________________
मार्गणास्वसंख्यभागस्थितिवृद्धिहानिकाल० ] वृद्धथधिकारे कालद्वारम्
[ ५११ भणितोऽतिदिष्टशेषः ज्ञानावरणादीनां सप्तानामसंख्येयभागस्थितिबन्धवृद्धयादितत्तत्पदानां नानाजीवाश्रयो बन्धकाल ओघतः । अथ स एवादेशतो व्याजिहीर्ष रादौ यास्वसंख्यभागवद्धिहान्योः स सर्वाद्धा, तास तयोस्तथैव दर्शयन्नाह
तिरिये सव्वेगिंदियणिगोअ-सेससुहमेसु वणकाये। • पुहवाइचउसु तेसिं बायर-बायरअपज्जेसु॥७९७॥
पत्तेअवणे तस्स अपज्जत्ते कायु-रालियदुगेसु। कम्मण-णपुसगेसु कसायचउगे अणाणदुगे ॥७९८॥ अयता-ऽचक्खूसु तहा अपसत्थतिलेस-भवियेसु। अभविय-मिच्छत्तेसु असण्णि-आहारगियरेसु॥७९९॥ (उपगीतिः) सत्तण्हं सव्वद्धा अत्थि असंखंसवढिहाणीणं ।
(प्रे०) "तिरिये सव्वेगिदिये” इत्यादि, तत्राघगाथात्रयेण तिर्यम्गत्योगादिचतुःषष्टिमार्गणाः संगृहीताः, चतुर्थगाथापूर्वार्धेन तु तासु चतुःषष्टिमार्गणास्वायुर्वर्जानां सप्तानां स्थितिबन्धविषययोरसंख्यांशवृद्धि हान्यो नाजीवाश्रितः कालः सर्बाद्धाऽस्तीति प्रतिपादितम् । तत्राधगाथात्रयस्याक्षरार्थस्त्वत्रैवाधिकारे क्षेत्रद्वारोक्तद्वितीय-तृतीय-चतुर्थगाथाक्षरार्थेन तुल्य एव,तस्मात्तत एव द्रष्टव्यः । चतुर्थगाथापूर्वार्धस्य तूक्तः । भावार्थोऽप्योधिकगाथाद्वयविवरणाद्वयाख्यातप्राय इति ॥७९७-७९८-७९९।।
अथ शेषमार्गणासूक्तकालोऽसर्वाद्धेत्यर्थाद्गम्यते, न पुनर्गम्यतेऽसौ जघन्यतः कियान् उत्कृष्टतश्च कियानिति, अतस्तजघन्योत्कृष्टभेदतो दर्शयन्नाह
सेसासु लहू समयो परमो समया उ संखेज्जा ॥८००॥ पज्जमणुस-मणुसीसुसब्बत्था-ऽऽहारजुगलजोगेसु। मणणाण-संयमेसु समइअ-छेअ-परिहारेसु॥८०१॥ सेसासु सत्तण्ह अस्थि असखंसवढिहाणीणं ।
परमो कालो भागो आवलिआए असंखयमो ॥८०२॥ (प्रे०) "सेसासु लहू" इत्यादि, तियग्गत्योधादिचतुःषष्टिमार्गणा विवर्य सेसासु यासु सप्तान्यतमानामसंख्यभागवृद्धिहानिलक्षणपदद्वयं सत्तासु तस्याऽसंख्यभागवृद्धिहानिपदद्वयस्य प्रत्येक 'लघुः' - जघन्यो नानाजीवाश्रितः कालः समयो भवतीत्यर्थः । अयं हि सर्वथैवौषवरोद्धव्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org