________________
५९२ ]
बंधविहाणे मूलपयडिठिइबंधो [ संख्येयगुणभागस्थितिवृद्धिहानिकाल अथोत्कृष्टकालमाह-"परमो समया" इत्यादि, उक्तासंख्यभागवृद्धिहानिलक्षणयोद्वयोः पदयोः प्रत्येकं 'परमः' -उत्कृष्टः कालस्तु संख्येयाः समयाः भवति । कासु मार्गणास्वित्याह“पजमणुस” इत्यादि पर्याप्तमनुष्य-मानुषीमार्गणयोः, सर्वार्थसिद्धविमानदेवगतिभेदाऽऽहारकतन्मिश्रकाययोगमार्गणासु, तथा मनःपर्यवज्ञान-संयमोघ-सामायिक-छेदोपस्थापनीय-परिहारविशुद्धिकसंयममार्गणासु चेत्येवं समुदितासु दशनार्गणासु प्रत्येकमित्यर्थः । कथम् ? इतिचेद् , पद यस्याध्रुवत्वे सति तदीयैकजीवाश्रयोत्कृष्टकालस्य संख्येयसमयत्वाद्वन्धकपरिमाणस्याऽप्युत्कृष्टतः संख्येयत्वाच्चेति ।
___ अथ शेषमार्गणासु प्रस्तुताऽसंख्यभागवद्धिहानिपदद्वयस्याध्वत्वेऽपि तदीयैकजीवाश्रयोत्कृष्टकालस्य संख्येयसमयमात्रत्वेऽपि च न तद्वन्धकपरिमाणं संख्येयम् , किन्त्वसंख्येयम् , अतस्तदीयनानाजीवाश्रयोत्कृष्टबन्धकाल औधिकसंख्येयभागवद्धिहानिनानाजीवाश्रयोत्कृष्टबन्धकालबदावलिकाऽसंख्येयभागप्रमाणः प्राप्यत इत्यतस्तथैवाह-"सेसासु सत्तण्ह"मित्यादि, गतार्थम् ।।
शेषमार्गणानामानि त्वेवम्-सर्वे निरयगतिभेदाः, सर्वे तिर्यक्पञ्चेन्द्रियभेदाः, मनुष्योघा-ऽपर्याप्तमनुष्यभेदी, सर्वार्थसिद्धविमानभेदवर्जा एकोनत्रिंशदेवगतिभेदाः, सर्वे विकलेन्द्रियभेदाः, सर्वे पञ्चेन्द्रियभेदाः, बादरपर्याप्ताः पृथिव्यप्तेजोवायुकायिकभेदाः, पर्याप्तप्रत्येकवनस्पतिकायभेदः, त्रयोऽपि त्रसकायभेदाः, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रिय-तन्मिश्रकाययोग पुरुषवेद-स्त्रीवेद--मति-श्रता-ऽवधिज्ञान-विभङ्गज्ञान--देशसंयम--चक्षुर--बधिदर्शन-तेजः--पद्म-शुक्ललेश्यासम्यक्त्वौघ-क्षायिक-क्षायोपशमिको-पशमिकसम्यक्त्व-सासादन-मिश्र-संज्ञिमार्गणाश्वेति ८००-८०२
तदेवमभिहितः सर्वमार्गणास्थानेषु सप्तानामसंख्येयभागवद्धिहानिलक्षणपदद्वयस्य नानाजीवाश्रयजघन्योत्कृष्ट द्विविधकालः । इदानीं संख्येयगुण-संख्येयभागवृद्धिहानि सत्पदानां तमाह
सव्वासु सत्तण्हं संखियभाग-गुणवडिढहाणीणं । समयो होइ जहण्णो परमो समया उ संखेज्जा ॥८०३॥ पज्जमणुस-मणुसीसुसवत्था-ऽऽहारदुग-अवेएसु। मणपज्जव-जइ-समइअ-छेअग-परिहार-सुहुमेसु॥८०४॥ मेसासु सत्तण्हं संखियभागगुणवड्ढिहाणीणं । परमो णेयो भागो आवलिआए असंखयमो ॥८०५॥
(प्रे०) “सव्वासु सत्तण्ह" मित्यादि, यासु निरयगत्योघादिमागंणासु “सत्तण्ह" त्ति आयुवेर्जानां सप्तान्यतमानां बन्धप्रायोग्यमूलप्रकृतीनां संख्येयभाग-संख्येयगुणवृद्धिहानीनामन्यतमपदानि सत्पदबारे सद्भतान्यभिहितानि तासु निरयगत्योधादिसर्वमार्गणासु तासां सप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org