SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ५८६ ] बंधविहाणे मूलपयडिठिइबंधो [तत्तत्स्थितिवृद्धिहानिबन्धकक्षेत्र० ___ (प्रे०) "सेसासु" इत्यादि, अनन्तरोक्तास्तिर्यग्गत्योधादिचतुःषष्टिमार्गणास्तथा बादरापर्याप्तवायुकाया-ऽपगतवेद-सूक्ष्मसम्परायसंयममार्गणाः परित्यज्य शेषासु नरकगत्योघादिषु व्युत्तरशतमार्गणासु सप्तानामसंख्यभागस्थितिबन्धवृद्धिहान्योरेकैकस्या बन्धकाः “असंखंसे लोगस्स हवन्ति' ति लोकस्यासंख्येयतम एकस्मिन्नंशे भागे भवन्ति, यत आसु शेषमार्गणास सर्वलोकक्षेत्रप्रयोजकानां सूक्ष्मपथिव्यादिजीवानां देशोनलोकक्षेत्रप्रयोजकानां बादरपर्याप्तवायुकायजीवानां वा प्रवेशो नास्ति, शेषास्तु प्रविष्टजीवा मारणान्तिकसमुद्घातादिनाऽपि लोकासंख्येयभागमात्रव्यापिनः, अतः प्रस्तुतबन्धकक्षेत्रमपि लोकासंख्येयभागादधिकं नैव प्राप्यते । विशेषतस्तु द्वितीयाधिकारक्षेत्रवारप्रेमप्रभानुसारेण स्वयमेव भावनीयम् । सप्तप्रकृतिसत्कोक्तशेषाणां संख्येयभागसंख्येयगुणा-ऽसंख्येयगुणस्थितिबन्धवृद्धि हानीनां प्रत्येकं बन्धकक्षेत्रमोघतो लोकासंख्यभागमात्रं प्राप्यतेऽतो मार्गणास्थानेष्वपि तासां बन्धकक्षेत्र लोकासंख्यभागप्रमाणादधिकप्रमाणं न सम्भवतीत्यतस्तत्तथैव दर्शयन्नाह-"जासु सेसाओ" इत्यादि, नरकगत्योघादिषु यासु यासु मार्गणासु "सेसाओ" ति सप्तानामसंख्यभागवद्विहान्योर्वन्धकक्षेत्रस्यानन्तरमेवाभिहितत्वात् ते असंख्यभागवृद्धिहानी परित्यज्य याः शेषान्यतमा वद्धयो हानयश्च "अत्थि" ति सन्ति, प्राक्सत्पदद्वारे सत्तया प्रतिपादिता इत्यर्थः । खलुशब्दोऽवधारणे, स च "तासु" इत्यस्योत्तरं योज्यस्ततस्तासु नरकगत्योपादिमार्गणास्वेव "तासिं" ति तासां सत्तयाऽभिहितानां शेषान्यतमवद्धिहानीनामपि प्रत्येकम् “एमेव" ति एवमेव, बन्धका लोकस्यासंख्येयतमैकभागे भवन्तीत्यर्थः । ___अत्र शेषमार्गणासु सप्तानां शेषवृद्धिहानिसत्पदानि पुनरित्थमवसेयानिसर्वे निरयगतिभेदाः, सर्वे तिर्यग्गतिभेदाः, अपर्याप्तमनुष्यः, सर्वे देवगतिभेदाः,अपर्याप्ती पञ्चेन्द्रियत्रसकायो, औदारिकमिश्र वैक्रिय-तन्मिश्रा-ऽऽहारक-तन्मिश्र-काणिकाययोगाः, अज्ञानत्रयम् , परिहारविशुद्धिकसंयम-देशसंयमा-ऽसंयममार्गणाभेदाः, कृष्णादिलेश्यापञ्चका-ऽभव्य-क्षायोपशमिकसम्यक्त्व-सास्वादन-सम्यग्मिथ्यात्व-मिथ्यात्वा-संश्य-ऽनाहारकमार्गणाभेदाश्चेत्येतासु निरयगत्योघादिसप्ततिमार्गणासु प्रत्येकं संख्येयभाग-संख्येयगुणवृद्धि-तादृग्हान्यात्मकानि चत्वारि पदानि । ____ मनुष्यगत्योध-पर्याप्तमनुष्य-मानुषी-पञ्चेन्द्रियोघ-तत्पर्याप्तत्र-सौघ-तत्पर्याप्त-पञ्चमनोयोगपञ्चवचोयोग-काययोगसामान्यो-दारिककाययोग-वेदत्रय-कषायचतुष्क-मत्यादिज्ञानचतुष्क-संयमोघसामायिक-छेदोपस्थापनीयसंयम-चक्षुरादित्रिदर्शन-शुक्ललेश्या-भव्य-सम्यक्त्वौघ-क्षायिको-पशमिकसम्यक्त्व-संख्या-ऽऽहारकमार्गणारूपासु मनुष्यगत्योचादित्रिचत्वारिंशन्मार्गणासु तु संख्येयभागसंख्येयगुणा-ऽसंख्येयगुणवृद्धि-तादृग्हानिलक्षणानि षट् पदानि । ओघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नद्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियलक्षणविकलेन्द्रियसत्कनवमार्गणास्थानेषु पुनः प्रत्येकं संख्येयभागवृद्धिहानिलक्षणे द्वे पदे । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy