यर्थः । सुगमं चैतत् , यतो यस्य यस्य सत्पदस्य नानाजीवाश्रितकालः सर्वाद्धा भवति, तस्य तस्य पदस्य नानाजीवाश्रितमन्तरं न भवति, सप्तानामसंख्यभागवृद्धिहान्यो नाजीवाश्रयः कालस्त्वनन्तरं कालद्वारे ‘सत्तण्हं सव्वद्धा अस्थि असंखंसबढिहाणीण'मित्यनेन सह्यद्धा प्रतिपादितः । इत्थं चौघतः सप्तानामसंख्यभागवृद्धिहानिपदयोरन्तरमपि नैव प्राप्यत इति तथैव दर्शितम् । एवमेवोत्तरत्र मार्गणास्थानेष्वपि यत्र सप्तानामसंख्यभागवृद्धिहान्यन्तरप्रतिषेधस्तत्रासावनेन प्रकारेणैवोपपादनीय इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org