________________
ओतश्चतुर्विधस्थितिवृद्धिहानिकाल० ] वृद्धयधिकारे कालद्वारम्
[ ५८९
तदेवं दर्शितौघादेशभेदतो मूलकर्मणां स्थितिबन्धवृद्ध्यादिसत्पदानां स्पर्शना, तथा च कृते गतं नवमं स्पर्शनाद्वारम् ।।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे नत्रमं स्पर्शनाद्वारं समाप्तम् ॥
*
॥ अथ दशमं कालद्वारम् ॥
अधुना नानाजीवाश्रितं कालद्वारम् । तत्रातिदिष्टशेपज्ञानावरणादिमूलप्रकृतिस्थितिबन्धासंख्यभागादिवृद्धिहानीनां नानाजी वाश्रितं कालं जघन्योत्कृष्टभेदतो विभणिषुरादौ तावदोघत आहसत्तण्हं सव्वद्धा अस्थि असंखंसवदिहाणीणं ।
समयो होड़ कणिट्ठो सेसाणं वडिहाणीणं ॥ ७९५॥ आवलिआ संखंसो संखियभागगुणवडिहाणीणं । परमो संखियसमया असंखगुणवडिहाणीणं ॥ ७९६॥
(प्रे० ) "सत्तण्हं सव्वडा" इत्यादि, आयुषो द्विविधयोरपि स्थितिबन्धसत्पदयोर्नानाजीवाश्रयकालस्यात्रैवाऽधिकारे प्रथमे सत्पदद्वारे लाघवार्थमतिदिष्टत्वादायुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकं" सव्वडा अस्थि असंखं सवड्ढिहाणीणं" ति असंख्यांश स्थितिबन्धवृद्ध्य संख्यांशस्थितिबन्धहानिलक्षणयो द्वयोः पदयोर्नानाजीवाश्रयकाल : 'सर्वाद्धा' - -अनाद्यनन्तो भवति ।
अथ शेषवृद्धिहानीनां कालो न सर्वाद्धा. किन्तु सावधिकः, ततोऽसौ जघन्यादिभेदेनाह“समयो" इत्यादि, प्रस्तुतसप्तप्रकृतीनामेव " से साणं वडिहाणीणं" ति उक्तशेषाणां संख्येयभागसंख्येयगुणाऽसंख्येयगुणभेदभिन्नानां त्रिविधवृद्धीनां त्रिविधहानीनां च प्रत्येकं नानाजीवाश्रयः "कणिट्ठो' त्ति 'कनिष्ठ : ' - जघन्यः कालः 'समय: समयमात्रो भवति । उक्तो जघन्यतः, अथोत्कृष्टत आह- "आवलिआऽसंखंसो संखियभागगुणवड्ढिहाणीणं परमो" त्ति संख्येयभागसंख्येयगुणवृद्धि-संख्येयभाग-संख्येयगुणहानिलक्षणानां चतुर्णां स्थितिबन्धसत्पदानां 'परम:' - उत्कृष्टो नानाजीवाश्रयः काल आवलिकाऽसंख्य भागमाणः, भवतीत्यावर्तते । "संखियसमया असंखगुणवडिहाणोणं” ति उक्तशेषयोः सप्तानामसंख्यगुणस्थितिबन्धवृद्धिहान्योः प्रत्येकं नानाजीवाश्रय उत्कृष्टः कालः संख्येयाः समया भवतीत्यक्षरार्थः ।
1
भावार्थस्वयम् - ओघतो मार्गणास्थानेषु वा यत्र कुत्रचिज्ज्ञानावरणादिसप्तान्यतमप्रकृतेरन्यतमवृद्धयादिसत्पदस्य बन्धका भङ्गविचयद्वारवृत्तौ दर्शितरीत्या ध्रुवं प्राप्यन्ते तत्र मार्गणादौ तस्याः प्रकृतेस्तस्याऽसंख्येयभागस्थितिबन्धवृद्ध्यादिपदस्य नानाजीवाश्रयः कालः सर्वाद्धा प्राप्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org