________________
मार्गणासु तत्तस्थितिवृद्धिहानिबन्धकक्षेत्र० ] वृद्धयधिकारे क्षेत्रद्वारम्
[५८५ तिरिये सव्वेगिंदियणिगोअ-सेससुहमेसु वणकाये । पुहवाइचउसु तेसिं बायर-बायरअपज्जेसु॥७८८॥ पत्तेअवणे तस्स अपज्जत्ते कायु-रालियदुगेसु। कम्मण-णपुंसगेसुकसायचउगे अणाणदुगे ॥७८९॥ अयता-ऽचक्खूसु तह अपसत्थतिलेस-भवियेसु। अभविय-मिच्छत्तेसु असण्णि-आहारगियरेसु॥७९०॥ (उपगीतिः)
सत्तण्ह सबलोगे अत्थि असंखंसवढिहाणीणं । (प्रे०) "तिरिये सव्वेगिंदिये"त्यादि, प्राग्वत् तिर्यग्गत्योघे, सर्वेकेन्द्रिय-सर्वनिगोदशेषद्वादशसूक्ष्मपथिव्यादिमार्गणाभेदेषु, वनस्पतिकायोघे, पृथिव्यादिवायुकायान्तेषु चतुर्दोषभेदेषु, "तेसिं" ति तेषां पृथिव्यादीनां चतुर्णाम् "बायरबायरअपज्जेसु" ति ये चत्वारो बादरौघभेदाश्चत्वारश्च बादरापर्याप्तभेदास्तेषु बादरबादरापर्याप्तपृथिव्यादिरूपेष्वष्टभेदेषु, काययोगसामान्योदारिको-दारिकमिश्रकाययोगेषु, कार्मणकाययोग-नपुसकवेदयोः, क्रोधादिकषायचतुष्के, मत्यज्ञानश्रुताज्ञानयरूपेऽज्ञानदिके, असंयमा--ऽचक्षुर्दर्शनयोः । तथाशब्दः समुच्चये । अप्रशस्तकृष्णादित्रिलेश्या-भव्येषु, अभव्य-मिथ्यात्वयोः, असंड्या-ऽऽहारि-तदितरानाहारिमार्गणास्वित्येतासु चतुःषष्टिमार्गणासु कुत्रचित् स्वस्थानतः सर्वलोकव्यापिनां सूक्ष्मैकेन्द्रियजीवानां प्रवेशात्, कुत्रचिद्धादरपृथिव्यायोघभेदेषु तेषामप्रवेशेऽपि मारणसमुद्घातेन सर्वलोकव्यापिनामपर्याप्तवादरपृथिवीकायादीनां प्रवेशात् तेषां सप्तकर्मसत्कासंख्येयभागस्थितिबन्धवृद्धिहान्योः स्वामित्वाच्च तद्वन्धकक्षेत्रं सर्वलोकः प्राप्यत इत्यत उक्तम्-“सत्तण्ह सव्वलोगे” इत्यादि, गतार्थमिति ।।७८८-७९०॥
पादरपर्याप्तवायुकायमार्गणायामधिकृतवृद्धयादिबन्धकक्षेत्रमाह
बायरसमत्तवाउम्मि हुन्ति देसूणलोगम्मि ॥७९१॥ (प्रे०) “वायरसमत्ते"त्यादि, सप्तकर्मणां स्थितिबन्धविषययोरसंख्यभागवृद्धिहान्योः प्रत्येक बन्धका बादरपर्याप्तवायुकायमार्गणायां देशोनलोके भवन्ति । कुतः ? असंख्यलोकाकाशप्रदेशराश्यपेक्षया स्तोकानामपि बादरपर्याप्तवायुकायानां स्वस्थानक्षेत्रस्य देशोनलोकत्वादिति ॥७९१॥
अथोक्तशेषवृद्धिहानिबन्धकक्षेत्रं दिदर्शयिषुरेकां गाथामाहसेसासु असंखंसे लोगस्स हवन्ति जासु सेसाओ। अत्थि खलु वढिहाणी तासु तासिं वि एमेव ॥७९२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |