________________
५८८ ]
बंधवहाणे मूल डिठिइबंधो [ असंख्यगुणस्थितिवृद्धिहानिबन्धकस्पर्शना०
"
ओघतः प्रस्तुतत्रिविधवद्धिहानिबन्धकैः प्रत्येकं सर्वलोकः स्पृष्टः । आदेशतस्तु नरकगत्योघमार्गणायां तैस्त्रिविधवृद्धिहानिबन्धकैः प्रत्येकं त्रसनायाः षट्चतुर्दर्शभागाः स्पृष्टाः । एवमेव सप्तमपृथिवी नरकभेदे, आनत-प्राणता - ऽऽरणाऽच्युतकल्परूपेषु चतुषु देवगतिमार्गणाभेदेषु शुक्ललेश्यामार्गणायां च बोद्धव्यम् । प्रथम पृथिवीनरकभेदे पुनरधिकृत स्थितिधबन्धकानां स्पर्शना लोकासंख्यभागमात्रा प्राप्यते । यथा प्रथमपृथिवीनरकभेदे तथा नवषु ग्रैवेयकभेदेषु पञ्चष्वनुत्तरविमानभेदेषु, वैकिय मिश्रकाययोगे, आहारका ऽऽहारकमिश्रकाययोगयोः, अपगतवेदमार्गणायाम्, तथा मनःपर्यवज्ञान-संयमौध-सामायिक - छेदोपस्थापन - परिहारविशुद्धिक-सूक्ष्मसम्पराय संयममार्गणास्वपि त्रिविधवृद्धिहान्यन्यतमसत्पदस्य बन्धकैः कृता स्पर्शना लोकासंख्यभागमात्रा बोद्धव्या । द्वितीयपृथिव्यादिषष्ठपृथिव्यन्तेषु पञ्चषु नरकभेदेषु पुनः क्रमेणैका, द्वे, तिस्रः, चतस्रः, पञ्च च रज्जनः स्पर्शना त्रिविधवृद्धिहानिबन्धकानामपि भवति । देवगत्योघे भवनपत्यादीशान कल्पान्तेषु देवगति भेदेषु तेजोलेश्यामार्गणायां च त्रिविधवृद्ध्यादिबन्धकानां प्रत्येकं त्रसनाड्या नव चतुर्दशभागाः स्पर्शना लभ्यते । वैक्रियकाययोगमार्गणायां तु तेषां त्रिविधवृद्धिहान्यन्यतमत्रन्धकानां प्रत्येकं त्रयोदश रज्जवः स्पर्शना सम्पद्यते । देशसंयममार्गणायां पञ्च रज्जवः, सासादनमार्गणायां द्वादश रज्जवः स्पर्शना, सनत्कुमारादिसहस्रारान्तेषु षट्षु देवगतिभेदेषु मति श्रुताऽवधिज्ञाना- ऽवधिदर्शन- पद्मलेश्या-सम्यक्त्वौघक्षायिकसम्यक्त्व-वेदकसम्यक्त्वौपशमिकसम्यक्त्व-मिश्रदृष्टिरूपासु पांडपमार्गणासु प्रत्येकं त्रिविधवृद्धिहान्यन्यतमबन्धकानां स्पर्शना त्रसनाड्या अष्ट चतुर्दशभागाः, अर्थादष्टौ रज्जवः प्राप्यते । उक्तशेषासु तिर्यग्गत्योघादिषु सप्ताभ्यधिकशतमार्गणासु तु प्रस्तुतासंख्यगुणवृद्धिहानिवर्जान्यतमवृद्धिहानिबन्धकानां स्पर्शनौघवत्सर्वलोको भवति । इदं ह्यतिदेशफलं दर्शितम्; भावना तु प्रत्येकं भूयस्काराल्पतरस्थितिबन्धकस्पर्शनावृत्यनुसारेण स्वयमेव द्रष्टव्येति || ७९३ || अथातिदिष्टशेषयोः सप्तानामसंख्यगुणवद्धिहान्योर्वन्धकानां स्पर्शनामाहसत्तण्ह बंधगेहिं होइ असंखगुणवडिहाणीणं । लोगासंखियभागो पुst एमेव जहि ताऽत्थि ॥ ७९४ ॥
(प्रे०) “सत्तण्ह” इत्यादि, आदेशत आयुर्वर्जानां सप्तानां मूलप्रकृतीनां "असंखगुणवड्ढिहाणिणं” ति असंख्यगुणस्थितिबन्धवृद्धिहान्योर्यन्धकैः "लोगाऽसंखियभागो पुट्ठो" त्ति लोकस्याऽसंख्येयतमैकभागः स्पृष्टः, भवतीति पूर्वेणान्वयः । अथ मार्गणास्थानेष्वपि प्रस्तुतविन्धकानां स्पर्शनघतुल्यैवाऽतोऽतिदेशेनाह - "एमेव" त्ति 'एवमेव ' ओघवल्लोका संख्यभागः प्रस्तुत वृद्धिहान्योर्बन्धकैः स्पृष्ट इत्यर्थः । कासु मार्गणास्त्रित्याह - “जहि ताऽत्थि" 'यत्र' यासु मनुष्यत्योघादिमार्गणा ते द्वे वृद्धिहानी 'स्तः' वियेते, सत्पदद्वारे तयोरस्तित्वं प्रतिपादितं तासु मनुष्यगत्योघादिचतुश्चत्वारिंशन्मार्गणा स्वित्यर्थः || ७९४।। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org