________________
मागणासु तत्तस्थितिवृद्धिानिबन्धकपरि० ] वृद्धयधिकारे परिमाणद्वारम्
[ ५८३ "सेसासु” त्ति अनन्तरोक्तद्वादशमार्गणा विवज्यं शेषासु मार्गणासु सप्तकर्मणां “संखियभागगुणवढिहाणीणं" ति संख्येयशब्दस्य भागगुणयोः प्रत्येक योजनात्संख्येयभागसंख्येयगुणवृद्धिहानिलक्षणचतुःपदानां "असंखेज्जा" त्ति बन्धका असंख्येयाः । अयम्भावः-उक्तचतु:पदानां स्वामिन एकेन्द्रियवर्जजीवा एव, ते चासंख्या इतिकत्वाऽसंख्येयजीवराशिकास्वनन्तजीवराशिकासु च मार्गणामु यत्रतेषामन्यतमपदानामस्तित्वं तत्र तेषां बन्धका अप्यसंख्येया एव लभ्यन्ते ।
तद्यथा-नरकगत्योघादिचतुर्विशत्युत्तरशतमार्गणासु यथा सम्भवं ज्ञानावरणादेस्तत्तत्कर्मणः संख्यातभागवृद्धिहानिपदे सद्भते उक्ते । तत्र पर्याप्तमनुष्यादिद्वादशमार्गणासु जीयानामेव संख्येयत्वात्तासु तयोर्वन्धका अप्यनन्तरमेव संख्येया अभिहिताः, अतस्ताः द्वादशमार्गणा विवर्य शेपासु द्वादशोत्तरशतमार्गणास प्रत्येकं संख्यातभागवद्धिहान्योर्बन्धका असंख्येयाः । संख्यातगुणवद्विहानी तु विफलेन्द्रियसत्कनवमार्गणास्वपि न भवतः, अतो द्वादशोत्तरशतमागंणाभ्यस्ता विकलेन्द्रियसत्कनवमार्गणाः परिहत्य शेषासु व्युत्तरशतमार्गणास्वेव तयोर्बन्धका असंख्येया ज्ञेया इति ।७८२-७८३।
अथोतपर्याप्तमनुष्यादिमार्गगा विहाय शेपासु सप्तानामसंख्यभागवृद्विहान्योर्वन्धकानां परिमाणं प्रकटयन्ना:
तिरिये वणकइम्मि य सव्वेगिंदियणिगोअकायेसु। उरलदुग कम्मणेसुणपुंसगे चउकसायेसु॥७८४॥ अण्णाणदुगे अयते अचक्खु-अपसत्थलेस-भवियेसु । अभविय-मिच्छत्तेसुअसण्णि-आहारगियरेसु॥७८५॥ सत्तण्ह खलु अणंता अस्थि असंखंसपड्ढिहाणीणं । सेमासु बंधगा सिं जाणेयवा असंखेज्जा ॥७८६॥
(प्रे०) “तिरिये" इत्यादि, तिर्यग्गत्योघे, वनस्पतिकायौधे, चः समुच्चये, सर्वशब्दस्यैकेन्द्रियनिगोदयोः प्रत्येकं योजनात् सर्वैकेन्द्रियजातिभेद-सर्वनिगोदवनस्पतिभेद-काययोगौघेषु, औदारिको दारिकमिश्र-कार्मणकाययोगे, मत्यज्ञान-श्रताज्ञान इये, असंयममार्गणायाम् , अचक्षुर्दर्शना-ऽप्रस्तकृष्णादित्रिलेश्या-भामार्गगामु, अभव्य-मिथ्यात्वमार्गणयोः, असंड्या-ऽऽहारि-दितरानाहारिमार्गणास्विन्येतास्वष्टत्रिंशन्मार्गणास प्रत्येकमायुर्वर्जानां सप्तानां मूलप्रकृतीनाम् "असंखंसवडिढहाणीण" ति असंख्यांशवृद्धिहान्योः “खलु अणंता अत्थि" त्ति खल्वधारणे, ततोऽसंख्यांशवृद्धिहान्योरेव बन्धका अनन्ताः सन्ति । कुतः ? साधारणवनस्पतिकायजीवानामप्यसंख्यांशस्थितिबन्धवृद्धि हानिस्वामित्वात् तेषां चैतास्वष्टत्रिंशन्मार्गणामु प्रत्येकं प्रवेशादिति । “सेसासु" त्ति प्रागुक्ताः पर्याप्तमनुष्यादिद्वादशमार्गणा अनुपदमुक्तास्तिर्यग्गत्योघाद्यष्टत्रिंशन्मार्गणाश्च विवर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org