________________
५८४ ]
वाणे मूलvasosबंधो [ ओघतस्तत्तस्थितिवृद्धिहानिबन्धकक्षेत्र ० शेषासु त्रिंशदुत्तरशतमार्गणासु प्रत्येकं "बंधगा सिं" ति तयोरनन्तराभिहितयोः सप्तकर्मस्थितिबन्धसत्कयोरसंख्यभागवृद्धिहान्योः प्रत्येकं बन्धकाः " जाणेयव्वा असंखेज्जा" त्ति असंख्येया ज्ञातव्याः । गतार्थमिति ।। ७८४-७८६ ।।
तदेवमभिहितं मार्गणास्थानेष्वपि शेषसप्तानामसंख्यभागादिस्थितिबन्धवृद्धिहानि सत्पदानां प्रत्येकमुत्कृष्टपदगतं परिमाणम्, तस्मिँश्राभिहिते गतं सप्तमं परिमाणद्वारम् ||
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे सप्तमं परिमाणद्वारं समाप्तम् ॥
॥ अथाऽष्टमं क्षेत्रद्वारम् ॥
अथ क्रमप्राप्तं क्षेत्रद्वारम् । तत्रायुषः स्थितिबन्धविषययोहन्यवक्तव्ययोर्द्वयोरपि सत्पदयोः शेषज्ञानावरणादीनां सप्तानामवस्थानावक्तव्ययोर्द्वयोः सत्पदयोश्च बन्धकक्षेत्रस्य प्रागत्रैव वृद्ध्यधिकारे सत्पदद्वारेऽतिदिष्टत्वात् सप्तकर्मणां शेषवृद्धिहानीनां बन्धकक्षेत्रं दर्शयन्नाह - सत्तण्ह सव्वलोगे अस्थि असंखंसवडहाणीणं । लोगाऽसंखियभागे सेसाणं वडिहाणीणं ॥ ७८७ ||
(प्रे०) “सत्तण्ह”मित्यादि, आयुर्वर्जसप्तप्रकृतीनां प्रत्येकम् “असंखंसवडिढहाणीणं” ति प्रकृतत्वादसंख्यांशस्थितिबन्धवृद्धिहान्योः प्रत्येकं “सव्वलोगे अस्थि त्ति 'सर्वलोके - सम्पूर्णे जगति सन्ति, बन्धका इत्यनुवर्तते । सूक्ष्मैकेन्द्रियजी नानामपि प्रकृतवृद्धिहानिद्वयस्वामित्वात् तेषां सर्वलोकव्यापित्वाच्च सुष्ठक्तम् " सव्वलोगे" इति । अत्र क्षेत्रत्ररूपणाविषयभूतं क्षेत्र 'कालं उ बट्टमाणं पडुच्च खेत्ते परूवणा णेया' इति ग्रन्थोक्तसमय मात्रकालसम्बन्धि विज्ञेयम् ।
1
अथ शेषवृद्धिहानीनां बन्धकक्षेत्र माह - "लोगासंखियभागे" ति लोकस्यासंख्येयतमैकभागे "सेसाणं वड्ढिहाणीण" ति आयुर्वर्जसप्तकर्मणामुक्त वृद्धिहानिपदद्वयवनां शेणां संख्येयभाग-संख्येयगुणा-ऽसंख्येयगुणस्थितिबन्धवृद्धिहानिरूपाणां पण्णां पदानां प्रत्येकम्, बन्धकाः सन्तीत्यनुवर्तते । कथम् ? उच्यते, प्रस्तुतशेषवृद्धिहानीनां स्वस्थानस्वामिन एकेन्द्रियेतरजीत्रा एव सन्ति, असंख्यलोकप्रदेशराश्यपेक्षया स्तोकैस्तैः कस्मिन्नप्येकस्मिन् समये समग्रो लोको लोकबहुभागा वा पूरयितुं न शक्यन्ते, किन्तु समुद्घातादिनापि लोकासंख्येयभाग एव पूर्यते । एतच्च विस्तरतो द्वितीयाधिकारक्षेत्र द्वारप्रेमप्रभायां भावितमेव । इत्थमेवोत्तरत्रापि द्वितीयाधिकारक्षेत्रद्वारप्रेमप्रभादर्शितरीत्या विस्तरतः स्वयमेव भावनीयमिति || ७८७||
1
गतमोघतः । अथादेशतः प्रकृतस्थितिबन्धवृद्धयादिवन्धकानां क्षेत्रं व्याचिकीषु राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org