________________
मार्गणास्यसंख्यगुणस्थितिवृद्धिहानिकाल० ] वृद्धयधिकारे कालद्वारम
[ ५९३ न्यतमानांबन्धप्रायोग्यमूलप्रकृतीनां संख्येयभागवृद्धयादिचतुर्विधान्यतमसत्पदानां प्रत्येकम् “समयो होइ जहण्णो" ति नानाजीवाश्रितो जघन्यो बन्धकालः 'समयः'-समयप्रमाणो भवति । एष समयमात्रो जघन्यकाल ओघोक्तनीत्यैवोपपादनीयः। अत्र "सव्वासु" इत्यनेन सप्तैकेन्द्रियभेदान् , तथैकोनचत्वारिंशत्पृथिवीकायादिवनस्पतिकायान्तमूलोत्तरभेदान् विहाय शेपासु चतुर्विशत्युत्तरशतमार्गणासु संख्येयभागवृद्धिहानिपदयोरसो जघन्यतः समयो बोद्धव्यः, संख्येयगुणवृद्धिहान्योस्त्वसावनन्तरोक्तचतुर्विंशत्युत्तरशतमार्गणाभ्योऽपि नवविकलेन्द्रियमार्गणास्थानानि सूक्ष्मसम्परायसंयमभेदं च विहाय चतुर्दशोत्तरशतमार्गणास्वेव तथा, तत्राप्यपगतवेदमार्गणायां मोहनीयवर्जानां षण्णां प्रकृतीनामेव, न तु मोहनीयस्याऽपि, मोहनीयस्य संख्येयभागवद्धिहानिवर्जपदानाभपगतवेदमार्गणायामसत्त्वादिति । ___ अथ प्रस्तुतानां संख्येयगुणभागवृद्धिहानीनां बन्धकालमुत्कृष्टत आह-“परमो समया उ संखेज्जा” इत्यादि, पर्याप्तमनुष्य-मानुषीमार्गणयोः सर्वार्थसिद्ध विमानदेवगतिभेदा-ऽऽहारका-ऽऽ. हारकमिश्रकाययोगा-ऽपगतवेदमार्गणासु, तथा मनःपर्यवज्ञान-संयमोघ-सामायिक-छेदोपस्थापन-परिहारविशुद्धिक-सूक्ष्मसम्परायसंयममार्गणास्वित्येतास द्वादशमार्गणास प्रत्येकं 'परमः'-उत्कृष्टो नानाजीवाश्रितः कालः संख्येयाः समयाः, ज्ञानावरणादितत्तत्प्रकृतीनां सत्पदद्वारेऽभिहितसंख्येयभागसंख्येयगुणवृद्धिहान्यन्यतमसत्पदानामिति तु प्रक्रमाद्गम्यते । अयमप्यौधिकसप्तकर्मसत्कासंख्यगुणवद्ध्यादेरुत्कृष्टबन्धकालवद्धोद्धव्यः । कुतः ? ओघवदत्रापि पदचतुष्कस्याऽध्रुवत्वाद् , बन्धकपरिमाणादेः संख्येयत्वादिरूपेणाविशेषाच्चेति ।
शेषमार्गणासु प्रस्तुतोत्कृष्टकालमाह- "सेसासु सत्तण्ह"मित्यादि, सुगमम् । अयमपि सप्तानां संख्येयगुण-संख्ययभागवद्धिहानीनामुत्कृष्टबन्धकालः सप्तानामौधिकसंख्येयभाग-संख्येयगुणवृद्धयादेरावलिकाऽसंख्यभागप्रमाणोत्कृष्टबन्धकालवद्विभावनीयः, तद्वदधिकृतनिरयगत्योधादिशेषमार्गणासु बन्धकपरिमाणादेरसंख्येयत्वादिरूपेण समानत्वादिति ।।८०३-८०४-८०५।।
अथोक्तावशिष्टयोः सप्तानामसंख्येयगुणवृद्धिहान्योर्मार्गणास्थानेषु नानाजीवाश्रितं बन्धकालं जघन्यादिभेदत आह
जासु खलु सत्तण्हं अत्थि असंखगुणवड्ढिहाणीओ। तासु लहू सिं समयो परमो समया उ संखेज्जा ॥८०६॥
(प्रे०) “जासु खलु” इत्यादि, यासु मनुष्यगत्योपादिमार्गणासु “सत्तण्ण" ति सप्तान्यतमानां मूलप्रकृतीनामसंख्यगुणवृद्धिहानी "अत्थि" ति स्तः, सत्पदद्वारे सत्तयाऽभिहिते इत्यर्थः । तासु किमित्याह-"तासु लहू सिं समयो" ति तासु मनुष्यगत्योपादिचतुश्चत्वारिंश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.