________________
५९० ]
बंधविहाणे मूलपयडिठिइबंधो [चतुर्विधस्थितिवृद्धिहानिकालोपपत्ति इति तु सुगमः । बन्धकानां ध्रुवत्वस्य सर्वाद्धाया अन्तराभावस्य च कथञ्चिदनतिरेकात् । अत एव ओघतः सप्तानामसंख्यभागवृद्धिहान्यो नाजीवाश्रयकालः सर्वाद्धा प्रतिपादितः । तिर्यग्गत्योघादिचतुःषष्टिमार्गणास्थानेषु भङ्गविचयद्वारे-............सत्तण्णं णायव्या ओघव्व सगसगवड्ढिहाणीओ' इत्यनेन तद्वन्धकानामतिदेशेनौघवदभिधानात् 'तिरिये सव्वेगिंदियणिगोअ-सेसमुहुमेसु वणकाये । पुइवाइचउसु तेसिं बायर-बायरअपज्जेसु ॥७९८|| पत्तेअवणे तस्स अपज्जत्ते कायुरालियदुगेसु। कम्मण-णपुसगेसु कसायचउगे अणाणदुगे ॥७९८।। अयताऽचक्खू सु तहा अपसत्थतिलेस-भवियेसु । अभविय-मिच्छत्तेसु असण्णि-आहारगियरेसु ॥७९९॥ सत्तण्हं सव्वद्धा अत्थि असंखंसवड्ढिहाणीणं'। इत्यनेन तत्रापि सप्तानामसंख्यभागवद्धिहानीनामसौ सर्वाद्धा प्रतिपादयिष्यते च ।
यत्र पुनर्मार्गणादायुक्तान्यतमव द्वयादिपदस्य बन्धका भङ्गविचयद्वारे ध्रवा न कथिताः, किन्तु तदीयबन्धकपरिमाणस्याऽसंख्यलोकप्रदेशपरिमाणात्स्तोकतयाऽध्रवा प्रतिपादिताः, तत्र तु तस्य वृद्धयादिपदस्य नानाजीवाश्रयकालः सावधिकः, सादिसान्तभङ्गगत एवेति भावः । तथा सति स जघन्योत्कृष्टभेदेन लभ्यते, स च तस्य वृद्धयादिपदस्य बन्धकपरिमाणमसंख्येयं भवतु संख्येयं वा तदाऽपि जघन्यतस्तदीयैकजीवाश्रयजवन्यबन्धकालवत्समयमात्र एवं प्राप्यते, न पुनरधिकः । अत एवोघतः सप्तानामसंख्येयभागवृद्धिहानिवर्जशेषवृद्धिहानिसत्पदानामसौ समयमात्रोऽभिहितः, मार्गणास्थानेष्वपि- ‘सेसासु लहु समयो' इत्यादितत्तद्ग्रन्थेनासौ जघन्यकालः समयमात्रोऽभिधास्यते च । स च द्वितीयाधिकारनानाजीवाश्रयकालद्वारे उत्कृष्टस्थितिबन्धस्य जघन्यकालोपपत्तो दर्शितनीत्याऽभ्यूयः । तस्यैवोत्कृष्टकालस्तु तदीयबन्धकपरिमाणावधीनः सन् पूर्वोतरीत्यैव कुत्रचिदावलिकाऽसंख्यभागः, कुत्रचित्संख्येयाः समया इत्येवं यथासम्भवं प्राप्यते ।
एतदुक्तं भवति-यत्र मार्गणादौ तस्याऽसंख्येयभागवृद्धयायध्रुवपदस्यैकजीवाश्रय उत्कृष्टकालः संख्येयसमयमात्रः, तदीयबन्धकपरिमाणमुत्कृष्टपदेऽसंख्येयं च तत्र तदीयनानाजीवाश्रय उत्कृष्टकालः कार्मणकाययोगमार्गणोक्ताऽऽयुवेर्जसप्तकर्मोत्कृष्टस्थितिबन्धनानाजीवाश्रयोत्कृष्टकालज्ञातेनाऽऽवलिकाऽसंख्यभागमात्रः सम्पद्यते । यत्र पुनस्तादृग्वृद्धयाद्यध्रध्रवपदस्यैकजीवाश्रयोस्कृष्टकालस्य संख्येयसमयत्वेऽपि तदीयवन्धकपरिमाणं नाऽसंख्येयम् , किन्तु संख्येयमेव, तत्र तु तदीयनानाजीवाश्रय उत्कृष्टबन्धकालः संख्येयाः समया एवं प्राप्यते, नाधिकः । अत एवौघत आयुर्वर्जसप्तप्रकृतीनां संख्येयभागवृद्धिहानि-संख्येवगुणवृद्धिहानिलक्षणचतुर्विधस्थितिबन्धकानां प्रत्येकं नानाजीवाश्रयोत्कृष्टकाल आवलिकाऽसंख्यभागस्तथा तासामेव सप्तानामसंख्येयगुणवृद्धिहानिलक्षणयोर्द्वयोः सन्पदयोः प्रत्येकं नानाजीवाश्रयोत्कृष्टकालः संख्येयाः समया एव कथितः, मार्गणाम्थानेष्वऽपि 'परमो समया उ संखेज्जा पज्जमणुस-मणुसीसु' मित्यादितत्तत्सन्दर्भेण तत्तद्धयादिपदानां नानाजीवाश्रयोत्कृष्टकालः संख्येयसमयादिः प्रतिपादयिष्यते च, सोऽपि द्वितियाधिकारनानाजीवाश्रयकालद्वारप्रेमप्रभादर्शितनीत्या विभायनीयः स्वयमेवेति ॥७९५-७९६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org