Book Title: Thiaibandho
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 676
________________ वत्तस्थितिबन्धवृद्धयादयः केन भावेन] वृद्धयधिकारे भावद्वारम् [ ६०३ अवधिज्ञानदर्शनलक्षणेऽवधितिक प्रस्तुतं हान्यन्तरम् “अहियसमा" ति साधिकसमा,अभ्यधिकवर्षमानमेवेत्यर्थः । अत्रैव मार्गणाइये महाबन्धकाराभिप्रायेण प्रस्तुतहान्यन्तरं दर्शयन्नाह-"केह हायणपुहुत्त" ति 'केचित्'-महाबन्धकारा अवधिज्ञान-दर्शनलक्षणमार्गणाइये सप्तानामसंख्येयगुणहानिलक्षणस्य स्थितिबन्धविशेषस्य नानाजीवाश्रितमुत्कृष्टमन्तरं 'हायनपृथक्त्वं'-वर्षपृथक्त्वम् , वदन्तीति शेषः । अथ शेषमार्गणासु प्रस्तुतं हान्यन्तरमाह-"अवसेसमग्गणासु"मित्यादि, यास्वन्यतमस्याऽपि कर्मणोऽसंख्यगुणहानिपदं सद्भूतमभिहितं ताभ्यो मार्गणाभ्योऽनन्तराभिहिता मानण्यादिचतुर्दशमार्गणास्त्यक्त्वाऽवशेषासु मनष्यगत्योघादित्रिंशन्मार्गणासु तस्या ज्ञानावरणादेरसंख्यगुणहाने नाजीवाश्रितमुत्कृष्टान्तरं षण्मासा भवति । ताश्च मार्गणा इमाः-मनुष्योघपर्याप्तमनुष्यो, तथैव पञ्वेन्द्रियौघ-तत्पर्याप्तभेदो, त्रसकायौप-तत्पर्याप्तभेदौ, पञ्चमनोयोगपञ्चवचोगेग-काययोगसामान्यौ--दारिककाययोग--मतिज्ञान--श्रुतज्ञान-संयमौघ-सामायिकसंयमचक्षुर्दर्शना-ऽच दर्शन--शुक्ललेश्या--भव्य--सम्यक्त्वौघ--क्षायिकसम्यक्त्व-संख्या-ऽऽहारिमार्गणाश्चेति ॥८१५-८१६-८१७-८१८।। __ तदेवमभिहितं विभागेन मार्गणास्थानेष्वपि सप्तानामसंख्यभागवृद्धयादिसत्पदानां नानाजीवश्रिां जयन्योत्कृष्टभेदभिन्न बन्धान्तरम् , तथा च कृते गतमेकादशमन्तरद्वारम् ।। ।। इति श्रीवन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे एकादशं नानाजीवाश्रयमन्तरद्वारं समाप्तम् ।। ।। अथ द्वादशं भावद्वारम् ।। ___ एतर्हि क्रमप्राप्तस्य भावद्वारस्यावसरः, तत्र पूर्ववत् प्रस्तुतस्थितिबन्धवद्धयादिरप्यौदयिकेन भावेन प्रवर्तत इत्येतन्निजिगदिपुरेकामा माह भावेणोदइएणं बंधो सवाण वढिहाणीणं । सत्तण्हेमेव भवे सवढिहाणीण सव्वासु॥ ८१९ ॥ (प्रे०) "भावेणे"त्यादि, सुगमम् , केवलं “सव्वाण वढिहाणोणं सत्तण्ह" ति आयुषोऽसंख्यभागहानेस्तदीयावक्तव्यबन्धस्य तथाऽऽयुर्वर्जानां सप्तमूलप्रकृतीनामवस्थिताऽवक्तव्यस्थितिबन्धयोः सत्पदादिभावद्वारान्तद्वादशद्वारविषयायाः सर्वप्ररूपणायाः प्रस्तुताधिकारप्रारम्भे सत्पदद्वारे 'भत्थि अवत्तव्यत्त'मित्यादिगाथा- (७३२-७३३ )द्वयेनाभिहितत्वादुक्त शेषाणां तत्तदसंख्येयभागप्रभृतिवृद्धयादिसत्पदानां बन्धोऽप्योधत आदेशतश्चोत्कृष्टादिस्थितिबन्धवदोपशमिकादिभावानां मध्ये औदपिकेन भावेन जायते । अत्राऽऽपत्युपपत्तयस्तु भूयस्काराधिकारभावद्वारदर्शितनीत्या स्त्रयमभ्यूह्या इति ।।८१९॥ तदेवं कृतमतिदिष्टशेषस्थितिवन्धवृद्धयादिसत्पदेषु भावप्ररूपणम् , तथा च गतं भावद्वारम् । ॥ इति श्रीवन्धविधाने मूलप्रकृतिस्थितिबन्धे पञ्चमे वृद्धयधिकारे द्वादशं भावद्वारं समाप्तम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762