________________
त्रिविधस्थितिवृद्धिहानिबन्धकस्पर्शना] वृद्धयधिकारे स्पर्शनाद्वारम्
. [५८७ सूक्ष्मसम्परायसंयममार्गणायामपि तथैव व पदे, नवरं षण्णां कर्मणाम् ।
अपगतवेदमार्गणायां पुनर्मोहनीयवर्जानां घातिकर्मणां प्रत्येकं निरयगत्योघादिमार्गणावच्चत्वारि पदानि, मोहनीयकर्मणस्तु संख्येयभागवृद्धिहानिलक्षणे व पदे, त्रयाणामघातिनां तु मनुष्यगत्योघादिवत्लट पदान्यवशिष्टसत्पदतया भवन्तीति ।।७९२।।। ____ तदेवं प्रतिपादितं मार्गणास्थानेष्वपि ज्ञानावरणादेव द्धयादिस्थितिबन्धसत्पदानां बन्धकक्षेत्रम् । तस्मिंश्च प्रतिपादिते गतमष्टमं नानाजीवाश्रितं क्षेत्रद्वारम् ॥
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारेऽष्टमं क्षेत्रद्वारं समाप्तम् ।।
॥ अथ नवमं स्पर्शनाद्वारम् ॥ अथ क्रमलब्धे स्पर्शनाद्वारे ज्ञानावरणादीनामसंख्यभागादिस्थितिबन्धवृद्धयादिबन्धकानाम् 'आसिज्ज अईअद्धं परूवणा उण फरिसणाए' इत्यनेनात्र ग्रन्थेऽधिकृतां स्पर्शनां प्रतिपिपादयिषुलाघवार्थमादौ तावदसंख्यगुणस्थितिबन्धवृद्धिहानिवर्जपदानां तामतिदेशेनाह
ओघेणाएसेण वि हवेइ तिविहाण वढिहाणीणं । सत्तण्ह बंधगाणं भूओगारव्व उ फरिसणा ॥७९३॥ (प्रे०) "ओघेणाएसेण वि" इत्यादि, 'ओघेन'-सामान्येन स्पर्शनाचिन्तायाम् । न केवलमोघेन । किं तर्हि ? "आएसेण वि" त्ति 'आदेशेन'-विभागेन, मार्गणास्थानान्यधिकृत्य चिन्ताविषयीकृतेऽपीत्यर्थः । उभयथाऽपि किमित्याह-"हवेह" इत्यादि, "सत्तण्ह" ति शेषाणां ज्ञानावरणादीनां सप्तानां मूलप्रकृतीनाम् “तिविहाण वढिहाणीणं" ति स्थितिबन्धविषयानामसंख्यगुणवृद्धिहानिवर्जानामसंख्येयभाग-संख्येयभाग-संख्येयगुणभेदभिन्नानां त्रिविधानां वद्धीनां त्रिविधानां हानीनां च "बंधगाण” ति 'बन्धकानां -निर्वर्तकानाम् "भूओगारव्व उ फरिसणा" ति ‘कालं उ वट्टमाणं'इत्यादिगाथोत्तरार्धेन प्रागुक्तस्वरूपा प्रस्तुतग्रन्थेऽधिकृता क्षेत्रद्वारोक्तक्षेत्रापेक्षया विलक्षणा नानाजीवनानाकालसव्यपेक्षा स्पर्शना भूयस्कारवदेव, भवतीति पूर्वेण योगः । यथा भूयस्काराधिकारे सप्तानां भूयस्कारस्थितिबन्धकानां स्पर्शनोक्ता तथा प्रकृते सप्तानां त्रिविधवद्धिबन्धकानां, यथा च तत्राल्पतरबन्धकानां स्पर्शनाऽभिहिता तथाऽत्र त्रिविधहानिबन्धकानां प्रत्येकं सा भवतीत्यक्षरार्थः ।
भावार्थस्त्वयम्-आयुर्वर्जसप्तकर्मणां भूयस्काराल्पतरस्थितिबन्धवदोघत आदेशतश्चाधिकृतवृद्धिहानयोऽपि मारणसमुद्घाताद्यवस्थाविशेषेष्वपि जीवानां संभवन्ति,ततश्च मारणान्तिकसमुद्घातादिप्रयुक्ताऽपि स्पर्शना भूयस्काराल्पतरस्थितिबन्धवत् प्रस्तुतवृद्धिहानिबन्धकानां प्राप्यते । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org